________________ पिक संसारसागरादुत्तीर्णमेवात्मानं मन्यमानाः सदा मोदन्ते, तदेवंभूतगुणेयं विरतिः किमात्मवैरितया नादीयते भवतेति ?" विश्वा- तदेतद्धर्मगुरुवचनमाकर्ण्य यथा-'असौ द्रमकस्तस्मिन्पुरुषे संजातविश्वासोऽपि तथाऽऽविर्भूत निर्णयोऽपि यथाऽत्यन्तहितकारी ममायं पुरुष इति, तथापि तस्य कदन्नस्य त्याजनवचनेन विहलीभूतो नव दैन्यमालम्ब्येत्थमभिहितवान् यदुत-यदेतद् गदित नाथैस्तत्समस्तमवितथं प्रतिभाति मे चेतसि, केवलमेकं मुञ्चति वचनं विज्ञापयामि तदाकर्णयतः यूयं यदेतन्मां भोजनं त्याजयन्ति भवन्तस्तत्प्राणेभ्योऽप्यभीष्टतमं, नाहमेतद्विरहे क्षणमपि जीवामि, महता च क्लेशेन मयेदमुपार्जितं, किं च कालान्तरेऽपि निर्वाहक ममैतद्, भवदीयस्य पुनर्भोजनस्य न जानेऽहं स्वरूपं, किं चानेन ममैकदिनभाविनेति ? तत्किमत्र बहुना जल्पितेन ? एष मे निश्चयो-नैवेदं भोजनं मोक्तव्यं, यदि विद्यमानेऽप्यस्मिन्नात्मीयं भवद्भिर्भोजनं दातुं युक्तं ततो दीयतामितरथा विनैव तेन सरिष्यतीति' / सात तथाऽयमपि जीवः कर्मपरतन्त्रतयाऽविद्यमानचरणपरिणाम८६स्सद्धर्मगुरूणामग्रतः समस्तमपीदृशं वासोऽपि जल्पत्येव, अस्त्येव तदाऽस्य गुरुषु विश्रम्भः, सञ्जातो ज्ञानदर्शनलाभेन संप्रत्ययः, तथापि न निवर्तते लादिषु धनादिभ्यो गाढमूर्छा, धर्मगुरवश्चारित्रं ग्राहयन्तस्त्याजनं कारयन्ति ततोऽस्य जीवस्य संजायते इच्छति दैन्यं, ततोऽयं ब्रूते-- सत्यमेतत्सर्वं यदाज्ञापयन्ति भगवन्तः किन्तु श्रूयतां भवद्भिरेका मदीया विज्ञप्तिका--गृद्धोऽयमात्मा मदीयो गाढं धनविषयादिषु, न शक्यते तेभ्यः कथश्चिम्निवर्तयितुं, म्रियेऽहं त्यागे नूनमेतेषां, . . महता च क्लेशेन मयैते समुपार्जिताः, तत्कथमहमेतानकाण्ड एव मुश्चामि किं च मादृशाः प्रमादिनो न युष्माभिरुपदिष्टाया विरते: स्वरूपमवबुध्यन्ते, किन्तर्हि ? मादृशामिदमेव कालान्तरेऽपि धनविषयादिकं चित्ताभिरतिकारणं, युष्मदीयं पुनरनुष्ठानं राधावेधकल्पं, किं तेन मादृशां ? भगवतामप्यस्थान एवायं निर्बन्धः, तथाहि-- महताऽपि प्रयत्नेन, तत्वे शिष्टेऽपि पण्डितैः / प्रकृति यान्ति भूतानि, प्रयासस्तेषु निष्फलः // 1 // ___ अथैवमपि स्थिते भगवतामाग्रहः, ततो दीयतामेतेषु धनविषयादिषु विद्यमानेषु यदि देयमात्मीयं चारित्रमितरथा पर्याप्तं ममानेनेति / __ ततश्चैवं वदति सत्यस्मिन् जीवे यथा 'तेन रसवतीपतिना तं द्रमकं परमान्नग्रहणपराङ्मुखमणां पुन वलोक्य चिन्तितं यदुत-पश्यताहो मोहसामर्थ्य, यदेष रोरः सर्वव्याधिक रेऽत्र कदनके सक्तबुद्धिचिन्ता समकं परमानमवधीरयति, निश्चितं च प्रागेव मया, यथा नास्य वराकस्यायं दोषः, किं तर्हि ? चित्तवैधुर्यकारिणां रोगाणां, अतः पुनरेनं शिक्षयामि विशेषेण वराकं, यद्ययं प्रत्यागतचित्तः परमानमिदं गृह्णीयात् ततोऽस्य महानुपकारः संपद्यतेति'। तथा सद्धर्मगुरवोऽपि चिन्तयन्ति-यदुतापूर्वरूपोऽयमस्य जीवस्याहो महामोहः, यदयमन्तदुःखहेतौ रागादिभावरोगवृद्धिकरेऽस्मिन्विषयधनादिके विनिविष्टबुद्धिर्जानन्नपि भगवद्वचनमजानान इव, श्रद्दधानोऽपि जीवादितत्त्वमश्रद्दधान इव न मयोपदि 86 ०णामतः प्र. 87 प्राणिनो प्र. 88 अशक्यशिक्षणीयतां.