________________ पुगध में नादरः तद्दयोपरोधेन तदञ्जनं कचिदेव नेत्रयोनिधत्ते, तथाऽयमपि जीवः सद्गुरुभिरनुकम्पया प्रेर्यमाणोऽपि यदि परं तदनुरोधेनैव प्रवर्तते तथा ज्ञानमभ्यस्यति तदपि कचिदेव, न सर्वदा, यथा च-'असौ तत्तीर्थोदकं पातुं तद्वचनेनैव प्रवर्तते' तथाऽयमपि जीवः प्रमादपरायत्ततयाऽनुकम्पापरगुरुचीदनयेव सम्यग्दर्शनमुत्तरोत्तरविशेषैरुद्दीपयति न स्वोत्साहेनेति / यत्तु विशेषेण पुनरभिहितं यथा-'स वनीपकः संभ्रमेण तद्दयया भूरि वितीर्ण तत्परमानं स्तोकं भुक्त्वा शेषमनादरेण स्वभाजने विधत्ते तत्सान्निध्येन तत्कदन्नमभिवर्द्धते, ततस्तद् भक्षयतोऽपि दिवानिशं न निष्ठां याति, ततोऽसौ तुष्यति, न च जानीते कस्येदं माहात्म्यं केवलं तत्र गृद्धामा भेषजत्रयस्य परिभोग शिथिलयन् कालं नयति, तथा चापथ्यभोजिनस्तस्य ते रोगा नोच्छिद्यन्ते, केवलं यदन्तराऽन्तरा तहयोपरोधेन तत्परमानादिकमसौ मनाग प्राशयति तावन्मात्रेण ते रोगा याप्यावस्थां गतास्तिष्ठन्ति / यदा पुनरनात्मज्ञतया भृशतरमपथ्यं सेवते तदा ये रोगाः कचिदात्मीयं विकारं दर्शयन्तः शूलदाहमू रोचकादीनि जनयन्ति, ततस्तैरसौ बाध्यत इति' / तदत्रापि जीवे समानमवबोद्धव्यं, तथाहि-यथा क्वचिदवसरे चातुर्मासकादौ दयापरीतचित्ता गुरवोऽस्य जीवस्य पुरतो विशिष्टतरविरतिग्राहणार्थमणुव्रतविधि विस्फारयन्ति, तदाऽप्ययं जीवः प्रबलचारित्रावरणतया मन्दवीर्योल्लासस्तीवसंवेगेन कानिचिदेव व्रतानि गृह्णाति, तदिदं बहोर्दत्तस्य स्तोकभक्षणभभिधीयते, कानिचित्पुनर्ब्रतानि दयापरीतगुरूपरोधेन मनसोऽनभिप्रेतान्यप्यङ्गीकरोति / सोऽयं शेषस्य भाजने निक्षेपो द्रष्टव्यः, तच्च व्रताङ्गीकरणं मन्दसंवेगेनापि क्रियमाणमनुषङ्गत एव विषयधनादीन्यत्र भवे भवान्तरे वाऽभिवर्द्धयति / तदिदं परमानसन्निधानेनेतरस्याभिवर्द्धनमभिहितं, ते च तत्प्रभावसंपन्ना विषयादयो दृढकारणतयाऽनवरतं भुञ्जानस्याप्यस्य जीवस्य न निष्ठां प्रतिपद्यन्ते / ततोऽयं जीवः सुरनरभवेषु वर्तमानस्तां तथाभूतामात्मविभूतिमुपलभ्य हर्षमुद्वहति, न चायं वराको लक्षयति यथा -एते धनविषयादयो धर्ममाहात्म्येन ममोपनमन्ते तत्किमत्र हर्षेण ? स एव भगवान् धर्मः कर्तुं युक्त इति / ततोऽयमलक्षितसद्भावस्तेषु विषयादिषु प्रतिबद्धचित्तो ज्ञानदर्शनदेशचारित्राणि शिथिलयति केवलं जाननप्यजनान इव मोहदोषेण निरर्थकं कालमतिवाहयति, एवं चास्य वर्तमानस्य द्रविणादिषु प्रतिबद्धमानसस्य धर्मानुष्ठाने मन्दादरस्य भूयसाऽपि कालेन रागादयो भावरोगा नैव संच्छिद्यन्ते किन्तु तावताऽपि सदनुष्ठानेन गुरूपरोधतो मन्दसंवेगतयापि विधीयमानेनैतावान् गुणः संपद्यते यदुत ते भावरोगा याप्यतां नीयन्त इति / ___“यदा पुनरयं जीवोऽनात्मज्ञतया गाढतरं विषयधनादिषु गृद्धिं विधत्ते, ततश्चादत्ते भूरिपरिग्रहं, समारभते महाजालकल्प वाणिज्यं, समाचरतिक्रष्यादिकं. विधापयति तथाविधानन्यांश्च सदाऽऽरम्भान्, तदा ते रागादयो भावरोगाः प्रबलसहकारिकारणकलापमासाद्य नानाकारान् विकारान् दर्शयन्त्येव, नानादरविहितमनुष्ठानमात्रं तत्र त्राणम् / ततश्चायं जीवंः क्वचित्पीड्यते अकाण्डशूलकल्पया धनव्ययचिन्तया, क्वचिदन्दह्यते परेादाहेन, क्वचिन्मुमूर्षुरिव मूर्छामनुभवति सर्वस्वहरणेन, क्वचिद्बाध्यते कामज्वरसन्तापेन, क्वचित्च्छर्दिमिव कार्यते बलादुत्तमऎहीतधननिर्यातनां, क्वचिज्जाडयमिव संपद्यते जानतोऽप्यस्यैवंविधा प्रवृत्तिरिति प्रवादेन लोकमध्ये मूर्खत्वं, क्वचित्ताम्यति हृत्पार्श्ववेदनातुल्यया इष्टवियोगानिष्टसम्प्रयोगादिपीडया, क्वचित्प्रभवति प्रमत्तस्य पुनरपि मिथ्यात्वोन्मादसन्तापः, मुर्छया परिग्रहादों जोबस्य प्रवृत्तिः