________________ 'धर्मानुष्ठानवैतथ्यात्प्रत्यपायो महान् भवेत् / रौद्रदुःखौघजनको, दुष्प्रयुक्तादिवौषधात् // 1 // ज्ञातं चास्माभिर्भगवदादिष्टं सुगुरुपारम्पर्यात् , ज्ञातं भगवत्प्रसादादेव तदुचितानुचितानां जीवानां लक्षणम् / एतान्येव हि ज्ञानदर्शनचारित्राणि भगवता तेषां जीवानां सङ्ग्रहपरिच्छेदकारकाणि प्रतिपादितानि, तत्र येषामायावस्थायामपि कथ्यमानानि तानि प्रीतिं जनयन्ति तत्सेविनश्चान्ये प्रतिभासन्ते, ये च सुखेनैव तानि प्रतिपद्यन्ते, येषां सेव्यमानानि च द्रागेव विशेषं दर्शयन्ति ते लघुकर्माणः प्रत्यासन्नमोक्षाः सुदारुवद्रूपनिर्माणस्य तेषां योग्याः तथा भावरोगोच्छेदं प्रति सुसाध्यास्ते विज्ञेयाः। येषां पुनराधावसरे प्रतिपाद्यमानानि तानि न प्रतिभान्ति तदनुष्ठानपरायणांश्चान्यान् येऽवधीरयन्ति सद्गुरुविहितमहाप्रयत्नेन च ये प्रतिबुध्यन्ते, तथाऽऽसेव्यमानानि तानि येषां कालक्षेपेण विशेष दर्शयन्ति पुनः पुनरतिचारकारका निश्चयेन ते गुरुकर्माणो व्यवहितमोक्षा मध्यमदारुवद्रपनिर्माणस्य सद्गुरुपरिशीलनया तेषां योग्यतां प्रतिपद्यन्ते / तथा भावरोगोपशमं प्रति ते कृच्छ्रसाध्या मन्तव्याः। येभ्यः पुनरेतानि निवेद्यमानानि न कथञ्चन रोचन्ते प्रयवशतैरपि संपाद्यमानानि येषु न क्रमन्ते तदुपदेष्टारमपि प्रत्युत ये द्विषन्ति ते महापापा अभव्याः। अत एवैकान्तेन तेषामयोग्याः तथा भावव्याधिनिबर्हणं प्रत्यसाध्यास्तेऽवगन्तव्या इति / तदिदं सौम्य ! यद् भगवत्पादप्रसादेनास्माभिलक्षणमवधारितं, अनेन लक्षणेन यथा त्वमात्मस्वरूपं कथयसि यथा च वयं भवत्स्वरूपं लक्षयामः तथा त्वं परिशीलनागम्यः कृच्छ्रसाध्यो वर्तसे / एवं च स्थिते न भवतो महाप्रयत्नव्यतिरेकेण रागादिरोगोपशममुपलभामहे / / तस्माद्वत्स ! यद्यद्यापि न भवतः सर्वसङ्गत्यागशक्तिविद्यते ततोऽत्र वितते भागवते प्रवचने कृत्वा भावतोऽविचलमवस्थानं, विहायाशेषाकाङ्क्षाविशेषान् भगवन्तमेवाचिन्त्यवीर्यातिशयपरिपूर्णतया निःशेषदोषशोषणसहिष्णुमनवरतं चेतसि गाढभक्त्या व्यवस्थापयन् देशविरत एवावतिष्ठस्व, केवलमनवरतमेतदेव ज्ञानदर्शनचारित्ररूपं त्रयमुत्तरोत्तरक्रमेण विशिष्टं विशिष्टतमं भवता यत्नेनासेवनीयम् / एवमाचरतस्ते भविष्यति रागादिरोगोपशमो, नान्यथेति" / या चेयमीदृशी सदुपदेशदाने प्रवर्त्तमानानां भगवतां सद्धर्मगुरूणामस्य जीवस्योपरि दया सैव अस्य परमार्थतः परिपालनक्षमा परिचारिका विज्ञेया / ततोऽयं जीवः प्रतिपद्यते तदानीं तद्गुरुवचनं, करोति यावज्जीवं मयैतदेवं कर्तव्यमिति निश्चय, तिष्ठति देशविरतः कियन्तमपि कालमत्र भगवन्मतमन्दिरे, पालयति धनविषयकुटुम्बाद्याधारभूतं भिक्षापात्रकल्पं जीवितव्यम् / तस्मिन्नवसरे एवं च तिष्ठतस्तस्य यो वृत्तान्तः सोऽधुना प्रतिपाद्यते / तत्र यदुक्तं यदुत'सा तद्दया ददाति तस्मै तत्रितयमहर्निश, केवलं तत्र कदनेऽतिमूच्छितस्य वनीपकस्य न तस्मिन्नादर इति' तदिहापि तुल्यमेवावसेयं, तथाहि--गुरोः सम्बन्धिनी दया सम्पादयत्येवास्य जीवस्यानारतं विशेषतो ज्ञानादीनि, तथापि कर्मपरतन्त्रतया धनादिषु मूच्छितचित्तोऽयं न तानि सम्यग् बहुमन्यते अन्यच्च-यथा 'असौ कथानकोक्तो मोहवशेन तत् कुभोजनं भूरि भुङ्क्ते, तद्दयादत्तं पुनः परमानमुपदंशकल्पं कल्पयति' तथाऽयमपि जीवो महामोहाध्मातमनसो धनोपार्जनविषयोपभोगादिषु गाढमाद्रियते, गुरुदययोपनीतं तु व्रतनियमादिकमनादरेणान्तराऽन्तरा सेवते वा न वा / यथा-'असौ देशविरतिग्रहः पुनध में उनादर