SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ जीव प्रति धर्मगुरूणां वाक्यानि पृच्छामो, वयं हि सेवकधर्ममनुवर्तमाना य एव कश्चिन्महानृपतेर्वल्लभस्तत्रैव वाल्लभ्यमाचरामः, अयं चास्माकमवष्टम्भोऽभूत्-किलामूढलक्ष्योऽयं राजा न कदाचनापात्रे मतिं कुरुते, यावता सोऽप्यस्मदवष्टम्भोऽधुना भवता विपरीतचारिणा वितथ इव सम्पादितः, तदिदमवगम्य त्यजेदं वैपरीत्यं, हित्वेदं कदन्नं गृहाणेदं परमानं, यन्माहात्म्येनैते पश्य सर्वेऽत्र सद्मनि वर्तमाना जन्तवोऽमृततृप्ता इव मोदन्त इति" / एतदपि समस्तमत्र जीवव्यतिकरे सुगुरुराचरत्येव, तथाहि-यदाऽयं जन्तुराविर्भूतज्ञानदर्शनोऽपि कर्मपरतन्त्रतया न स्तोकमात्रामपि विरतिं प्रतिपद्यते तदाऽमुं तथाभूतं विषयेषु गाढं मूच्छितचित्ततयाऽभिरममाणमुपलभ्य सद्धर्मगुरूणां भवत्येवंविधोऽभिसन्धिः यदुत-केयमस्यात्मवैरिता ? किमित्ययं रत्नद्वीपप्राप्तनिर्भाग्यपुरुष इवानर्धेयरत्नराशिसदृशानि व्रतनियमाचरणान्यवधीर्य जरत्काचशकलकल्पेषु विषयेषु प्रतिबन्धं विधत्ते ? ततस्ते गुरवः प्रादुर्भूतप्रणयकोपा इव तं प्रमादपरं जीवमित्थमाचक्षते-अयि ! ज्ञानदर्शनविदूषक ! केयं भवतोऽनात्मज्ञता ? किमिति प्रतिक्षणमस्मानारारटयमानान् भवान्न लक्षयति ? दृष्टा बहवोऽस्माभिरन्येऽकल्याणभाजनभूताः प्राणिनः, केवलं तेषामपि मध्ये शेखरायितं भवता, यतस्त्वं जाननपि भगवद्वचनं, श्रद्दधानोऽपि जीवादिपदार्थसाथै, विद्यमानेऽपि मादृशे प्रोत्साहके, लक्षयनपीदृशसामयाः सुदुर्लभता, भावयन्नपि संसारदुरन्तता, परिकलयन्नपि कर्मदारुणतां, बुद्धयमानोऽपि रागादिरौद्रतां तथापि समस्तानर्थसार्थप्रवर्तकेषु कतिपयदिवसतिषु तुषमुष्टिनिःसारेषु विषयेषु सततं रज्यसे, न पुनरस्माभिरनर्थगर्तपातिनं भवन्तमवगम्य दययोपदिश्यमानामेनां सकलक्लेशदोषविरेककारिणी भागवती समस्तपापविरति भवानवहेलयाऽपि विलोकयति / अन्यच्च-एतदपि न लक्षितं भवता यदर्थमेषोऽस्माकं भवन्तं प्रति महानादरः, तदाकर्णय अत्रापि यत्कारणं-यतस्त्वं सज्ज्ञानदर्शनयुक्ततया सर्वज्ञशासनाभ्यन्तरभूतो वर्तसे, यतश्च प्रथमावसरेऽपि भगवन्मतमवलोक्य जातस्ते प्रमोदः तदर्शनेन च लक्षिताऽस्माभिस्त्वयि भवन्ती परमात्मावलोकना ततो वयं भगवदनुगृहीतोऽयमितिकृत्वा तवोपर्यादरवन्तः, युज्यते च भगवदनुचराणां तदभिमतेषु पक्षपातः कर्तुं, ये तु जीवाः सर्वज्ञशासनमन्दिरमद्यापि नावगाहन्ते, कथञ्चित्प्रविष्टा अपि तत्र न तदर्शनेन हृष्यन्ति अत एव च परमात्मावलोकनाया बहिभूता लक्ष्यन्ते, तांस्तथाभूताननन्तानपि जीवान् पश्यन्तोऽपि च यदुदासीनभावं भजामहे, नोचितास्ते खल्वादरकरणस्य, अयं चेयन्तं कालं यावदवष्टम्भोऽस्माकमासीत् किलामुनोपायेन ये योग्याः सन्मार्गावतरणस्येति निश्चीयते ते न कदाचन व्यभिचरन्ति, यावता भवताऽयमनेकसत्त्वेषु मुनिश्चितोऽप्यस्माभिरुपायो विपरीतमाचरता व्यभिचारितो वर्तते, ततो भो दुर्मते ? मैवं विधेहि, कुरुष्वाधुनापि यदहं वच्मि, परित्यजेदं दौःशील्यं, विहाय दुर्गतिपुरीवर्तनीकल्पाविरतिमुररीकुरु निर्द्वन्द्वानन्दसन्दोहदायिकां सर्वज्ञोपज्ञां ज्ञानदर्शनयोः फलभूतां विरतिं, इतरथा परमार्थतो ज्ञानदर्शने अपि निष्फले संपत्स्येते / इयं हि भागवती दीक्षा गृहीता सती सम्यक् पाल्यमाना सकलकल्याणपरम्परां. संपादयति, यदि वा तिष्ठन्तु तावत् पारलौकिककल्याणानि, किं न पश्यति भवानिदानीमेवैते भगवदुक्तविरतिरतचित्ताः सुसाधवो यदनन्तामृतरसतृप्ता इव स्वस्थाः सदा मानसेन अवेदयितारो, विषयाभिलाषजनितानां कामविकलतयौत्सुक्यप्रियविरहवेदनानां अनभिज्ञातारो, लोभमूलानां निष्कषायतया धनार्जनरक्षणनाशदुःखानां वन्दनीयास्त्रिभुवनस्य 80 पारमेश्वरं वि०१ प्र. 85 वषक प्र.
SR No.004358
Book TitleUpmitibhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy