________________ 52 तत्त्वमार्ग व्याचक्षाणेषु भगवत्सु सुप्त इव, मत्त इवोन्मत्त इव, सम्मूर्च्छनज इव, शोकापन्न इव, मूच्छित इव, सर्वथा शून्यहृदयो न किञ्चिल्लक्षयामि / यच्च मच्चेतसो वैसंस्थुल्यकारणं तदाकर्णयन्तु भगवन्तः-ततः संजातपश्चात्तापोऽयं जीवो गुरुसमक्षं गर्हते स्वदुश्चरितानि, जुगुप्सते स्वदुष्टभाषितानि, प्रकटयति पूर्वकालभाविनः समस्तानपि कुविकल्पान् , निवेदयत्यादितः प्रभृति निःशेषमात्मवृत्तान्तमिति / रुपया स्था वदति च-जानाम्यहं भगवन्तो मम हितकरणलालसाः सन्तो बहुशो निन्दन्ति विषयादिकं, वर्णयन्ति सङ्गत्यागं, प्रशंसन्ति तत्रस्थानां प्रशमसुखातिरेकं, श्लाघन्ते तत्कार्यभूतं परमपदं, तथापि कर्मपरतन्त्रतयाऽहं भक्षितबहुमाहिषदधिवृन्ताकसंघात इव निद्रां, पीतामन्त्रपूततीव्रविष इव विह्वलतां, धनविषयादिष्वनादिभवाभ्यासवशेन भवन्तीं मूर्ची न कथञ्चिनिवारयितुं पारयामि। तया च विवलीभूतचेतसो मे भगवतां सम्बन्धिनी धर्मदेशनां महानिद्राऽवष्टब्धहृदयस्येव पुरुषस्य प्रतिबोधकनरोचारितां शब्दपरम्परां समाकर्णयतोऽपि गाढमुद्वेगकारिणीव प्रतिभासते / अथ च तस्या माधुर्य, गाम्भीर्यमुदारतां, परिणामसुन्दरतां च पर्यालोचयतः पुनरन्तराऽन्तरा चित्ताडादोऽपि संपद्यते / एतदपि पूर्वोक्तं यद् भगवद्भिरभ्यधायि यदुत नाशक्नुवन्तं वयं सङ्गत्यागं कारयाम इति, ततो मया नष्टभयवैधुर्येण भगवतां पुरतः कथयितुं शकितं, इतरथा यदा यदा भगवन्तो देशनायां प्रवर्तन्ते स्म तदा तदा मम चेतसि विकल्पः प्रादुरभूत्-अये ! स्वयं निस्पृहास्तावदेते, केवलं मां धनविषयादिकं त्याजयन्ति, न चाहं हातुं शक्नोमि, तदेष व्यर्थकः प्रयासोऽमीषामित्येवं चिन्तयन्नपि भयातिरेकान्न स्वाकूतमपि प्रकटयितुं पारितवानिति / तदेवं स्थिते यन्मया विधेयमेवंविधशक्तिना तत्र तत्र भगवन्तः श्रीसूरय एव प्रमाणमिति / पुरोविशेष तसूचन ततो यथा 'असौ पौरोगव९१स्तस्मै वनीपकाय पुनः प्रपश्चतो निवेद्य प्राचीनमशेषमर्थ ततः स्वकीयभेषजत्रयस्य योग्यायोग्यविभागं पूर्व महानरेन्द्रसंप्रदायितमाचचक्षे, तं चोवाच यथा 'भद्र ! कृच्छ्रसाध्यत्वमतो महायत्नमन्तरेण न रोगोपशमस्ते दृश्यते, तस्मादत्रैव राजमन्दिरे प्रयतो भूत्वा ध्यायन्ननवरतमेनं समस्तगदोद्दलनक्षमवीर्यातिशयं महाराजेन्द्रं भेषजत्रयोपभोग चाहर्निश कुर्वाणस्तिष्ठेति९२ / इयं च तदया तव परिचारिका, ततः प्रतिपनं समस्तं९३ तेन, स्थितः कियन्तमपि कालं विधायैकदेशे तद्भिक्षाभाजनमनारतं तदेव पालयन्निति' / तदिदमत्रैवं योजनीयम्-यदाऽयं जीवः प्रागुक्तन्यायेन निवेद्य स्वाभिप्रायं गुरुभ्यः पुनरुपदेशं याचते तदा ते तदनुकम्पया पूर्वोक्तं पुनरपि समस्तं प्रतिपाद्य पश्चात्तस्य व्युत्पादनार्थ येनायं कालान्तरेणापि न व्यभिचरतीति धर्मसामग्याः सुदुर्लभतां दर्शयन्तो रागादीनां भावरोगाणां चातिप्रबलतां ख्यापयन्तः स्वातन्त्र्यपरिजिहीर्षया चात्मनः साञ्जसमित्थमाचक्षते / मावरोगाणां साज्यासाध्य स्वविचारः __भद्र ! यादृशी सामग्री भवतः संपन्ना नाधन्यानामीदृशी कथश्चन संपद्यते / न हि वयमपात्रे प्रयासं कुर्मों, यतो भागवतीयमाज्ञा–योग्येभ्य एव जीवेभ्यो ज्ञानदर्शनचारित्राणि देयानि, नायोग्येभ्यः / अयोग्यदत्तानि हि तानि न स्वार्थसंसाधकानि संजायन्ते प्रत्युत वैपरीत्यापत्त्याऽनर्थसन्ततिं वर्द्धयन्ति, तथा चोक्तम् 91 महानसाधिपः 92 तिष्ठति 93 सरभास