________________ कामपुरु गातो ततः सादरतरं पुनस्ते ब्रूयुः--भो भो लोकाः ! काम एव प्रधानः पुरुषार्थ इत्यन्ये मन्यन्ते, तथाहि-न खलु ललितललनावदनकमलमकरन्दास्वादनचतुरचञ्चरीकताऽऽचरणमन्तरेण पुरुषः परमार्थतः पुरुषतां स्वीकुरुते, किं च-अर्थनिचयस्य कलाकौशल्यस्य धर्मार्जनस्य जन्मनश्च काम एव वस्तुतः परमं फलं, कामविकलैः पुनः किमेतैः सुन्दरैरपि क्रियते ?, अन्यच्च-कामासेवनप्रवणचेतसां पुरुषाणां तत्सम्पादका धनकनककलत्रादयो योग्यतया स्वत एवोपतिष्ठन्ते, संपद्यन्ते भोगिनां भोगा इति गोपालबालाबलादीनामपि सुप्रसिद्धमिदं, अपि च स्मितं न लक्षेण वचो न कोटिभिन कोटिलक्षैः सविलासमीक्षितम् / अवाप्यतेऽन्य हूं योपगृहनं, न कोटिकोटयाऽपि तदस्ति कामिनाम् // 1 // अतः किन्न पर्याप्तं तेषाँ ?, तस्मात्काम एव प्रधानः पुरुषार्थः, अत एवाभिहितम्___ कामाख्यः पुरुषार्थोऽयं, प्राधान्येनैव गीयते / नीरसं काष्ठकल्पं हि, धिक्कामविकलं नरम् // 1 // " तदेतदाकर्ण्य स जीवो हर्षप्रकर्षेण स्वहृदयादप्युत्कलितः प्रकाशमेवं ब्रूयात्-साधु साधूदितं भट्टारकैः, बहोः कालादद्य सुन्दरं व्याख्यानमारब्धं, यद्येवं दिने दिने कथयथ ततो वयमक्षणिका अपि सन्तोऽवहितचित्ततयाऽऽकर्णयाम इति / तदेतद्धर्मगुरुभिः स्वसामर्थ्येन तस्य जीवस्य मुखमुद्घाटितमित्यवगन्तव्यम् / एवं च वदति तस्मिन् जीवे धर्मगुरूणामिदं मनसि वर्त्तते, यदुत-पश्यताहो महामोहविजृम्भितं, यदेते तदुपहताः प्राणिनः प्रसङ्गकथितयोरप्यर्थकामकथयो रज्यन्ते, न पुनर्यनतोऽपि कथ्यमानायां धर्मकथायां, तथाहि-इहास्माभिरर्थकामप्रतिबद्धचेतसां क्षुद्रप्राणिनामभिप्रायो वर्णितः, अयं तु वराकस्तत्रैव सुन्दरताबुद्धिं विधत्ते, तथाऽप्यस्य श्रवणाभिमुखीकरणेन सफलोऽस्मत्परिश्रमः, सर्वथा मच्चिन्तितप्रतिबोधोपायबीजेन मुक्तोऽङ्कुरो, भविष्यत्यस्य मार्गावतारः, इत्येवं स्वचेतस्यवधार्य तैरभिधीयते--भद्र ! वयं यथावस्थितवस्तुस्वरूपप्रकाशनं कुर्म एव नालीकं जल्पितुं जानीमः, ततोऽसौ प्रत्यायितचित्ततया ब्रूयात्-एवमेतद् भगवन् ! नास्त्यत्र सन्देहः, गुरवोऽभिदध्युः, यद्येवं भद्र ! तत्किमवधारितं भवताऽर्थकामयोर्माहात्म्यं ?, सोऽभिदधीत बाढमवधारितं, ततो गुरवो वदेयुः___ सौम्य ! एते चत्वारः पुरुषार्था कथयितुं प्रक्रान्ताः, तत्रैव द्वयोः स्वरूपमभिहितं, अधुना तृतीयस्याभिधीयते, तदप्येकचित्तेन भवताऽऽकर्णनीयं स वदेत्--एष दत्तावधानोऽस्मि, कथयन्तु भगवन्तः, ततो गुरवो ब्रूयुः-भो लोका ! धर्म एव प्रधानः पुरुषार्थ इत्यन्ये मन्यन्ते, तथाहितुल्ये जीवत्वे किमित्येके पुरुषाः कुलक्रमागतद्रविणोपचितेषु गुरुतरचित्तानन्दसन्दर्भधामसु निःशेषजगदभ्यहितेषु कुलेषूपजायन्ते ? किमिति चान्ये पुरुषा एव धनगन्धसम्बन्धविकलेषु समस्तदुःखभरभाजनेषु कुलेषूत्पद्यन्ते ? तथा किमित्येकजननीजनकतया सहोदरयोर्यमलयोश्च द्वयोः पुरुषयोरेष विशेषो दृश्यते यदुत-एकस्तयोर्मध्ये रूपेण मीनकेतनायते, प्रशान्ततया मुनिजनायते, बुद्धिविभवेनाभयकुमारायते, गम्भीरतया क्षीरनीरेश्वरायते, स्थिरतया सुमेरुशिखरायते, शौर्येण धनञ्जयायते, धनेन धनदायते, दानेन कर्णायते, नीरोगतया वज्रशरीरायते, प्रमुदितचित्ततया महर्दिविबुधायते ?, ततश्चैवं निःशेषगुणकलाकलापकलितोऽसौ सकलजननयनमनोनन्दनो भवति, द्वितीयः पुनर्वीभत्सदर्शनतया भुक्नमुद्वेजयति दुष्टचेष्टतया मातापितरावपि सन्तापयति, मूर्खशेखरतया पृथ्वी विजयते, तुच्छतयाऽ धर्मस्य त्त्विकी