________________ 45. मोहति ह्याभिसंस्कारिका इत्युच्यन्ते / तथाऽन्ये सुखमभिलषन्तो दुःखं द्विषन्तो द्रविणादिषु परमार्थबुद्धयध्यवसायिनोऽत एव तत्संरक्षणप्रवणचेतसोऽदृष्टतत्त्वमार्गस्यास्य जीवस्य प्रवर्तन्ते, यैरेष जीवोऽशङ्कनीयानि शङ्कते, अचिन्तनीयानि चिन्तयति, अभाषितव्यानि भाषते, अनाचरणीयानि समाचरति, ते तु कुविकल्पाः सहजा इत्यभिधीयन्ते, तत्राभिसंस्कारिकाः प्रथममुगुरुसंपर्कप्रभावादेव कदाचिन्निवत्तरन् , एते पुनः सहजा यावदेष जीवो मिथ्यात्वोपप्लुतबुद्धिस्तावन्न कथञ्चिन्निवर्तन्ते, यदि परमधिगमजसम्यग्दर्शन मेव प्रादुर्भुतमेताग्निवर्त्तयतीति / सम्यग्दृष्टे यत्पुनरभिहितं यदुत 'तस्य द्रमकस्य तस्मिन्नञ्जनसलिलदायके पुरुषे सञ्जातविश्रम्भस्यापि महोपरपि नोक- कारितां चिन्तयतस्तथापि तत्रात्मीये कदनके याऽत्यन्तमूर्छा सा गाढं भावितत्वान्न कथञ्चिन्निवर्तत पायोदया इति' तदेतज्जीवेऽपि योजनीयं, तथाहि—यद्यपि क्षयोपशम( ममुप )गतं ज्ञानावरणं दर्शनमोहनीयं तोः च समुत्पन्नं सम्यग्ज्ञानं सम्यग्दर्शन च, अत एव निवृत्ता भवप्रपञ्चगोचरा तत्त्वबुद्धिः, संजातो जीवादितत्त्वाभिनिवेशः, गृहीताः परमोपकारकारितया सम्यग्ज्ञानदर्शनदायिनो भगवन्तः सद्धर्मगुरवः, तथाप्यस्य जीवस्य यावदास्ते समुदीर्ण कषायद्वादशकं, यावच्च प्रबलमद्यापि नोकषायनवकं, तावदनादिभवाभ्यासवासनापाटवपरायत्ततया प्रवर्त्तमानमेतेषु धनविषयकलत्रादिषु कदन्नकल्पेषु मूर्छामेष जीवो न निवारयितुं पारयति, यतोऽस्य जीवस्य कुशास्त्रश्रवणसंस्कारजा महाण्डसमुद्भूतं त्रिभुवनमेदित्यादयो मोहवितर्काः प्रवर्तन्ते, ये च सहजा अपि धनादिषु परमार्थदर्शितया तत्संरक्षणगोचरा अशङ्कनीयेष्वपि गुवादिषु शङ्काकारिणो मिथ्यादर्शनोदयप्रभवाः कदभिप्रायाः प्रादुर्भवन्ति ते मरुमरीचिकावत्रचुम्बिन इव जलकल्लोलमालाप्रतिभासिनो मिथ्याज्ञानविशेषाः तत्प्रत्यनीकार्थोपस्थापकेन प्रमाणान्तरेण बाध्यमानाः सम्यग्दर्शनोत्पत्तिकाले निवर्तन्ते / मोहवित - यः पुनरेष धनविषयादिषु८२ मूर्छालक्षणो मोहः सोऽपूर्वरूपो, यतोऽयं दिङ्मोह इव तत्त्वधिया काद्विर ऽपि सामव्याहत एवास्ते, अनेन हि मोहितोऽयं जीवो जानन्नपि सकलं कुशाग्रलग्नजललवतरलं न त्यभावः जानीते, पश्यन्नपि धनहरणस्वजनमरणादिकं न पश्यतीव, पटुप्रज्ञोऽपि जडबुद्धिरिव चेष्टते, समस्तशास्त्रार्थविशारदोऽपि महामूर्खचूडामणिरिव वर्त्तते, ततश्चास्य जीवस्य प्रतिभाति मुत्कलचारिता,८३ रोचते तस्मै यथेष्टचेष्टा, बिभेत्ययं व्रतनियमनिन्त्रणायाः, किम्बहुनोक्तेन ?, न शक्नोत्ययं जीवस्तदा काकमांसभक्षणादपि निवृत्ति विधातुमिति / इमक प्रति एवं च स्थिते यत्तदुक्तं यदुत तं रोरं मूर्छातिरेकेण पुनः पुनः स्वभोजनभाजनदृष्टिं पातयन्तमुपलभ्य स धर्मबोधकराभिधानो रसवतीपतिस्तस्याभिप्रायमवगम्य मनाक् सपरुषमित्थमभिहितवान्-अरे द्रमक ! दुर्बुद्धे ! केयं भवतो विपरीतचारिता ? किमितीदं परमान्नं कन्यकया प्रयत्नेनापि दीयमानं त्वं नावबुद्धयसे ? भवन्त्यन्येऽपि पापिनो रोराः, केवलं भवता सदृशोऽन्यो निर्भाग्यो नास्तीति मे वितर्कः, यस्त्वमत्र तुच्छे कदनके प्रतिबद्धचित्तः सन्नमृतास्वादमेतन्मया दाप्यमानमपि परमानं न ग्रहासि. अन्यच्च यतस्त्वमत्र भवने प्रविग्रस्तथेदं दष्टा मनागाहादितः परमेश्वरेण चावलोकितः तेन कारणेन भवन्तं प्रत्यादरोऽस्माकं, ये पुनरस्मात्सद्मनो बहिर्वर्त्तन्ते जन्तवो ये चेदं विलोक्य न मोदन्ते ये च राजराजेन न निरीक्षितास्तेषां वयं न वार्तामपि 82 कनका प्र० 83 अविरतत्वेनावस्थान. सदस्य वचन