________________ उम्पदशनस्वरूप धर्मसूरिराचक्षीत भद्र ! मोहान्धाः खल्वेनं न पश्यन्ति, विवेकिनां पुनः प्रत्यक्ष एव धर्मः, तथाहि-- सामान्येन तावद्धर्मस्य त्रीप्येव रूपाणि द्रष्टव्यानि भवन्ति, तद्यथा-कारणं, स्वभावः, कार्य च, तत्र सदनुष्ठानं धर्मस्य कारणं, तद् दृश्यत एव, स्वभावः पुनर्द्विविधः-साश्रवोऽनावश्च / तत्र साश्रवो जीवे शुभपरमाणूपचयरूपः, अनाश्रवस्तु पूर्वोपचितकर्मपरमाणुविलयमात्रलक्षणः। स एष द्विविधोऽपि धर्मस्वभावो योगिभिदृश्यते, अस्मादृशैरप्यनुमानेन दृश्यत एव। कार्य पुनर्धर्मस्य यावन्तो जीवगताः सुन्दरविशेषाः तेऽपि प्रतिप्राणिप्रसिद्धतया परिस्फुटतरं दृश्यन्त एव, तदिदं कारणस्वभावकार्यरूपत्रयं पश्यता धर्मस्य किं न दृष्टं भवता ? येनोच्यते न दृष्टो मया धर्म इति, यस्मादेतदेव तृतीयं धर्मध्वनिनाऽभिधीयते, केवलमेष विशेषो यदुत--सदनुष्ठानं कारणे कार्योपचाराद्धर्म इत्युच्यते, यथा तन्दुलान् वर्षति पर्जन्य इति, स्वभावस्तु यः साश्रवो निगदितः स पुण्यानुबन्धिपुण्यरूपो विज्ञेयः, यः पुनरनाश्रवः स निर्जरात्मको मन्तव्यः / स एष द्विविधोऽपि स्वभावो निरुपचरितः साक्षाद्धर्म एवाभिधीयते, ये त्वमी जीवत्तिनः समस्ता अपि सुन्दरविशेषाः ते कार्ये कारणोपचारा दर्मशब्देन गीयन्ते, यथा ममेदं शरीरं पुराणं कर्मेति"। ततः पुनरेष जीवो ब्रूयात्--भगवन् ! अत्र त्रये कतमत्पुनः पुरुषेणोपादेयं भवति ? ततो धर्मगुरुरभिदधीत-भद्र ! सदनष्ठानमेव, तस्यैवेतरद्वयसम्पादकत्वात / स ब्रयात-किं पुनस्तत्सदनुष्ठानम् ? ततः सद्धर्मसूरयोऽभिदधीरन्-सौम्य ! साधुधर्मो गृहिधर्मश्च, तस्य पुनर्द्विविधस्यापि मूलं सम्यग्दर्शनं, ततोऽयं जीवो वदेत्-भगवन् ! उपदिष्टमासीदेतत्सम्यग्दर्शनं प्राग्भवता, किन्तु तदा मया नावधारितं, तदधुना कथयत किमस्य स्वरूपमिति ? ततः सक्षेपेण प्रथमावस्थोचितमस्य पुरतो धर्मगुरवः सम्यग्दर्शनस्वरूपं वर्णयेयुः, यथा-"भद्र ! यो रागद्वेषमोहादिरहितोऽनन्तज्ञानदर्शनवीर्यानन्दात्मकः समस्तजगदनुग्रहप्रवणः सकलनिष्कलरूपः परमात्मा स एव परमार्थतो देव इति बुद्धया तस्योपरि यद्भक्तिकरणं, तथा तेनैव भाषिता ये जीवाजीवपुण्यपापाश्रवसंवरनिर्जराबन्धमोक्षाख्या नव पदार्थाः ते अवितथा एवेति या प्रतिपत्तिः, तथा तदुपदिष्टे ज्ञानदर्शनचारित्रात्मके मोक्षमार्गे ये प्रवर्त्तन्ते साधवः त एव गुरवो वन्दनीया इति या बुद्धिस्तत्सम्यग्दर्शनं, तत्पुनर्जीवे वर्तमानं प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणैर्बाह्यलिङ्गलक्ष्यते, तथा तदङ्गीकृत्य जीवेन सत्त्वगुणा. धिकक्लिश्यमानाविनेयेषु मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि समाचरणीयानि भवन्ति, तथा स्थिरता, भगवदायतनसेवा, आगमकुशलता, भक्तिः, प्रवचनप्रभावना इत्येते पश्च भावाः सम्यग्दर्शनं दीपयन्ति तथा शङ्का, काला, विचिकित्सा, परपाखण्डप्रशंसासंस्तवश्चैते तु तदेव दषयन्ति / तदेष सकलकल्याणावहो दर्शनमोहनीयकर्मक्षयोपशमादिनाऽऽविर्भूतः खल्वात्मपरिणाम एव विशुद्धसम्यग्दर्शनमभिधीयते"। एवञ्च कथयता भगवता धर्मसूरिणा सम्यक्प्रत्यायितमान८°सस्तदनुभावादेव विलीनक्लिष्टकर्ममलः सोऽयं जीवः सम्यग्दर्शनं प्रतिपद्येत, ततश्चैतत्सत्तीर्थोदकमिव तत्त्वप्रीतिकरं धर्मगुरुभिर्बलाद्गालितमित्यवसेय, यतश्च तत्प्रभृति तत्प्रतिपत्तौ मिथ्यात्वं यदुदीर्णमासीत् तत्क्षीणं, यत्पुनरनुदीर्ण तदुपशान्तावस्थां गतं, केवलं तदपि प्रदेशानुभवेनानुभूयते, तदेव चात्र महोन्मादः, तस्मात्स नष्ट एव प्रायो नैकान्तेनाद्यापि नष्ट इति बोद्धव्यम् / यतश्च सम्यग्दर्शनलाभे समस्तान्यपि शेषकआणि तनुतां गच्छन्ति, तान्येव च गदभूतानि, अतोऽयं जीवस्तत्प्राप्तौ संजातान्यगदतानव इत्युच्यते, 80 मनाः प्र०