________________ जोवस्य मिश्र योजनाग्रहः पेशविरतिदान संतोषश्च ततो यथा 'महाप्रयत्नेनापि ब्रुवाणे तस्मिन् रसवतीपतावितरेणाभिहितं, यदुत-न मयेदं स्वभोजनं मोक्तव्यं, यद्यत्र सत्येव दीयते ततो दीयतामात्मभोजनमिति / तथाऽयमपि जीवः सद्धर्मगुरुभिरेवं भूयो भूयोऽभिधीयमानोऽपि गलिरिख बलीवर्दः पादप्रसारिकामवलम्ब्येत्थमाचक्षीत-- भगवन्नाहं धनविषयादिकं कथश्चन मोक्तुं पारयामि, यद्यत्र विद्यमानेऽपि भवति किश्चिच्चारित्रं तन्मे दीयतामिति / ततो यथा 'विज्ञाय तस्य रोरस्याग्रहविशेषं स सूरि(द)श्चिन्तयति स्म--नास्येदानीमन्यः शिक्षणोपायोऽस्ति, ततोऽस्मिन् सत्येव दीयतां, पश्चाज्ज्ञातमदीयानगुणः स्वयमेवैतत्कदन्नमेष विहास्यति / एवं च विचिन्त्य दापितं तत्तेन, भुक्तमितरेण, तदुपयोगेन शान्ता बुभुक्षा, तनूभूता रोगाः, प्रवर्द्धितमञ्जनसलिलजनितादधिकतरं सुखं, जातो मनःप्रसादः, प्रादुर्भूता तदायके तत्र पुरुष भक्तिः, अभिहितश्चासौ तेन, यथा 'भवानेव में नाथो, येनाहं भाग्यविकलोऽप्येवमनुकम्पित' इति / तथा धर्मगुरवोऽप्येवं बद्धाग्रहत्वेनामुञ्चति धनविषयादिकमत्र जीवे परिकलयन्ति-न शक्यते तावदयमिदानीं सर्वविरतिं ग्राहयितुं, तदेवं स्थिते देशविरतिस्तावदस्मै दीयतां, तत्पालनेनोपलब्धगुणविशेषः स्वयमेव सर्वसङ्गपरित्यागं करिष्यतीत्याकलय्य तथैव कुर्वन्ति / तदनेनैतदुक्तं भवतिअयमत्र क्रमः--प्ररूप्य प्रथमं प्रयत्नतः सर्वविरतिं, ततः सर्वथा तत्करणपराङ्मुखमुपलभ्य जीवं देशविरतिः प्ररूपणीया देया वा / प्रथमं पुनर्देशविरतिप्ररूपणे क्रियमाणे तस्यामेव प्रतिबन्धं विदध्यादयं जीवः, साधोश्च सूक्ष्मप्राणातिपातादावनुमतिः स्यादिति / ततस्तस्या देशविरतेः पालनं परमानलेशभक्षणतुल्यं विज्ञेयं, तदपयोगेनैवास्य जीवस्य प्रशाम्यति मनाग विषयाकाङ्क्षालक्षणा बुभुक्षा. तनभवन्ति रागादयो भावरोगाः, प्रवर्द्धते ज्ञानदर्शनसंपादनात् समर्गलतरं स्वाभाविकस्वास्थ्यरूपं प्रशमसुखं, संजायते सद्भावनया मनःप्रसादः, प्रादुर्भवति तदायकेषु गुरुषु / परमोपकारिणो ममैत इति भावयतो भक्तिः / अभिधत्ते च तानेष जीवस्तदानीं, यदुत यूयमेव मे नाथाः, यैरहमेवं दुर्दारुकल्पतया गाढमकर्मग्योऽपि स्वसामर्थ्येन कर्मण्यतां प्राप्य गुणभाजनता नीत इति। ततस्तदनन्तरं यथा 'तेन सूदेन तं वनीपकमुपवेश्य मधुरवचनैस्तस्य मनः प्रहादयता वर्णिता महाराजगुणाः, दर्शितश्चात्मनोऽपि तद्धृत्यभावः, ग्राहितः सोऽपि विशेषतस्तदनुचरत्वं, समुत्पादितं तस्य महानृपतेरेव विशेषगुणेषु कुतूहलं, कथितस्तत्परिज्ञानहेतुर्व्याधितनुभावः, प्रकाशितं तस्यापि कारणं भेषजत्रय, समादिष्टः प्रतिक्षणं तस्य परिभोगः, दीपितं तत्परिभोगवलेन महानरेन्द्राराधनं, प्रतिपादितं महानरेन्द्राराधकानां तत्समानमेव महाराज्यमिति' तथा धर्मगुरवोऽपि ज्ञानदर्शनसंपन्नं प्रतिपन्नदेशविरतिमप्येनं जीवमुपलभ्य विशिष्टतरस्थैर्यसम्पादनार्थ समस्तमेतदाचरन्त्येव / तथाहि-ते तं प्रत्येवं ब्रूयुः, यथा--भद्र ! यदुक्तं भवता यदुत 'यूयमेव मे नाथा' इति, युक्तमेतद्भवादृशां, किन्तु साधारणं नैवं वक्तव्य, यतो भवतोऽस्माकं च परमात्मा सर्वज्ञ एव भगवान् परमो नाथः / स एव हि चराचरस्यास्य त्रिभुवनस्य पालकतया नाथो भवितुमर्हति, विशेषतः पुनर्ये तत्प्रणीतेऽत्र ज्ञानदर्शनचारित्रप्रधाने दर्शने वर्तन्ते जन्तवस्तेषामसौ नाथः, अस्यैव किङ्करभावं प्रतिपद्य महात्मानः केवलराज्यासादनेन भुवनमप्यात्मकिङ्करं कुर्वन्ति / ये पुनः पापिष्ठाः प्राणिनस्तेऽस्य भगवतो नामापि न जानते, भाविभद्रा एव सत्त्वाः स्वकर्मविवरेणास्य दर्शनमासादयन्ति / यतश्च त्वमेतावती कोटिमध्यारूढोऽतस्त्वया प्रतिपन्न एव भावतो भगवान् , केवलं तारतम्यभेदेन सङ्ख्यातीतानि तस्य प्रतिपत्तिस्थानानि, तेन विशेषप्रतिपत्तिनिमित्तमेषोऽस्माकं यत्नः, यतः जोवस्य कृतज्ञता मावदशन