________________ विगोपितस्तत्राप्यहं जीर्णायां जीर्णायामपरापराँ गुटिकां दत्त्वा रूपान्तरं संपादयन्त्या भवितव्यतया असंख्येयमेव कालं, तथाहि-कृतोऽहमवश्यायहिममहिकाहरतनुशुद्धोदकाधनेकभेदरूपो रूपरसगन्धस्पर्शभेदेन विचित्राकारः / तथा सोढानि च तत्र पाटके वर्तमानेन मया शीतोष्णक्षारक्षत्राद्यनेकशस्त्रसंपाद्यानि नानादुःखानि / / ___ ततस्तत्कालपर्यन्ते जीर्णायामन्त्यगुटिकायां दत्ता ममापरा गुटिका भवितव्यतया / गतोऽहं तत्तेजसा चतुर्थे पाटके / तत्राप्यसंख्येयास्तेजस्कायनामानो ब्राह्मणाः प्रतिवसन्ति / ततोऽहमपि तेषां मध्ये भास्वरो वर्णेन, उष्णः स्पर्शन, दाहात्मकः कायेन, शुचिरूपः स्थानेन संपन्नस्तेजस्कायो ब्राह्मणः, प्रवृत्तश्च मम तत्र वसतो ज्वालाऽङ्गारमुर्मुरार्चिरलातशुद्धाग्निविधुदुल्काशनिप्रभृतयो व्यपदेशाः। जातानि विध्यापनादितो नानादुःखानि / स्थितः सूक्ष्मबादरपर्याप्तकापर्याप्तकरूपतया विवर्त्तमानोऽसंख्येयं कालम् / दत्ता च तदन्ते ममापरा गुटिका पर्यन्तगुटिकाजरणावसाने भवितव्यतया / गतोऽहं तदुपयोगेन पञ्चमपाटके / तत्राप्यसंख्येया वायवीयाभिधानाः क्षत्रियाः प्रतिवसन्ति / ततोऽहमपि तदा गतो ज्ञातः स्पर्शन, अलक्ष्यश्चक्षुष्मतां रूपेण, पताकाकारः संस्थानेन संजातो वायवीयः क्षत्रियः। आहूतश्च तत्र वर्तमानोऽहमत्कलिकावातो, मण्डलिकावातो, गुञ्जावातो, झन्झावातः, संवत्तेकवातो, घनवाततस्तनुवातः, शुद्धवात इत्यादिभिरभिधानैः / समुद्भूतानि तत्र मे शस्त्राभिघातनिरोधादीनि नानादुःखानि, विनाटितस्तत्रापि सूक्ष्मबादरपर्याप्तकापर्याप्तकाकाररूपतया घूर्णमानोऽसंख्येयं कालं भवितव्यतया / ततस्तदवसाने जाते पर्यन्तगुटिकाजरणे दत्त्वाऽपरां गुटिकां पुनर्नीतोऽहं प्रथमपाटके भवितव्यतया / स्थितस्तत्र पुनरनन्तं कालं, ततः पुनरपरापरगुटिकाप्रयोगेणैव प्रापितो द्वितीयादिपाटकेषु, स्थितश्चैकैकस्मिन्नसंख्येयं कालम् / ततश्चानेन प्रकारेण तस्मिन्नेकाक्षनिवासे नगरे कारितोऽहमनन्तवाराः समस्तपाटकपर्यटनविडम्बनं तीव्रमोहोदयात्यन्ताबोधयोः समक्षं भवितव्यतया / __अन्यदा मनाक् प्रसन्नचित्तयाऽभिहितं-यथाऽऽर्यपुत्र ! स्थितो भूयांसं कालं त्वमत्र नगरे, ततोऽपनयामि भवतः स्थानाजीर्ण, नयामि भवन्तं नगरान्तरे / मयोक्तम्-यदाज्ञापयति देवी / तदा प्रयुक्ता गुटिका भवितव्यतया / इतश्चास्ति विकलाक्षनिवासं नाम नगरं, तत्र च त्रयः प्रधानपाटका विद्यन्ते, तस्य नगरस्य परिपालकः कर्मपरिणाममहाराजनियुक्त एवोन्मार्गोपदेशो नाम महत्तमः / तस्य माया नाम गृहिणी / ततोऽहं गुटिकामाहात्म्येन प्राप्तस्तत्र प्रथमे पाटके / तस्मिंश्च सप्तकुलकोटिलक्षवर्तिनोऽसंख्येया द्विहृषीकाभिधानाः कुलपुत्रकाः प्रतिवसन्ति / ततोऽहमपि संपन्नस्तेषां मध्ये द्विहृषीकः, ततोऽपगता मे सा सुप्तमत्तमूछितमृतरूपता, जातो मनागभिव्यक्तचैतन्यः / ततश्च-कृतोऽहं गुटिकादानद्वारेणैव ततस्तया / कृमिरूपोऽशुचिस्थाने, महापापः स्वभार्यया // 1 // मूत्रान्त्रक्लेदजम्बालपूरिते जठरे स्थितम् / मां पश्यन्ती विशालाक्षी, ततः सा परितुष्यति // 2 // कदाचित्सारमेयादिदुर्गन्धिव्रणकोटरे / मामन्यकृमिजालेन, संयुतं वीक्ष्य मोदते // 3 // वर्णोऽपघसराधेषु, लोलमानं सुदुःखितम् / मां दृष्ट्वा कृमिभावेन, तुष्टाऽभूद्भवितव्यता // 4 // जलूकाभावमापाद्य, गुटिकादानतस्तथा / ममेत्थं चाकरोद् दुःखं, इसन्ती सह मायया // 5 //