________________ धर्मस्य धनादेश्व निर्वाहकानिर्वाह कत्वं श्यमानां निःशेषक्लेशविच्छेदकारिकां विरतिमुरीकुरुते। यदि वा नास्यायं तपस्विनो दोषः, किन्तर्हि / कर्मणामिति, तान्येवैनं जीवं विसंस्थुलयन्ति, अतो नास्माभिरेतत्प्रतिबोधनप्रवृत्तरस्याविधेयतामुपलभर निर्वेदः कार्यः, तथाहि अनेकशः कृता कुर्याद्देशना जीवयोग्यताम् / यथा स्वस्थानमाधत्ते, शिलायामपि मृद्घटः // 1 // यः संसारगतं जन्तुं, बोधयेज्जिनदेशिते। धर्मे हितकरस्तस्मानान्यो जगति विद्यते // 2 // विरतिः परमो धर्मः,सा चेन्मत्तोऽ८९स्य जायते / ततः प्रयत्नसाफल्यं, किं न लब्धं मया भवेत् ? // 3 // . अन्यच्च-महान्तमर्थमाश्रित्य, यो विधत्ते परिश्रमम् / तत्सिद्धौ तस्य तोषः स्यादसिद्धौ वीरचेष्टितम् / / 4 तस्मात्सर्वप्रयत्नेन, पुनः प्रत्याय्य पेशलैः / वचनैर्बोधयाम्येनं, गुरुश्चित्तेऽवधारयेत् // 5 // ततो यथा 'तेन सूपकारेण तस्मै भिक्षाचराय निवेदिताः पुनर्विशेषतः कदन्नदोषाः, उपपादिता तस्य युक्तितस्त्याज्यरूपता, दूषितं कालान्तरे तदभिप्रेतं तस्य निर्वाहकत्वं, प्रशंसितमात्मीयं परमात्र, प्रकटितं तस्य सर्बदा दानं, समुत्पादियो महाप्रभावाञ्जनसलिलदायकत्वनिदर्शनेनात्मविश्रम्भातिरेकः, अभिहितश्चासौ द्रमकः-'किं बहुनानेन ? मुश्वेद स्वभोजनं, गृहाणेदममृतकल्पं मदीयमन्नमिति' तथा सद्धर्मसूरयोऽपि सर्व कुर्वन्ति, तथाहि-तेऽपि जीवाय निवेदयन्ति धनधिषयकलत्रादे रागादिहेतुतां, दीपयन्ति कर्मसञ्चयकारणतां, प्रकाशयन्ति दुरन्तानन्तसंसारनिमित्ततां, वदन्ति च यथा-भद्र ! यत एव क्लेशेनोपाय॑न्ते खल्वेते धनविषयादयः, क्लेशेन चानुभूयन्ते, पुनश्चागामिनः क्लेशस्य कारणभावं भजन्ते अत एवैते परित्यागमर्हन्ति, अन्यच्च भद्र ! तवाप्येते मोहविपर्यासितचेतसि सुन्दरबुद्धि जनयन्ति, यदि पुनस्त्वं चारित्ररसमास्वादयसि ततोऽस्माभिरनुक्त एव नैतेभ्यो मनागपि स्पृहसे, को हि सकर्णकोऽमृतं विहाय विषमभिलषति ? यत्पुनरस्मदीयोपदेशसंपाद्यस्य चारित्रपरिणामस्य. कादाचित्कत्वेनानिर्वाहकत्वं धनविषयकलत्रादेस्तु प्रकृतिभावगमनेन सदाभावितया च निर्वाहकत्वं मन्यसे तदपि मा मंस्थाः, यतो धनादयोऽपि धर्मरहितानां न सकलकालभाविनो भवन्ति, भवन्तोऽपि न प्रेक्षापूर्वकारिणा निर्वाहकतयाऽङ्गीकर्तव्याः। न हि समस्तरोगप्रकोपहेतुरपथ्यान्नं सकलकालभावुकमपि निर्वाहकमित्युच्यते, सर्वानर्थप्रवर्तकाश्चैते धनादयः, तस्मान्नैतेषु सुन्दरा निर्वाहकत्वबुद्धिः। न चेयं प्रकृतिर्जीवस्य, यतोऽनन्तज्ञानदर्शनवीर्यानन्दरूपोऽयं जीवः, अयं तु धनविषयादिषु प्रतिबन्धोऽस्य जीवस्य कर्ममलजनितो विभ्रम इति तत्त्ववेदिनो मन्यन्ते, अत एव चारित्रपरिणामोऽपि तावत्कादाचित्को यावज्जीववीर्य नोल्लसति, तदुल्लासे पुनः स एव निर्वाहको भवितुमर्हतीत्यतो विदुषा तत्रैव यत्नो विधेयः, तरलेनैव महापुरुषा अपहस्तयन्ति परीषहोपसर्गान् अवधीरयन्ति धनादिकं, निर्दलयन्ति रागादिगणं, उन्मूलयन्ति कर्मजालं, तरन्ति संसासागरं, तिष्ठन्ति सततानन्देऽनन्तकालं शिवधाम्नीति / किं च मत्संपादितेन ज्ञानेन ? किं न जनितस्तवाज्ञानतमोविलयः ? किं वा दर्शनेन नापास्तो विपर्यासवेतालो ? येन मद्वचनेऽप्यविश्रब्धबुद्धिरिख विकल्पं कुरुषे, तस्माद्भद्र ! विमुच्येदं भववद्धनं धनादिकमङ्गीकुरु मम दययोपनीतमेतच्चारित्रं येन संपद्यते ते निःशेषक्लेशराशिविच्छेदः, प्राप्नोषि च शाश्वतं स्थानमिति / 89 चेन्मत्तोऽस्य प्रजायते प्र०