________________ वैराग्यम् ततो यदुक्तं यदुत-अन्यदा 'तेन वनीपकेन महाकल्याणकापूर्णीदरेण तत्कदनं लीलया कथगित प्राशितं, ततस्तृप्त्युत्तरकालं भुक्तत्वात्तस्य यथावस्थितैरेव गुणैः कुथितत्वविरसत्वनिन्धत्वादिभिश्चेतसि प्रतिभातं, ततः संजातोऽस्य तस्योपरि व्यलीकीभावः, ततस्त्यक्तव्यमेवेदं मयेति सिद्धान्तीकृत्य स्वमनसा तत्त्यागार्थमादिष्टा सद्बुद्धिः, तयाऽभिहितं धर्मबोधकरण साई पर्यालोच्य मुच्यतामेतदिति ततस्तदन्तिके गत्वा निवेदितः स्वाभिप्रायो वनीपकेन, तेनापि निकाचनापूर्व त्याजितोऽसौ तत्कदनं, क्षालितं विमलजलैस्तद्भाजनं, पूरितं परमानेन, विहितस्तदिने महोत्सवः, जातं जनप्रवादवशेन तस्य वनीपकस्याभिधानं सपुण्यक इति'। तदिदं वृत्तान्तान्तरमस्यापि जीवस्य दोलायमानबुद्धस्तथा गृहस्थावस्थायां वर्तमानस्य क्वचित्संभवतीत्यवगन्तव्यं, तथाहि—यदाऽयं जीवो विदितप्रशमसुखास्वादो भवति भवप्रपश्चाद्विरक्तचित्तस्तथापि केनचिदालम्बनेन गृहमधिवसति तदा करोत्येव विशिष्टतरं तपोनि यमाभ्यास, स एष परमान्नाभ्यवहारोऽभिधीयते / यत्तु तस्यामवस्थायामनादरेणार्थोपार्जनं कामासेवन वा तल्लीलया कदशनप्राशनमिति विज्ञेयं, ततो यदा भार्या वा व्यलीकमाचरेत् , पुत्रो वा दुविनीततां कुर्यात् , दुहिता वा विनयमतिलवयेत् , भगिनी वा विपरीतचारितामनुचेष्टेत , भ्राता वा धर्मद्वारेण धनव्ययं विधीयमानं न बहु मन्यते, जननीजनको वा गृहकर्तव्येषु शिथिलोऽयमिति जनसमक्षमाक्रोशेतां, बन्धुवर्गी वा व्यभिचारं भजेत, परिकरो वाऽऽज्ञा प्रतिकूलयेत् , स्वदेहो वाऽतिलालितपालितोऽपि खलजनवद्रोगादिकं विकारमादर्शयेत् , धननिचयो वा अकाण्ड एव विद्युल्लताविलसितमनुविदध्यात् ,तदाऽस्य जीवस्य परमानतृप्तस्य कुभोजनमिव समस्तोऽपि संसारविस्तरः सुतरां यथावस्थितस्वरूपेण मनसि प्रतिभासयेत्। ततस्तदाऽयं विविक्तेन चेतसा प्रादुर्भूतसंवेगः सवं भावयेत्--अये ! यदर्थमहं विज्ञातपरमार्थोऽपि स्वकार्यमवधीर्य सदनमधिवसामि तस्य स्वजनधनादेरेवंविधः परिणामः, तथापि ममापर्यालोचितकारिणो नास्योपरि स्नेहः [ मोहः ] प्रवर्तमानो निवर्त्तते, नूनमविद्याविलसितमेवेदं, यदीदृशोऽप्यत्र चेतसः प्रतिबन्धः, तत्किमर्थमनर्थव्यामूढहृदयः खल्वहमात्मानं वश्चयामि, तस्मान्मुश्वामीदं सकलं जम्बालकल्पं कोशिकाकारकीटस्येवात्मबन्धनमात्रफलं बहिरन्तरङ्गसङ्गकदम्बकम् / यद्यपि यदा यदा पर्यालोच्यते तदा तदा विषयस्नेहकलाकुलितचेतसि दुष्करोऽस्य त्यागः प्रतिभासते तथाऽपि त्यक्तव्यमेवेदं मया, पश्चाद्यद्भाव्यं तद्भविष्यति / अथवा किमत्र यदभाव्यं ? न भविष्यत्येव मे किश्चित्परित्यक्तेऽस्मिन्नसुन्दरं, किन्तर्हि ? निरुपचरितश्चित्तप्रमोद एव संजनिष्यते / ततो यावदेष जीवोऽत्र परिग्रहकईमे गज इव निमग्नोऽवसीदति तावदेवास्यायमतिदुस्त्यजः प्रतिभासते, यदा पुनरयमेतस्माभिर्गतो भवति तदाऽयं जीवः सति विवेके नास्य धनविषयादेः संमुखमपि निरीक्षते / को हि नाम सकर्णको लोके महाराज्याभिषेकमासाद्य पुनश्चाण्डालभावमात्मनोऽभिलषेत् ? तदेवमेष जीवस्त्यक्तव्यमेवेदं मया नास्ति त्यजतः कश्चिदपायः इति स्थितपक्षं करोति। ततश्च पुनः सद्बुद्धया पर्यालोचयन्ने निश्चिनुते यदुत प्रष्टव्या मयाऽत्र प्रयोजने सद्धर्मगुरवः, ततो गत्वा तत्समीपे तेभ्यः सविनयं स्वाकूतं निवेदयति / ततस्ते तमुपबृहयन्ति, “सावु भद्र ! सुन्दरस्तेऽध्यवसायः, केवलं महापुरुषक्षुण्णोऽयं मार्गः त्रासहेतुः कातरनराणां, ततोऽत्र प्रवर्तितुकामेन भवता गाढमवलम्बनीयं धैर्य, न खलु विशिष्टचित्तावष्टम्भविकलाः पुमांसोऽस्य पर्यन्तगामिनः संपद्यन्ते सेयं निकाचना विज्ञेया। ततोऽयं जीवस्तद्गुरुवचनं तथेति भावतः प्रतिपद्यते / ततो गुरवः सम्यक् परीक्ष्य सन्निहितगीताथैश्च साढे पर्यालोच्य योग्यतामेनं प्रवाजयेयुरिति। ततश्च समस्तसङ्गत्यागकारणं दीक्षाऽऽ दान