________________ सजगते. द्वितीयः प्रस्तावः। अस्तीह लोके सुमेरुरिवाकालप्रतिष्ठार, नीरनिधिरिव महासत्त्वसेवितार, कल्याणपरम्परेव मनोरथपूरणी, जिनप्रणीतप्रव्रज्येव सत्पुरुषप्रमोदहेतुः, समरादित्यकथेवानेकवृत्तान्ता, निर्जितत्रिभुवनेव लब्धश्लाघा, सुसाधुक्रियेवापुण्यैरतिदुर्लभा मनुजगति म नगरी। सा च कीदृशी ? उत्पत्तिभूमिधर्मस्य, मन्दिरमर्थस्य, प्रभवः कामस्य, कारणं मोक्षस्य, स्थानं महोत्सवानामिति / यस्यामुत्तुङ्गानि विशालानि विचित्रकनकरत्नभित्तिविचित्राणि अतिमनोहारितया परमदेवाध्यासितानि मेरुरूपाणि देवकुलानि / यस्यां चानेकाद्भुतवस्तुस्थानभूतत्वेनापहसितामरनिवासा३: क्षितिप्रतिष्ठिताद्यनेकपुरकलिता भरतादिवर्षरूपाः पाटकाः, अत्युच्चतया कुलशैलाकाराः पाटकपरिक्षेपाः। यस्याश्च मध्यभागवत्ती दीर्घतराकारो विजयरूपावश्पणपङ्क्तिभिर्विराजितो महापुरुषकदम्बकसंकुलः शुभाशुभमूल्यानुरूपपण्यलाभहेतुर्महाविदेहरूपो विपणिमार्गः / यस्याश्च निरुद्धचन्द्रादित्यादिगतिप्रसरतयाऽतीतः परचक्रलङ्घनाया मानुषोत्तरपर्वताकारः प्राकारः, तस्मात्प५(दा )रतो यस्यां विस्तीर्णगम्भीरा समुद्ररूपा परिखा, यस्यां च सदा विबुधाव्यासितानि भद्रशालवनादिरूपाणि नानाकाननानि, यस्यां च बहुविधजन्तुसंघातजलपूरवाहिन्यो महानदीरूपा महारथ्याः, यस्यां च समस्तरथ्यावताराधारभूतौ लवणकालोदसमुद्ररूपौ द्वावेव महाराजमार्गों, यस्यां च महाराजमार्गप्रविभक्तानि जम्बूद्वीपधातकीखण्डपुष्करवरद्वीपार्द्धरूपाणि वसन्ति त्रीण्येव पाटकमण्डलानि, यस्यां च लोकसुखहेतवः समुचितस्थानस्थायिनः कल्पद्रुमरूपा भूयांसः स्थानान्तरीयनृपतय इति / अपि च यस्याः कः कोटिजिहोऽपि, गुणसंभारगौरवम् / शक्तो वर्णयितुं लोके, नगर्याः, किमु मादृशः॥१॥ यस्यां तीर्थकृतोऽनन्ताश्चक्रिकेशवसीरिणः / संजाताः संजनिष्यन्ते, जायन्तेऽद्यापि केचन // 2 // या चेह सर्वशास्त्रेषु, लोके लोकोत्तरेऽपि च / अनन्तगुणसंपूर्णा, दुर्लभत्वेन गीयते // 3 // उच्चावचेषु स्थानेषु, हिण्डित्वा श्रान्तजन्तवः / प्राप्ताः खेदविनोदेन, लभन्ते यत्र निर्वृतिम् // 4 // विनीताः शुचयो दक्षा, यस्यां धन्यतमा नराः / न धर्ममपहायान्यन्नूनं चेतसि कुर्वते // 5 // यस्यां नार्यः सदाऽनार्यकार्यवर्जनतत्पराः / पुण्यभाजः सदा धर्मे, जैनेन्द्रं पर्युपासते // 6 // किं चात्र बहुनोक्तेन वस्तु नास्ति जगाये / तस्यां निवसतां सम्यक्, पुंसां यनोपपद्यते // 7 // सा हि रत्नाकरैः पूर्णा, सा विद्याभूमिरुत्तमा / सा मनोनयनानन्दा, सा दुःखौघविनाशिका॥८॥ साऽखिलाश्चर्यभूयिष्ठा, सा विशेषसमन्विता / सा मुनीन्द्रसमाकीर्णा, सा सुश्रावकभूषिता // 9 // 1 शाश्वती. 2 महाजलचराः तीर्थकदाद्याश्च. 3 तिरस्कृता... पापण• पा०५ मानुषोत्तरपुष्करार्धाभ्यां अर्वाक. सुगमगर्या