________________ पथार्थसपुण्यकत्व . रागादिरोगलाघ कदन्नत्याजनतुल्यं वर्तते, आजन्मालोचनादापनपुरस्सरं प्रायश्चित्तेन तज्जीवितव्यस्य विशोधनं विमलजलै जनक्षालनकल्पं विज्ञेयं, चारित्रारोपणं तु तस्यव परमानपूरणसदृशमवगन्तव्यमिति। भवति च सद्गुरूपदेशप्रसादादेवास्य जीवस्य दीक्षाग्रहणकाले भव्यप्रमोदहेतुश्चैत्यसंघादिपूजाप्रधानोऽन्येषामपि सन्मार्गप्रवृत्तिकारणभूतो महानुत्सव इति / तथा संजायते गुरूणामपि समुत्तारितोऽस्माभिरयं संसारकान्तारादिति भावनया चित्तपरितोषः। ततः प्रवद्धते तेषामस्योपरि गुरुतरा दया, तत्प्रसादादेवास्य जीवस्य विमलतरीभवति सद्बुद्धिः, ततस्ताहशसदनुष्ठानविलोकनेन लोकतो वर्णवादोत्पत्तिः संपद्यते प्रवचनोद्भासना, ततश्चेदं तेन समानं विज्ञेयं यदवाचि कथानके यदुत धर्मबोधकरो हृष्टस्तदया प्रमदोधुरा सद्बुद्धिर्वदितानन्दा, मुदितं राजमन्दिरम् // 417 // ततोऽङ्गीकृतमन्दराकारविरतिमहाभारमेनं जीवं तदा श्लाघन्ते भक्तिभरनिर्भरतया रोमाञ्चाश्चितवपुषो भव्यलोकाः, यदुत-धन्यः कृतार्थोऽयं मुलब्धमस्य महात्मनो जन्म, यस्यास्य सत्प्रवृत्तिदर्शनेन निश्चियते संजाता भगवदालोकना, संपन्नः सद्धर्मसूरिपादप्रसादः, तत एवाविर्भूता सुन्दरा बुद्धिः, ततः कृतोऽनेन बहिरन्तरङ्गसङ्गत्यागः, स्वीकृतं ज्ञानादित्रयं, निर्दलितप्राया रागादयः, न ह्यपुण्यवतामेष व्यतिकरः संभवति, ततोऽयं जीवः सपुण्यक इति जनैस्तदा सयुक्तिकमभिधीयत इति / ततस्तदनन्तरं यदुक्तं यथा 'तस्य वनीपकस्यापथ्याभावे नास्ति परिस्फुटा देहे रोगपीडा, यदि स्यात्पूर्वदोषजा कचिदवसरे सापि सूक्ष्मा भवति तथा झटिति निवर्त्तते तच चारुभेषजत्रयमनवरतमासेवते, ततस्तस्य धृतिबलादीनि वर्द्धन्ते, केवलं बहुत्वाद्रोगसन्तते द्यापि नीरोगो भवति, विशेषस्तु महान् संपन्नः तथाहि 'यः प्रेतभूतः प्रागासीद् गाढं बीभत्सदर्शनः / स तावदेष संपन्नो, मानुषाकारधारकः // 418 // इति / तदत्रापि जीवे तुल्यं वर्तते, तथाहि-भावसारं परिमुक्तगृहादिद्वन्द्वस्यास्य कारणाभावान्न भवत्येवाभिव्यक्ता काचिद्रागादिबाधा; अथ कथश्चित् प्रागुपचितकर्मोदयवशेन संजायते तथाऽपि सा सूक्ष्मैव भवति, न चिरकालमवतिष्ठते / ततोऽयं लोकव्यापारादिनिरपेक्षोऽनवरतं वाचनाप्रच्छनापरावर्तनानप्रेक्षाधर्मकथालक्षणपश्चप्रकारस्वाध्यायविधानद्वारेण ज्ञानमभिवर्द्धयति, प्रवचनोनतिकरशास्त्राभ्यासादिना सम्यग्दर्शनं स्थिरता लम्भयति, विशिष्टतरतपोनियमाद्यनुशीलनया चारित्रमपि सात्मीभावं नयति / तदिदं भावतो भेषजत्रयसेवनभिधीयते। ततस्तत्परिणत्या प्रादुर्भवन्त्येवास्य धीधृतिस्मृतिबलाधानादयो गुणविशेषाः, केवलमनेकभवोपात्तकर्मप्रचयप्रभवा भूयांसः खलु रागादयो भावरोगाः, ततो नायमद्यापि नीरोगः संपद्यते, किन्तु रोगतानवविशेषो बृहत्तमः संजातः। तथाहि-योऽयं जीवो गाढमनार्यकार्याचरणरतिः स्वसंवेदनेन प्रागनुभूतः सोऽधुना धर्माचरणेन प्रीतिमनुभवन्ननुभूयत इति / ततो यथा 'भेषजत्रयोपभोगमाहात्म्येनैव रोरकालाभ्यस्ततुच्छताक्लीवतालौल्यशोकमोहभ्रमादीन् भावान् विरहय्य स वनीपको मनागुदारचित्तः संपन्न इत्युक्तं, तथाऽयमपि जीवो ज्ञानाद्यभ्यासप्रभावेनैवानादिकालपरिचितानपि तुच्छतादिभावानवधीर्य किञ्चिन्मानं स्फीतमानस इव संजात इत्युक्तमिति पता दानेच्छा