________________ ततश्च तैराकुलीकृतहृदयस्यास्य जीवस्य पुनः प्रसर्पति मिथ्यात्वविषं, ततस्तद्वशगोऽयं जीवः शिथिलयति मौनीन्द्रदर्शनपक्षपातं, विमुञ्चति पदार्थजिज्ञासां, अवधीरयति सद्धर्मनिरतं जनं, बहु मन्यते निर्विचारकलोकं, प्रमादयति प्राक् प्रवृत्तं सत्कर्त्तव्यलेशं, परित्यजति भद्रकभावं, रज्यते नितरां विषयेषु, पश्यति तत्त्वबुद्धया तत्साधनं धनकनकादिकं, गृह्णाति तथोपदिशन्तं गुरु वश्चकबुद्धया, नाकर्णयति तद्वचनं, भाषते धर्मावर्णवादान् , उद्घट्टयति धर्मगुरूणां मर्मस्थानानि, लगति प्रतीपं कूटवादेन, निराक्रियते पदे पदे गुरुभिः / ___ ततश्चासौ चिन्तयति--सुरचितग्रन्थप्रपञ्चा एते श्रमणा न निराकर्तुं मादृशैः पार्यन्ते, ततो मामलीकविकल्पजालेन विप्रतार्य पुनः करिष्यन्त्येते मायावितयाऽऽत्मभक्ष्यस्थानं, अतो दूरत एव मयैते वर्जनीयाः, स्वगृहाद्वारणीयाः, दृष्टा अपि न सम्भापणीयाः नामापि न सोढव्यमेतेषा मित्येवं कदम्नकल्पधनविषयकलत्रादिके मूच्छितहदयस्तत्संरक्षणप्रवणोऽयं जीवः सदुपदेशदायकान् महामोहवशगो. वञ्चकत्वेन कल्पयन् रौद्रध्यानमापूरयति, ततो नष्टविवेकचेतनस्तैः सद्धर्माचार्यैरुर्धाकारनिखातकाष्ठकीलककल्पो लक्ष्यते, अत एव च तेषां सम्बन्धिन्या दयया दीयमानं तदानीं सुन्दरपरमानकल्पं सदनुष्ठानोपदेशं वराकोऽयं जीवो न जानीते, न चेतः परं विवेकिनां विस्मयकरमस्ति यदेष जीवो महानरकगर्तपातहेतौ धनविषयादिके गृद्धात्माऽनन्तसुखमोक्षाक्षेपकारणं सदनुष्ठानं सद्गुरुदयोपनीतमवधीरयति। यथा च तेन महानसनियुक्तकेन तत्तथाभूतमसंभाव्यं व्यतिकरमवलोक्य चिन्तित यदुत—किं पुनरेप रोरो दीयमानमादरेणेदं परमान्नं न गृह्णाति, नूनमयमस्य पापोपहतात्मतया न योग्य इति तदत्रापि तुल्यं विज्ञेयं, तथाहि-सद्गुरूणामपि तं तथाविधं विस्तरधर्मोपदेश६८नयाऽन्यथा वा विनष्टभद्रकभावं विपरीतचारिणं जीवमुपलभ्य भवत्येवम्भूतो भावी यदुत-न भाजनमेपोऽ कल्याणभाजनतया भगवद्धर्मस्य, नोचितो ६९कुगतिगामितया सुगतिगमनस्य, न परिकर्मणीयो दुर्दलकल्पतया सद्धर्मचेतसां, ततोऽत्र मोहोपहतचेतसि विफलो मे परिश्रम इति / यथा च पुनविमृशता तेन रसवतीपतिना निश्चितं यदुत--'नास्य वराकस्यायं दोषः, यतो बहिरन्तश्चायं रोगजालेन परिवेष्टित इति कृत्वा वेदनाविह्वलो न किञ्चिच्चेतयते, यदि पुनरेष नीरोगः स्यात् ततो योऽयं कदन्नलवलाभेनापि तुष्यति सोऽमृतास्वादमेतत्परमानं दीयमानं कथं न गृह्णीयादिति' तदेतदाचायस्यापि पर्यालोचयतो मनसि वर्त्तत एवेति, यदुत--यदेष जीवो गृध्यति विषयादिषु गच्छति, कुमार्गेण नादत्ते दीयमानं सदुपदेशं नैषोऽस्य वराकस्य दोषः, किं तहि ?, मिथ्यात्वादीनां भावरोगाणां, तैर्विसंस्थुलचेतनोऽयं न किञ्चिज्जानीते, यदि पुनरेष तद्विकलः स्यात् तत्कथमात्मनो हितं विमुच्यात्माहिते प्रवर्तेत ?, ___ यच्च तेन महानसनियुक्तेन पर्यचिन्ति यथा--'कथं पुनरेष रोरो नीरोगः स्यात् ?? ततो मनसि निरूपयता तेन पुनः पर्यकल्पि' अये विद्यत एवास्य रोगनिराकरणोपायः यतोऽस्ति मम चारु भेषजत्रितयं, तद्यथा--एकं तावद्विमलालोकं नाम परमाञ्जनं तद् विधानेन प्रयुज्यमानं समस्तनेत्ररोगाम्नाशयति, सूक्ष्मव्यवहितातीतभाविभावविलोकनदक्ष चक्षुः संपादयति, तथा द्वितीयं तत्त्व प्रीतिकरं नाम सत्तीर्थोदकं, तत् पुनर्विधिना स्वाद्यमानं समस्तगदवाततानवं विधत्ते, दृष्टश्चाविपरीतार्थ६८ ०धर्म देश. 69 नरक.