________________ ततो यथा पुनस्तेन द्रमकेण तस्मै सूदाय स्ववृत्तान्तं निवेद्येदमभिहितं यदुत-'नाथास्तथा यतध्वं यथा न मे स्वप्नान्तेऽपि पीडोपजायते, ततस्तेनोक्त-इयं तदया व्यग्रतया न सम्यक तवापथ्यनिवारणं विधत्ते, ततः करोम्यन्यां नियंयां तव परिचारिकां, केवलं तद्वचनकारिणा भवता भव्यम् / ततः प्रतिपन्नं तत्तेन दत्ता तस्मै निःसाधारणी सद्बुद्धिर्नाम परिचारिका सूदेन, ततस्तद्गुणेन निवृत्तं तस्यापथ्यलाम्पटयं, ततस्तनूभूता रोगाः, निवृत्ताप्रायास्तद्विकाराः, संपन्ना मनार शरीरे सुखासिका, वर्द्धितश्चानन्द इति / तथैप व्यतिकरो जीवेऽपि समानो वर्तते, तथाहि-यथा धावन्नन्धो भित्तिस्तम्भादौ लब्धास्फोटो वेदनाविह्वलस्तामास्फोटवेदनां परस्मै कथयति तथाऽयमपि जीवो यदा गुरुनिवारिताचरणेन दृष्टापायत्वात् संजातप्रत्ययो भवति तदा ताननेकप्रकारानपायान् गुरुभ्यो निवेदयति, यदुत--"भगवन्नहं यदा युष्मन्निवारणया न गृह्णामि स्तेनाहृतं, न करोमि विरुद्धराज्यातिक्रम, नाचरामि वेश्यादिगमनं, नानुतिष्ठामि तथाविधमन्यदपि [धर्म ] लोकविरुद्धं, न रज्यामि महारम्भपरिग्रहयोः, तदा मां लोकः साधुतया गृह्णाति, मयि विश्रम्भं विधत्ते श्लाघां चाचरति / तथा न जानामि शरीरायासजनितं दुःखं, संपद्यते हृदयस्वास्थ्य, धर्मश्चैवं तिष्ठतां सुगतिप्रापको भवतीति भावनया भवति चित्तानन्द इति / यदा तु युष्मन्निवारणा न भवति, भवन्तीं वा तामनपेक्ष्य निर्भयतया न जानन्ति मां गुरव इत्यभिप्रायेण धनमूर्च्छनया गृह्णामि स्तेनाहृतादिकं, विषयलौल्येन गच्छामि वेश्यादिकं, समाचरामि तादृशमन्यदपि भगवन्निवारितं तदा लोकादश्लाघां. राजकुलात्सर्वस्वहरणं, शरीरखेदं मनस्तापमपरांश्च समस्ताननानीहलोक एव प्राप्नोमि / पापं च, दुर्गतिगर्तपातहेतुरेवं वर्तमानानां भवतीति चिन्तया दन्दह्यमानह्रदयः क्षणमपि सुखं न लभेऽहमिति / तस्मानाथास्तथा कुरुध्वं यूयं यथाऽहमनवरतं युष्मद्वचनाचरणसन्नाहेन सततमेतस्मादनर्थशरजालाद्रक्षितो भवामी"ति / सबुद्धेः सान्निध्य __ ततस्तदाकर्ण्य गुरवो ब्रूयुः “भद्र ! यदेतत्परप्रत्ययेनाकार्यवर्जनं, कादाचित्कमेतत्, केवलं तथाऽपि क्रियमाणस्य तस्येतरस्य च दृष्ट एव भवता विशेषः, वयं चानेकसत्त्वोपकारकरणव्यग्राः, न सदा सन्निहिता भवन्तं वारयितुं पारयामः, एवं च स्थिते न यावद्भवतः स्वकीया सद्बुद्धिः संपन्ना तावदेषाऽस्मन्निवारिताचरणनिबन्धनाऽनर्थपरम्परा भवन्ती न विनिवर्तते / सद्बुद्धिरेव हि परप्रत्ययमनपेक्ष्य स्वप्रत्ययेनैव जीवमकार्यानिवारयति, ततो मुच्यतेऽनर्थेभ्य इति" / ततोऽयं जीवो ब्रूयात् "नाथाः ! साऽपि भवत्प्रसादादेव यदि परं मम संपत्स्यते, नान्यथा" / ततो गुरवोऽभिदध्युः "भद्र ! दीयते सद्बुद्धिः, वचनायत्ता हि सा मादृशां वर्त्तते, केवलं दीयमानाऽपि सा पुण्यभाजामेव जन्तूनां सम्यक् परिणमति, नेतरेषां, यतः पुण्यभाज एव तस्यामादरवन्तो जायन्ते, नापरे / तदभावभाविनो हि देहिनां सर्वेऽनर्थाः, तदायत्तान्येव सकलकल्याणानि, तस्यामेव च ये महात्मानो यतन्ते त एव भगवन्तं सर्वज्ञमाराधयन्ति, नेतरे / तत्संपादनार्थः खल्वेष मादृशां वचनप्रपञ्चः, सद्बुद्धिविकलानां हि पुरुषाणां व्यवहारतः संजातान्यपि ज्ञानादीनि नासंजातेभ्यो विशिष्यन्ते, स्वकार्याकणात् किं बहुनोक्तेन ? सद्बुद्धिविकलः पुरुषो न पशूनतिशेते / तस्माद्यदि तेऽस्ति सुखाकाङ्क्षा दुःखेभ्यो वा यदि विभेषि ततोऽस्यामस्माभिर्दीयमानायां सद्बुद्धौ यत्रो विधेयः, तस्यां हि यत्नवता समाराधितं प्रवचनं, बहुमतो भुवनभर्ता, परितोषिता वयं, अङ्गीकृतं लोकोत्तरयानं,