________________ 39 च-"भद्र ! किं नागम्यते साधूपाश्रये किन्न विधीयते भवताऽऽत्महितं किं विफलीक्रियते मनुष्यभवः किन्न विज्ञायते शुभाशुभविशेषः, किमित्यनुभूयते पशुभावो भवता ?, वयं हि भवत एवेदं पथ्यमिति भूयो भूयोऽभिदध्महे, तदिदं सर्व शलाकाञ्जनस्थापनकल्पं विज्ञेयं, सज्ज्ञानहेतुतया कारणे कार्योपचारादिति” / तदेतदाकर्ण्य ततोऽसौ अष्टोत्तराणि७० विरचयन्नेवं ब्रूयात्--भो भोः श्रमणा ! गाढमक्षणिकोऽहं न सरति मे भगवत्समीपमागच्छतो, निर्व्यापाराणां हि धर्मचिन्ता भवति, मादृशां पुनरन्यत्र गतानां सीदति कुटुम्बादिकं, न प्रवर्तते गृहेतिकर्तव्यतेति,७१ न वहति वाणिज्य, न संपद्यते राजसेवा, विस्त७२ (सू )रयति कृषिकर्मादिकमिति / तदेतत्समस्तं शिरोधूननमभिधीयते / ततस्तद्वचनमाकर्ण्य करुणापरीतहृदयाः सद्धर्मगुरवो यास्यत्येष वराकोऽकृतपुण्यकर्मा दुर्गतिमित्यतो नोपेक्षणीय इत्यालोच्येत्थमाचक्षीरन्--वत्स ! यद्यप्येवं तथापि मदनुरोधेन क्रियतां यदहं वच्मि तद्वचनमेकं, द्रष्टव्यास्त्वयाऽहोरात्रमध्येऽवश्यंतयोपाश्रयमागत्य सकृत्साधव इति गृह्यतामभिग्रहो, नान्यदहं किश्चिदपि भवन्तं भणिष्यामि, ततोऽसौ का गतिः प्रतिप्रवेशे७३ (पूतप्रदेशे) पतित इत्यालोच्य७४ तमभिग्रहं गृह्णीयात् , तदिदं सद्गुरुवचनप्रतिपत्तिकरणं प्राग्वल्लोचनाञ्जनपातनतुल्यं बोद्धव्यं,७५ ततस्तत्प्रभृति तदुपाश्रयं गच्छतः प्रतिदिनं सुसाधुसंपर्केण तेषां निष्कृत्रिमानुष्ठानदर्शनेन निस्पृहतादिगुणानालोकयतो निजपापपरमाणुदलनेन७६ च तस्य या विवेककला संपद्यते सा नष्टा सती चेतना पुनरागता इत्यभिधीयते, यत्तु भूयो भूयो धर्मपदार्थजिज्ञासनं तन्नयनोन्मीलनकल्पं विज्ञेयं, यस्तु प्रतिक्षणमज्ञानविलयः स नेत्ररोगबाधोपशमतुल्यो मन्तव्यः, यः पुनर्बोधसद्भावे मनाक् चित्ततोषः स विस्मयकारोऽवगन्तव्यः। ___ यथा च तावति व्यतिकरे सम्पन्नेऽपि यत्तस्य द्रमकस्य तदभिक्षारक्षणलक्षणमाकूतं बहुकालाभ्यस्ताभिनिवेशेन प्रवर्त्तमानं न निःशेतयाऽद्यापि निवर्तते, तद्वशीभूतचित्तश्च तं पुरुषं तद्राहितया पुनः पुनः शङ्कते, ततो नष्टुमभिलपति' तदिहापि सम्भवतीत्यवगन्तव्यं, तथाहि--यावदेषोऽद्यापि जीवः प्रशमसंवेगनिर्वे दानुकम्पास्तिक्याभिव्यक्तिलक्षणं नाधिगमजसम्यग्दर्शनमामोति तावद् व्यवहारतः श्रुतमात्रप्राप्तावपि स्वल्पविवेकतयाऽस्यात्र धनविषयकलत्रादिके कदन्नकल्पे परमार्थबुद्धिर्न व्यावर्तते, तदभिभूतचेतनश्च स्वचित्तानुमानेनातिनिःस्पृहहृदयानपि मुनिपुङ्गवान्मामेते प्रत्यासनवतिनं किश्चिन्मृगयिष्यन्त इत्येवं मुहुर्मुहुराशङ्कते, ततस्तैः सह गाढपरिचयं परिजिहीर्षन् न तत्समीपे चिरं तिष्ठतीति / यत्पुनरभिहितं यदुत-'स महानसनियुक्तकस्तं द्रमकमञ्जनमाहात्म्येन संजातचेतनमुपलभ्याभिहितवान्-भद्र ! पिबेदमुदकं येन ते स्वस्थता सम्पद्यते, स तु न जानेऽनेन पीतेन मम किं संपत्स्यत इति शङ्काकुलाकूतस्तत्समस्ततापोपशमकारणमपि तत्त्वप्रीतिकरं तोयं न पातुमिच्छति स्म, ततस्तेन कृपापरीतचित्तेन बलात्कारेणापि हितं विधेयमिति मत्वा स्वसामर्थेन मुखमुद्घाटय तस्य तत् सलिलं गालितं, ततस्तदास्वादतसमनन्तरं तस्य महोन्मादो नष्ट इव शेषरोगास्तानवं गता इव दाहार्तिरुपशान्तेवेतिकृत्वा स्वस्थ चित्त इवासौ विभाव्यते स्म' तदिदं जीवेऽपि समानमवगन्तव्यं, तत्र यदा गृहीतक्षणं सुसाधूपाश्रयमागच्छन्तं तत्सङ्घटेन संपन्नद्रव्यश्रुतमात्रतया सञ्जातविवेकलवं विशिष्टतत्त्वश्रद्धानविकलं धन 70 व्याजोत्तराणि / नष्टोत्तराणि प्र. 71 गृहसंपूर्ण कार्याणि. 72 महत्प्रयत्नसाध्य जायते. 73 आधीनतायां 74 कलय्य प्र. 75 विज्ञेय प्र. 76 लयन् प्र.