SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ अर्थपुरुषार्थख्यातिः विषयादिषु परमार्थदर्शिनं तन्मूर्छया सुसाधूनपि तन्मार्गणतया शङ्कमानं अत एव प्रबन्धधर्मकथाऽऽ कर्णनं परिहरन्तमेनं जीवमुपलभन्ते धर्मसूरयः तदा तेषां दयालुतया भवेदभिसन्धिः -यदेष विशिष्टतरगुणभाजनं संपद्यते ( तां ), ततस्ते कचित्समीपवर्तिनं तमवगम्य तस्याकर्णयतोऽन्यं जनमुदिश्य सम्यग्दर्शनगुणान् वर्णयन्ति, तस्य च दुर्लभतां प्रख्यापयन्ति, तदङ्गीकुर्वतां स्वर्गापवर्गादिकं फलमुपदर्शयन्ति, इहलोकेऽपि परमचित्तनिर्वाणकारणतां तस्य सूचयन्ति, तदेतत्सर्व सञ्जातचैतन्यस्योंदकनिमन्त्रणकल्पं विज्ञेयं, ततोऽसौ सद्धर्मगुरुवचनं निशम्य दोलायमानबुद्धिरेवं चिन्तयेत्--एष श्रमणो बहस्यात्मीयसम्यग्दर्शनस्य गुणजातमुपवर्णयति, केवलं यदीदमहमङ्गीकरिष्ये ततो मामात्मवशवर्तिनवमबुध्य धनानादिकं प्रार्थयिष्यति, ततः किं प्रयोजनम् ? ममानेनादृष्टाशया दृष्टत्यागलक्षणेनात्मवञ्चनेनेति विचिन्त्याकर्णश्रुतं कृत्वा तनाङ्गीकुरुते, तदिदमुदकनिमन्त्रितस्य तत्पानानिच्छासमानमवबोद्धव्यम् / ततो धर्मगुरवश्चिन्तयन्ति--कः पुनर्बोधोपायोऽस्य भविष्यतीति ?, ततः पर्यालोचयन्तो निजहृदये विनिश्चित्यैवं विदधते--कचिदवसरे तं साधूपाश्रयमागामुकमवगम्य जनान्तरोद्देशेनाग्रिमतरां प्रारभते मार्गदेशनां, यदुत भो भो लोका ! विमुच्य विक्षेपान्तरमाकर्णयत यूयं, इह चत्वारः पुरुषार्था भवन्ति, तद्यथा--अर्थः कामो धर्मों मोक्षश्चेति, तत्रार्थ एव प्रधानः पुरुषार्थ इति केचिन्मन्यन्ते, अत्रान्तरे स आगच्छेत् ततस्तस्याऽऽकर्णयतो वदन्ति गुरवः, तथाहि-"अर्थनिचयकलितः पुरुषो लोके जराजीर्णशरीरोऽपि उन्मत्तपञ्चविंशतिकतरुणनराकारः प्रतीयते, अतिकातरहृदयोऽपि महासमरसङ्घट्टनियूंढसाहसोऽतुलबलपराक्रम इति गीयते, सिद्धमातृकापाठमात्रशक्तिविकलबुद्धिरपि समस्तशास्त्रार्थावगाहनचतुरमतिरिति बन्दिभिः पठ्यते, कुरूपतया नितरामदर्शनीयोऽपि चाटुकरणपरायणैः सेवकजनैरवजितमकरकेतुरिति हेतुभिः स्थाप्यते, अविद्यमानप्रभावगन्धोऽपि समस्तवस्तुसाधनप्रवणप्रभावोऽयमिति सर्वत्र तद्धनलुब्धबुद्धिभिः प्रकाश्यते, जघन्यघट७८दासिकातनयोऽपि प्रख्यातोन्नतमहावंशप्रसूतोऽयमिति प्रणयिजनैः स्तूयते, आसप्तमकुलबन्धुतासम्बन्धविकलोऽपि परमबन्धुबुद्धयाऽध्यारोपेण समस्तलोकैर्गृह्यते, तदिदं समस्तमर्थस्य भगवतो विलसित, किश्च--समाने पुरुषत्वे समसंख्यावयवाः पुरुषा यदेते दृश्यन्ते लोके यदुत-एके दायकाः अन्ये तु याचकाः तथैके नरपतयोऽन्ये पदातयः तथैके निरतिशयशब्दाधुपभोगभाजनमन्ये तु दुष्पूरोदरदरीपूरणकरणेऽप्यशक्ताः तथैके पोपका अन्ये पोष्या इत्यादयो निःशेषविशेषा निजसद्भावासद्भावाभ्यामर्थेनैव सम्पाद्यन्ते, तस्मादर्थ एव प्रधानः / अत एवोच्यते अर्थाख्यः पुरुषार्थोऽयं, प्रधानः प्रतिभासते / तृणादपि लघु लोके, धिगर्थरहितं नरम् // 1 // तदेतदाचार्यवदनविनिर्गतमर्थवर्णनमनुश्रुत्य स जीवश्चिन्तयेत् अये ! शोभनः प्रस्तावः प्रारब्धः कथयितुं, ततोऽवहितः शृणुयात् बुध्येत, बुध्यमानः स्वबोधसूचनार्थ ग्रीवां चालयेत्, लोचने विस्फारयेत्, वदनं विकाशयेत्, चारु चारूक्तमिति शनैः शनैरभिदध्यात्, ततस्तैलिङ्गः संजातमस्य श्रवणकुतूहलमिति भगवन्तो धर्मगुरवस्तं लक्षयेयुः / 7. अकारादीन्यक्षराणि. 78 कुब्जेति.
SR No.004358
Book TitleUpmitibhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy