SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ परित्यक्ता लोकसंज्ञा, समासेविता धर्मचारिता, समुत्तारितो भवोदधेरात्मा भवतेति" / ततो भगवतां सद्धर्मगुरुणामेवंविधवचोऽमृतप्रवाहप्रहादितहृदयोऽयं जीवस्तद्वचनं तथेति प्रतिपद्यते / उपदेश ___ ततस्ते तस्मै दयुरुपदेशं यदुत सौम्येदमेवात्र परमगु सम्यगवधारणीयं भवता यदुत दान यावदेष जीवो विपर्यासवशेन दुःखात्मकेषु धनविषयादिषु सुखाध्यारोपं विधत्ते, सुखात्मकेषु वैराग्यतपःसंयमादिषु दुःखाध्यारोपं कुरुते तावदेवास्य दुःखसम्बन्धः। यदा पुनरनेन विदितं भवति विषयेषु प्रवृत्तिदुःखं, धनाद्याकाङ्क्षानिवृत्तिः सुखं, तदाऽयमशेषेच्छाविच्छेदेन निराकुलतया स्वाभाविकमुखाविर्भावात् सततानन्दो भवति / अन्यच्च भवतोऽयं परमार्थः कथ्यते, यथा यथाऽयं पुरुषो निःस्पृहीभवति तथा तथाऽस्य पात्रतया सकलाः संपदः संपद्यन्ते, यथा यथा संपदभिलाषी भवति तथा तथा तदयोग्यतामिव निश्चित्य तास्ततो गाढतरं दूरीभवन्ति, तदिदं निश्चित्य भवता सर्वत्र सांसारिकपदार्थसार्थनास्था विधेया, ततस्ते स्वप्नदशायामपि पीडागन्धोऽपि मनःशरीरयो नैव संपत्स्यत इति" / रागादि- ततोऽयं जीवस्तमुपदेशममृतमिव गृह्णीयात् / ततस्ते धर्मगुरवः संपन्ना सद्बुद्धिरस्येतिकृत्वा हानिश्च नेदानीमेषोऽन्यथा भविष्यतीति तं प्रति निश्चिन्ता भवेयुरिति / ततः प्रादुर्भुतसबुद्धिरयं जीवो यद्यपि श्रावकावस्थायां वर्तमानः कुरुते विषयोपभोग, आदत्ते धनादिकं, तथापि यस्तत्राभिष्वङ्गोऽतृप्तिकारणभूतः स न भवति / ततो ज्ञानदर्शनदेशचारित्रेषु प्रतिबद्धान्तःकरणस्य तस्य ते द्रविणभोगादयो यावन्त एव संपद्यन्ते तावन्त एव सन्तोषमुत्पादयन्ति / ततोऽयं सद्बुद्धिप्रभावादेव तदानीं यथा ज्ञानादिषु यतते न तथा धनादिषु, ततोऽपूर्वा न वद्धन्ते रागादयः तनूप्रभवन्ति प्राचीनाः, तथा पूर्वोपचितकर्मपरिणतिवशेन यद्यपि क्वचिदवसरे काचिच्छरीरमनसोर्बाधा संपद्यते तथापि सा निरनुबन्धतया न चिरमवतिष्ठते, ततो जानीते तदाऽयं जीवः सन्तोषासन्तोषयोर्गुणदोषविशेष, संजायते चोत्तरगुणस्कन्दनेन चित्तप्रमोद इति / ततो यथा तेन वनीपकेन तया सद्बुद्धया परिचारिकया सह पर्यालोचितं-"भद्रे ! किन्निसद्बुद्धया सह स्वरूप मित्तः स्वल्वेष मम देहचेतसोः प्रमोदः ? तया च कदन्नलौल्यवर्जनं भेषजत्रयासेवनं च तस्य चिन्ता कारणमाख्यातं, तत्र युक्तिश्चोपन्यस्ता' तदिहापि समानमेव, तथाहि-सद्बुद्धयैव सह पालोचयभेष जीवो लक्षयति यदुत यदेतत्स्वाभाविकं देहमनोनिवृत्तिरूपं सुखमाविर्भूतं मम अस्य निबन्धनं विषयादिष्वभिष्वङ्गत्यागो ज्ञानाद्याचरणं च, तथाहि-प्रागभ्यासवशेन विषयादिषु प्रवर्त्तमानोऽप्येष जीवः सद्भुद्धिकलितः सन्नेवं भावयति-न युक्तमीचं विधातुं मादृशां, ततो गृद्धिविकलतया निवर्त्तते चेतसोऽनुबन्धः, ततः संपद्यते प्रशमसुखासिकेत्ययमत्र युक्तरुपन्यासो विज्ञेय इति / ततः 'यदुपलब्धसुखरसेन तेन रोरेण तस्याः परिचारिकायाः पुरतोऽभिहितं यदुत भद्रे ! सर्वथाऽधुना मुश्चामीदं कदनं येनात्यन्तिकमेतत्सुखं मे संपद्यत इति" / तयोक्तं, "चाविंद, केवलं सम्यगालोच्य मुच्यतां भवता, यतस्तेऽत्यन्तवल्लभमेतद्, ततो यदि मुक्तेऽपि तवात्र स्नेहबन्धोऽनुवर्तते तद्वरतरमस्यात्याग एव, यतस्तीवलौल्यविकलतया भुञ्जानस्यापीदं भेषजत्रयासेवनगुणेनाधुना याप्यता ते विद्यते, साऽपि चात्यन्तदुर्लभा, यदि पुनरस्य सर्वत्यागं विधाय त्वमेतद्गोचरं स्मरणमपि करिष्यसि ततो रोगा भूयोऽपि कोपं यास्यन्ति /
SR No.004358
Book TitleUpmitibhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy