________________ तथाहि-यद्यपि स्वयं बुभुक्षाक्षामः पुरुषः स्वामिसंबन्धिनमाहारविशेषं तदादेशेनैव तदुचितपरिजनाय प्रकटयन् न भोजनायोत्सगे९४ कलयति तथाऽप्यसावाहारविशेषस्तं परिजनं तर्पयत्येव, न वक्तृदोषेण स्वरूपं विरहयति, तथेहापि योजनीयम् / तथाहि-स्वयं ज्ञानाद्यपरिपूर्णेनापि मया भगवदागमानुसारेण निवेदितानि ज्ञानादीनि ये भव्यसत्त्वा ग्रहीष्यन्ति तेषां रागादिबुभुक्षोपशमेन स्वास्थ्यं करिष्यन्त्येव, स्वरूपं हि तत्तेषामिति / कथाश्रवणे किं च यद्यपि भगवत्सिद्धान्तमध्यमध्यासीनमेकैकं पदमाकर्ण्यमानं भावतः सकलं रागादिरोगविज्ञप्तिः जालं समुन्मूलयितुं पटिष्ठमेव, स्वाधीनं च तदाकर्णनं भवतां, तथा यद्यपि चिरन्तनमहापुरुषोपनि बद्धकथाप्रबन्धश्रवणेनापि सद्भावनया क्रियमाणेन रागादित्रोटनं सुन्दरतरं संभवत्येव तथाऽप्यमुनोपायेन संसारसागरं तरितुकामे मयि परमकरुणैकरसाः सन्तः प्रस्तुतकथाप्रबन्धमपि सर्वेऽपि भवन्तः श्रोतुमर्हन्तीति / पीठबन्धो . तदेवमेतत्कथानकं प्रायः प्रतिपदमुपनीतं, यत्पुनरन्तरान्तरा किश्चिन्नोपनीतं तस्याप्यनेनैवानु सारेण स्वबुद्ध्यैवोपनयः कार्यः। भवत्येव गृहीतसङ्केतानामुपमानदर्शनादुपमेयप्रतीतिः, अत एवेदं कथानकमादावस्यैवार्थस्य दर्शनार्थमुपन्यस्तं, यतोऽस्यां कथायां न भविष्यति प्रायेण निरुपनयः पदोपन्यासः ततोऽत्र शिक्षितानां सुखेनैव तदवगतिर्भविष्यतीत्यलमतिविस्तरेणेति / इह हि जीवमपेक्ष्य मया निजं, यदिदमुक्तमदः सकले जने / लगति संभवमात्रतया त्वहो, गदितमात्मनि चारु विचार्यताम् // 1 // निन्दाऽऽत्मनः प्रवचने परमः प्रभावो। रागादिदोषगणदौष्टयमनिष्टता च / प्राकर्मणामतिबहुश्च भवप्रपश्चः, प्रख्यापितं सकलमेतदिहाद्यपीठे // 2 // संसारेऽत्र निरादिके विचरता जीवेन दुःखाकरे, जैनेन्द्र मतमाप्य दुर्लभतरं ज्ञानादिरत्नत्रयम् / लव्धे तत्र विवेकिनाऽऽदरवता भाव्यं सदा वर्द्धने, तस्येवाऽऽद्यकथानकेन भवतामित्येतदावेदितम् // इत्युपमितिभवप्रपञ्चायां कथायां पीठवन्धो नाम प्रथमः प्रस्तावः समाप्तः // 1 // पसंहारः 94 रसवं प्र.