________________ जीवस्य दौर्बल्यप्रकाशनं सामान्येन जानतेऽप्येनं भगवन्तं जन्तवः मुगुरुसम्प्रदायमन्तरेण न विशेषतो जानते / तदेवं ते गुरवस्तस्य जीवस्य पुरतो भगवद्गुणान् वर्णयन्ति, तथाऽऽत्मानमपि तकिङ्करं दर्शयन्ति, तं च जीव विशेषतो भगवन्तं नाथतया ग्राहयन्ति, भगवद्विशेषगुणेषु तस्य कौतुकमुत्पादयन्ति, तज्ज्ञानोपायभूतं रागादिभावरोगतानवं कथयन्ति, तस्यापि कारणं ज्ञानदर्शनचारित्ररूपं त्रयं दीपयन्ति, तस्य च प्रतिक्षणमासेवनमुपदिशन्ति, तदासेवनेन भगनदाराधनं निवेदयन्ति, भगवदाराधनेन परमपदप्राप्तिं महाराज्यावाप्तिकल्पां प्रतिपादयन्ति / एवमपि कथयति हितकारिणि गृहीतगुणस्थिरताविधायिनि भगवति धर्मसूरौ यथा 'असौ वनीपकः सूपकारवचनमवगम्यात्मीयाकूतवशेनेत्थमभिहितवान् यथा-नाथाः ! किम्बहुनोक्तेन ? न शक्नोम्यहं कथश्चनेदं कदन्नं मोक्तुमिति' तथा अयमपि जीवश्चारित्रमोहनीयेन कर्मणा विहलीभूतबुद्धिरेवं चिन्तयत्-अये ! यदेव महता प्रबन्धेन पुनः पुनरेते भगवन्तो मम धर्मदेशनां कुर्वन्ति तन्नूनं मां धनविषयकलत्रादिकमेतदेते त्याजयन्ति, न चाहं त्यक्तुं शक्नोमि, तत्कथयाम्येषां सद्भावं येन निष्कारणं भूयो भूयो भगवन्तः स्वगलतालुशोषमेते न विदधते / ततस्तथैव स जीवः स्वाभिप्रायं गुरुभ्यः कथयेदिति / ततो यथा 'तेन रसवतीपतिना चिन्तितं-न मयाऽयं स्वभोजनत्यागं कारितः, किन्तर्हि ? इदं भेषजत्रयमासेवस्वेत्युक्तस्तत्किमेवमेष भाषते ? अये ? स्वाभिप्रायविडम्बितोऽयं जानीते--मदीयानत्याजननिमित्तमेतत् समस्तं वागाडम्बरमिति / ततो विहस्य तेनोक्तं भद्र ! निराकुलो भव, नाधुना भवन्तं किश्चित्त्याजयामि, तवैव पथ्यमेतत्त्यजनमिति कृत्वा वयं ब्रूमो, यदि पुनर्भवते न रोचते ततोऽत्रार्थे अतः प्रभृति तूष्णीमासिष्यामहे / यत्पुनरेतदनन्तरमेव तव पुरतोऽस्माभिर्महाराजगुणवर्णनादिकं विहितं कर्त्तव्यतया च तव किञ्चित्समादिष्टं तत्त्वया कि किश्चिदवधारितं वा न वेति ?' तथा धर्मगुरवोऽपि सर्वमिदं चिन्तयन्ति वदन्ति च, तच्च स्पष्टतरमिति स्वबुद्धथैव योजनीयम् / ततो यथा 'असौ वनीपकोऽवादीत् यथा नाथ ! न मया किश्चिदत्र भवत्कथितमुपलक्षितं, तथापि तावकैः कोमलालापैरुल्लसितो मनाग मनसि प्रमोदः, निवेदितश्च९० तेन वनीपकेन 'नाधुना किञ्चित्त्याजयामीदं भवन्तं भोजनमिति, सूदवचनश्रवणामष्टभयाकूतेन सता स्वचेतसो वैधुर्यकारणभूतस्तस्य सूदस्य समक्षमादितःप्रभृति समस्तोऽप्यात्मवृत्तान्तः / अभिहितश्चासौ सूपकारो यदुत ‘एवं स्थिते यन्मया विधेयं तदाज्ञापयन्तु नाथाः, येनाधुनाऽवधारयामीति / तथाऽत्रापि विदिततच्चित्ता यदा धर्मगुरवो वदन्ति यदुत न वयं भवन्तमशक्नुवन्तं सर्वसङ्गत्यागं कारयामः, केवलं यदिदं भवतः स्थिरीकरणार्थमनेशो भगवद्गुणवर्णनादिकं वयं कुर्मः यच्च सम्यग्ज्ञानदर्शनचारित्राणामङ्गीकृतानामेव भवता सातत्यमनुपालनादिकमुपदिशामः, तदत्र भवान् किश्चिदवधारयति वा न वेति ? तदा वदत्येवं जीवो-भगवन्नाह सम्यक्किञ्चिदवधारयामि, तथापि यौष्माकीणपेशलवचनमोदितचित्तो यदा यदा कथयन्ति भगवन्तस्तदा तदा शून्यहृदयोऽपि विस्फारितेक्षणः किल बुध्य इवेत्याकर्णयस्तिष्ठामि / कुतः पुनर्मादृशां विशिष्टतत्त्वाभिनिवेशो ? यतोऽहं महताऽपि प्रयत्नेन 9. निगदितश्च पा० स्थैर्य भावाभिमुख्य स्वाकूतकथन