________________ ग्रहणचतुरतां कुरुते, विशेषतः पुनरुन्मादमुद्दलयति, तृतीयं पुनरेतदेव कन्यकोपनीतं महाकल्याणकं नाम परमानं, एतत्पुनः सम्यङ् निषेव्यमानं निःशेषरोगगणं समूलकार्ष कषति तथा पुष्टिं जनयति धृति वर्द्धयति बलमुज्ज्वलयति वर्णमुत्कर्षयति मनःप्रसादं संपायदति वयस्तम्भ विधत्ते सवीर्यतां करोति औजित्यं प्रवणयति, किम्बहुना ?, अजरामरत्वमपि निःसन्देहमेतत्सन्निधापयति, तस्मादनेनौषधत्रयेण सम्यगुपक्रम्यैनं तपस्विनं व्याधिभ्यो मोचयामीति तेन मनसि सिद्धान्तः स्थापितः। तदेतत्सद्धर्माचार्योऽपि जीवगोचरं समस्तं चिन्तयत्येव, तथाहि-यदा निश्चितं तेन प्राक्प्रवृत्तिदर्शनेन यथा भव्योऽयं जीवः केवलं प्रबलकर्मकलाऽऽकुलितचेताः सन्मार्गात्परिभ्रष्टः, तदा भवति गुरोरयमभिप्रायः यथा-कथंपुनरेषोऽस्माद्रोगस्थानीयात् कर्मजालान्मोक्ष्यते ?, पर्यालोचयतश्च तात्पर्यपर्याकुलेन चेतसा सुदूरमपि गत्वा पुनरेतदेव ज्ञानदर्शनचारित्ररूपत्रय भेषजत्रयकल्पं तन्मोचनोपायः प्रतिभासते; नापरः, तत्रेह ज्ञानमञ्जनं विज्ञेयं, तदेव परिस्फुटदर्शितया विमलालोकमुच्यते तदेव च नयनगदसन्दोहकल्पमज्ञानमुन्मूलयति, तदेव च भूतभवद्भाविभावस्वभावाविर्भावनचतुरं जीवस्य विवेकचक्षुः संपादयति, दर्शनं पुनः सत्तीर्थोदकं बोद्धव्यं, तदेवं जीवादिपदार्थगोचरश्रद्धानहेतुतया तत्त्वप्रीतिकरमभिधीयते, यतश्च तदुदयसमये सर्वकर्मणामन्तःसागरोपमकोटीकोटिमात्रमवतिष्ठते, समुत्पन्नं पुनः प्रतिक्षणं तत्तानि तनूकुरुते तेन समस्तगदतानवकारकं कर्मणामिह रोगकल्पत्वात, तदेव दृष्टिप्रख्यस्य ज्ञानस्य यथावस्थितार्थग्रहणचातुर्यमाधत्ते, तदेव च महोन्माददेश्य मिथ्यात्वमुद्दलयतीति चारित्रं पुनरत्र परमानमवगन्तव्यं, तस्यैव सदनुष्ठानं धर्मः सामायिकं विरतिरित्यादयः पर्यायाः, तदेव मोक्षलक्षणमहाकल्याणाव्यवहितकारणतया महाकल्याणकमिति गीयते, तदेव च रागादिमहाव्याधिकदम्बकं समूलघातं हन्ति, तदेव च वर्णपुष्टिधृतिबलमनःप्रसादौर्जित्यवयःस्तम्भसवीर्यतातुल्यानात्मगुणान् समस्तानाविर्भावयति, तथाहि-तज्जीवे वर्तमानं प्रभवो धैर्यस्य कारणमौदार्यस्याऽऽकरो गाम्भीर्यस्य शरीरं प्रशमस्य स्वरूपं वैराग्यस्यातुलहेतुर्वीर्योत्कर्षस्य आश्रयो निर्द्वन्द्वतायाः कुलमन्दिरं चित्तनिर्वाणस्य उत्पत्तिभूमिर्दयादिगुणरत्नानां, किं चानेन ?, यत्तदनन्तज्ञानदर्शनवीर्यानन्दपरिपूर्णमक्षयमव्ययमव्याबाधं धाम तदपि तत्सम्पाद्यमेवेत्यतोऽजरामरत्वमपि तज्जनयतीत्युच्यते, तस्मादेनमनेन ज्ञानदर्शनचारित्रत्रयेण सम्यगुपक्रम्य जीवं क्लिष्टकर्मकलाजालान्मोचयामीति सद्धर्मगुरुरपि चित्तेऽवधारयति / ततो यथा तेन रसवतीपतिना 'शलाकाग्रे तदञ्जनं विन्यस्य तस्य द्रमकस्य गाढमाधनयतो ग्रीवामञ्जिते लोचने, तदनन्तरमेव तेन प्रहादकतया शीततयाऽचिन्त्यगुणयोगितया चाञ्जनस्य पुनचेतना लब्धा. ततश्चोन्मीलितं चक्षः, प्रशान्ता मनाङ नेत्रबाधा. विस्मितेन च तेन किमेतदिति चिन्तित तदत्रैवं योजनीयं--यदाऽयं जीवः प्रथमं प्रतिपद्य भद्रकभावं रोचयित्वा भगवच्छासनं नमस्कृत्त्याईद्विम्बानि पर्युपास्य साधुलोकं विधाय धर्मपदार्थजिज्ञासां कृत्वा दानादिप्रवृत्तिमुत्पाद्य धर्मगुरूणामात्मविषयां पात्रबुद्धिं पुनः क्लिष्टकर्मोदयेन विस्तरधर्मदेशनादिकं किश्चिनिमित्तमासाद्य परिभ्रएपरिणामो भवति, ततश्च न गच्छति चैत्यालये, नाऽऽलीयते साधूपाश्रये न वन्दते दृष्टमपि साधुलोकं, नामन्त्रयति श्रावकजनं, निवारयति स्वगृहे दानादिप्रवृत्तिं, पलायते दूरदृष्टेभ्योऽपि धर्मगुरुभ्यः विधत्ते पृष्ठतस्तदवर्णवादादिकं, ततस्तं तथाभूतं नष्टविवेकचेतनमवगम्य गुरवः स्वबुद्धिशलाकायां तत्प्रतिबोधोपायाञ्जनं निदधते, कथं ?, बहिर्भूम्यादौ कथश्चिदकाण्डदृष्टस्य कुर्वन्ति प्रियसंभाषणं दर्शयन्ति हितबुद्धिं प्रख्यापयन्त्याञ्जसभावं उत्पादयन्त्यविप्रतारकप्रत्ययं पुरुषविशेषं तद्भावं चोपलक्ष्य वदन्ति अजनप्रयोगः