________________ शाल्मलीतूलमतिशेते, चपलतया वानरलीलां विडम्बयति, कातरतया मूषककदम्बकमधरयति, निर्द्धनतया रोराकारमाबिभर्ति, कृपणतया टक्कजातीयानतिलङ्घयति,७९ महारोगभराक्रान्ततया विक्लवं क्रन्दमानो जगतोऽप्यात्मनि कारुण्यमुत्पादयति, दैन्योद्वेगशोकाधुपहतचित्ततया घोरमहानरकाकारं सन्तापं स्वीकुरुते, ततश्चैवं समस्तदोषभाजनतया . लोकैः पापिष्ठोऽयमिति निन्द्यते / अन्यच्च-द्वयोः पुरुषयोरनुपहतसत्त्वबुद्धिपौरुषपराक्रमयोनिःशेषविशेषैस्तुल्यकक्षयोरर्थोपार्जनार्थ प्रवर्त्तमानयोः किमित्येको यद्यदारभते कृषि, पाशुपाल्यं, वाणिज्य, राजादिसेवामन्यद्वा तदर्थ कर्म तत्तत्सफलतामुपगच्छति, इतरस्य पुनस्तदेव कर्म न केवलं विफलं संपद्यते, किन्तर्हि ? पूर्वपुरुषोपार्जितमपि धनलवं वैपरीत्यापत्त्या प्रत्युत निःशेषयति ?, अन्यच्चेदमपि चिन्तनीयं, यदुत द्वयोरेव पुरुषयोनिरुपचरिताः पञ्चप्रकाराः शब्दादिविषयाः कचिदुपनमन्ते, तत्र तयोरेकः प्रबलशक्तिः प्रवर्द्धमानप्रीतिस्ताननवरतमनुभवति, द्वितीयस्य पुनरकाण्ड एव किमिति कार्पण्यरोगादिकं कारणमुत्पद्यते ? येन वाञ्छन्नपि तानेव भोक्तुं न शक्नोतीति / न ह्येवंविधानां विशेषाणां जीवेषु जायमानानां परिदृष्टं किञ्चित्कारणमुपलक्ष्यते, न चाकारणं किश्चिद् भवितुमर्हति, यदि पुनरकारणा एवंविधा भवेयुः ततः सर्वदा भवेयुः यथाऽऽकाश, न वा कदाचिद् भवेयुर्यथा शशविषाणादयो, यतश्चैते कचिद् भवन्ति, कचिन्न भवन्ति, तस्मान्नैते निष्कारणा इति गम्यते" / अत्रान्तरे गृहीतार्थः स जीवो ब्रूयात्-भगवन् ! किं पुनरेतेषामुत्पादक कारणं ?, ततो धर्मगुरवो वदेयुः--भद्राकर्णय, समस्तानामपि जीवगतानां सुन्दरविशेषाणां धर्म एवान्तरङ्ग कारणं भवति, स एव हि भगवानेनं जीवं सुकुलेषूत्पादयति निःशेषगुणमन्दिरतां नयति समस्तान्यनुष्ठानान्यस्य सफलयति, उपनतभोगाननवरतं भोजयति, अन्यांश्च समस्तशुभविशेषान् संपादयति; तथा सर्वेषामपि जीवगतानामशोभनविशेषाणामधर्म एवान्तरङ्गं कारणं, स एव हि दुरन्तोऽमुं जीवं दुष्कूलेधूपादयति, निःशेषदोषनिवासतां प्रापयति सर्वव्यवसायानस्य विफलयति, उपनतभोगोपभोगविघ्नभूतं शक्तिवैकल्यं जनयति अपरांश्च मनोज्ञाननन्तान् विशेषानस्य जीवस्याधत्ते / तस्माद् बलेनैताः समस्तसम्पदः, स एव धर्मः, प्रधानः पुरुषार्थः" अर्थकामौ हि वाञ्छतामपि पुरुषाणां न धर्मव्यतिरेकेण संपद्येते धर्मवतां पुनरतर्कितौ स्वत एवोपनमेते, अतोऽर्थकामाथिभिः पुरुषैः परमार्थतो धर्म एवोपादातुं युक्तः, तस्मात्स एव प्रधान इति / यद्यप्यनन्तज्ञानदर्शनवीर्यानन्दात्मकजीवस्वरूपावस्थानलक्षणश्चतुर्थोऽपि मोक्षरूपः पुरुषार्थों निःशेषपुरुषार्थतो क्लेशराशिविच्छेदरूपतया स्वाभाविकस्वाधीनानन्दात्मकतया च प्रधान एव, तथाऽपि तस्य धर्मतात्त्विको कार्यत्वात् तत्प्राधान्यवर्णनेनापि परमार्थतः तत्सम्पादको धर्म एव प्रधानः पुरुषार्थ इति दर्शितं भवति / तथा चाभ्यधायि भगवता "धनदो धनार्थिनां धर्मः, कामिनां सर्वकामदः। धर्म एवापवर्गस्य, पारम्पर्येण साधकः // 1 // इति नातः प्रधानतरं किञ्चिदस्तीत्युच्यतेधर्माख्यः पुरुषार्थोऽयं, प्रधान इति गम्यते / पापग्रस्तं पशोस्तुल्यं, धिग् धर्मरहितं नरम् // 1 // तदिदमाकर्ण्य स जीवोऽभिदधीत-भगवन् ! एतौ तावदर्थकामौ साक्षादुपलभ्येते, योऽयं पुनर्भगवद्भिर्धर्मों वर्णितः स नास्माभिः क्वचिदृष्टः, ततो निदर्यतामस्य यत्स्वरूपमिति / ततो 79 म्लेच्छविशेषान् . धर्मस्य धर्मस्वरूप वर्णन