________________ परोपकारे पुषाः समस्तजनग्रहणाभिलाषः ततोऽयं तदुपायो मामके चेतसि परिस्फुरति यदुत निधोयेदं भेषजायं विशालायां काटपाच्यां ततस्तां महाराजसदनाजिरे यत्र प्रदेशे समस्तजनाः पश्यन्ति तस्मिन विमच्य ततो विश्रब्धमानसोऽवतिष्ठस्व, का ते चिन्ता ? यतोऽज्ञातस्वामिभावाः साधारणमेतदिति बुद्धया तथाकृतं सर्वेऽपि ग्रहीष्यन्ति, किं वा तेन ? योकोऽपि सद्गुणः पुरुषस्तदादद्यात् ततो भविष्यति ते मनोरथपरिपूर्तिरिति / ततस्तथैव कृतं समस्तं तत्तेनेति तथाऽयमपि जीवोऽनासादितज्ञानादिनिक्षेपपात्रः सद्बुद्धिपर्यालोचादेवेदं जानीते यदुत न मौनमालम्बमानः परेषां ज्ञानाद्याधानं विधातुं पार्यते, न च ज्ञानादिसंपादनं विहायान्यः परमार्थतः परोपकारः संभवति, अवाप्तसन्मार्गेण च पुरुषेण जन्मान्तरेऽपि तस्याविच्छेदनमभिलषता परोपकारकरणपरेण भवितव्यं, तस्यैव पुरुषगुणोत्कर्षाविर्भावकत्वात् / यतः परोपकारः सम्यक् क्रियमाणो धीरतामभिवर्द्धयति, दीनतामपकर्षति, उदारचित्ततां विधत्ते, आत्मम्भरितां मोचयति, चेतोवैमल्यं वितनुते / प्रभुत्वमाविर्भावयति / ततोऽसौ प्रादुर्भूतवीर्योल्लासः प्रणष्टरजोमोहः, परोपकारकरणपरः पुरुषो जन्मान्तरेष्वप्युत्तरोत्तरक्रमेण चारुतरं सन्मार्गविशेषमासादयति, न पुनस्ततः प्रतिपततीति / तदिदमवेत्य स्वयमुपेत्यापि ज्ञानादिस्वरूपप्रकाशने यथाशक्ति प्रवर्तितव्यं, न पराभ्यर्थनमपेक्षणीयमिति / ततोऽयं जीवोऽत्र भगवन्मते वर्तमानो देशकालाद्यपेक्षयाऽपरापरस्थानेषु परिभ्रमन् महता प्रपञ्चेन कुरुते भव्येभ्यो ज्ञानदर्शनचारित्ररूपमार्गप्रतिपादनम् / सेयं घोषणा विज्ञेया, ततस्तथा कथयतोऽस्मात् प्रस्तुतजीवाद्ये मन्दतरमतयस्ते तदुपदिष्टानि ज्ञानादीनि कदाचिद् गृह्णीयुः, ये पुनर्महामतयस्तेषामेष दोषपुञ्जतां प्राक्तनीनामस्यानुस्मरतां हास्यप्रायः प्रतिभासते, हीलनोचितश्च तेषामयं जीवः, यत्तु न हीलयन्ति स तेषामेव गुणो, न पुनरस्येति / ततोऽयं चिन्तयति-कथं पुनरयं ज्ञानाद्युपदेशः सर्वानुग्राहको भविष्यतीति ? ततः सद्बुद्धिबलादेवेदं लक्षयति यदुत न साक्षान्मया दीयमानोऽयममीषां समस्तलोकानामुपादेयतां प्रतिपद्यते, तस्मादेवं करिष्ये यदुत यान्येतानि ज्ञानदर्शनचारित्राणि भगवन्मतसारभूतानि प्रतिपाद्यानि वर्तन्ते तान्येकस्यां ग्रन्थपद्धतौ ज्ञेयश्रद्धेयानुष्ठेयार्थविरचनेन विषयविषयिणोरभेदोपचारद्वारेण व्यवस्थाप्य ततस्तां ग्रन्थपद्धतिमा मौनीन्द्रे प्रवचने भव्यजनसमक्षं मुत्कलां मुश्चामि, ततस्तस्यां वर्तमानानि तानि समस्तजनादेयानि भविष्यन्ति / किं च यद्येकस्यापि जन्तोस्तानि भावतः परिणमेयुः ततस्तस्कर्तुम किं न पर्याप्तमिति / तदिदमवधार्यानेन जीवेनेयमुपमितिभवप्रपश्चा नाम कथा यथार्थाभिधाना प्रकृष्टशब्दार्थविकलतया सुवर्णपाच्यादिव्यवच्छेदेन काष्ठपात्रीस्थानीया निहितज्ञानदर्शनचारित्रभेषजत्रयी तथैव विधास्यते / ___ तत्रैवं स्थिते भो भव्याः ! श्रूयतां भवद्भिरियमभ्यर्थना यथा तेनापि रोरेण तथा प्रयुक्तं त पजत्रयमुपादाय ये रोगिणः सम्यगुपभुञ्जते ते नीरोगतामास्कन्दन्ति, युज्यते च तत्तेषां गृहीतं, तस्य ग्रहणे रोरोपकारसंपत्तेः, तथा मादृशाऽपि भगवदवलोकनयाऽवाप्तसद्गुरुपादप्रसादेन तदनुभावाविर्भूतसद्बुद्धितया यदस्यां कथायां विरचयिष्यते ज्ञानादित्रयं तल्लास्यन्ति ये जीवास्तेषां तद्रागादिभावरोगनिबर्हणं संपत्स्यत एव, न खलु वक्तुर्गुणदोषावपेक्ष्य वाच्याः पदार्थाः स्वार्थसाधने प्रवर्त्तन्ते, कथाकृती प्रयोजनं कथानोकगुणप्राप्तिः