________________ यागपरा मुखता तद्वचनमाकर्ण्य तस्य दोलायिता बुद्धिः, किं करवाणीति न संजातो मनसि निश्चय इति' तदिदमत्रापि जीवे तुल्यं वर्तते, तथाहि-यदाऽयं सांसारिककार्येषु चित्तानुबन्धत्रोटनेन ज्ञानाद्याचरणे दृढमनुसक्ततया गृहस्थावस्थायामपि वर्तमानो विज्ञातसंतोषसुखस्वरूपो भवति तदाऽस्याविच्छिन्नप्रशमसुखवा छया प्रादुर्भवत्येव सर्वसङ्गत्यागबुद्धिः, पालोचयति चात्मीयसबुद्धया सार्द्ध यदुत किमहमस्य विधाने समर्थों न वेति ? ततः सद्बुद्धिप्रसादादेवेदमेव लक्षयत्येव यथा अनादिभवाभ्यासवशेन स्वरसप्रवृत्तिरेष जीवो विषयादिषु, ततो यदि निःशेषदोषनिवृत्तिलक्षणां भागवतीमपि दीक्षामुररीकृत्य पुनरयं तामनादिरूढकर्मजनितां प्रकृतिमनुवर्तमानो विषयादिस्पृहयाऽप्यात्मानं विडम्बयिष्यति ततोऽस्यादित एव तदनङ्गीकरणं श्रेयस्कर, यतस्तीवाभिष्वङ्गरहितो विषयादिषु वर्तमानो गृहस्थोऽपि द्रव्यस्तवं ज्ञानाद्याचरणप्रधानं कुर्वाणः कर्माजीर्णजरणेन रागादिभावरोगतनुतामधिकृत्य याप्यतां लभते, न चेयमप्यनादौ भवभ्रमणे क्वचिदवाप्तपूर्वाऽनेन जीवेनातोऽत्यन्तदुर्लभेयं, यदि तु प्रव्रज्यां प्रतिपद्य पुनर्विषयाघभिलाषं विधत्ते ततः प्रतिज्ञाताकरणेन बृहत्तरचित्तसंक्लेशप्राप्तेर्गुरुतररागाछुटेकेण तामपि याप्यतां न लभते, ततो यावदेवं निरूपयत्ययं जीवः तावदस्य चारित्रमोहनीयकमाशैरनुवर्तमानविधुरिता सती पूर्व प्रवृत्ताऽपि सर्वसङ्गत्यागबुद्धिः पुनर्दोलायते / ततः संपद्यते वीर्यहानिः, ततोऽवलम्बते खल्वयमेवंविधानि कदालम्बनानि यदुत सीदति तावदधुना ममेदं कुटुम्बकं, मन्मुखनिरीक्षकं चेदं न वर्तते मद्विरहे, अतः कथमकाण्ड एव मुश्चामि ?, यदि वाऽद्याप्यसंजातबलोऽयं तनयः, अपरिणीतेयं दुहिता, प्रोषितभर्तृकेयं भगिनी, मृतपतिका वा, अतः पालनीया ममेयं, तथा नाद्यापि गृहधुर्धरणक्षमोऽयं भ्राता, जराजर्जरितशरीराविमौ मातापितरौ, स्नेहकातरौ च, गर्भवतीय भार्या दृढमनुरक्तहृदया च न जीवति मद्विरहिता, अतः कथमे विसंस्थुलं परित्यजामि ?, यदि वा विद्यते मे भूरिधननिचयः, सन्ति बहवोऽधमर्णाः, अस्ति च सुपरीक्षितभक्तिर्भूयान् परिकरो बन्धुवर्गश्च, तदयं पोष्यो मे वर्त्तते, तस्मादुद्राह्य द्रविणं लोकेभ्यः, कृत्वा बन्धुपरिकराधीनं, विधाय धर्मद्वारेण धनविनियोग, अनुज्ञातः स्वरभसेन सर्वैर्मातापित्रादिभिर्विहिताशेषगृहस्थकृत्य एव दीक्षामङ्गीकरिष्ये, किमनेनाकाण्डविवरेणेति ? अन्यच्च यदिदं प्रव्रजनं नाम साक्षाद्वाहुभ्यां तरणमेतत् स्वयंभूरमणस्य वर्तते, प्रतिस्रोतोगमनमेतद्गङ्गायाः, चर्वणमेतदयोयवानां, भक्षणमेतदयोगोलकानां, भरणमेतत्सूक्ष्मपवनेन कम्बलमुत्कोल्याः, भेदनमेतत् शिरसा सुरगिरेः, मानग्रहणमेतत्कुशाग्रेण नीरनिधेः, नयनमेतदबिन्दुपातं धावता योजनशतं तैलापूर्णपाच्याः, ताडनमेतत् सव्यापसव्यभ्रमणशीलाष्टचक्रविवरगामिना शिलीमुखेन वामलोचने पुत्रिकायाः, भ्रमणमेतदनपेक्षितपादपातं निशातकरवालधारायामिति / यतोऽत्र परिसोढव्याः परिषहा, निराकर्त्तव्या दिव्याधुपसर्गाः, विधातव्या समस्तपापयोगनिवृत्तिः, वोढव्यो यावत्कथं सुरगिरिगुरुः शीलभारो, वर्तयितव्यः सकलकालं माधुकर्या वर्तनयाऽऽत्मा, निष्टप्तव्यो विकृष्टतपोभिर्देहः, स्वात्मीभावमानेतव्यः संयमः, समुन्मूलयितव्या रागादयो, निरोद्धव्यो हार्दतमःप्रसरः, किंबहुना ?, निहन्तव्योऽप्रमत्तचित्तैर्मोहमहावेताल इति / मृदुशयनाहारलालितपालितं च मामकं शरीरं, तथा अपरिकर्मितमद्यापि चित्तं, तनैतावतः प्रायेण महाभारस्योद्वहने सामर्थ्य, अथ चैतदप्यस्ति, न यावत्सकलद्वन्द्वविच्छेदद्वारेण भागवती दीक्षाऽभ्युपगता, न तावत्सम्पूर्ण प्रशमसुखमशेषक्लेशवित्रोटलक्षणो वा मोक्षोऽवाप्यत इति / न जानीमः किं कुर्महे ?" ततोऽयमेव जीवोऽनवाप्तकर्त्तव्यनिर्णयः सन्देहदोलारूढहृदयः कियन्तमपि कालं चिन्तयन्मेवावतिष्ठते /