________________ मिथ्या दृक्त्वे विकल्पाः नूनमेष श्रमणो मे द्रविणजातं जिहीर्षति / अथवा कारय रमणीयतरान् विहारान् वासय तेषु बहुश्रूतान् पूजय सङ्घ प्रयच्छ भिक्षुभ्यो दक्षिणां मीलय सङ्घसम्बन्धिनि कोशे स्वीयं द्रविणजातं निक्षिप सङ्घसम्बन्धिन्येव कोष्ठागारे स्वधान्यसञ्चयं समर्पय सङ्घसम्बन्धिन्यामेव संज्ञातौ स्वकीयं चतुष्पदवर्ग भव बुद्धधर्मसङ्घशरणः। एवं ते कुर्वतोऽचिराद् बुद्धपदं भविष्यतीत्येवं वाचालविरचितमायाजालेनात्मीयशास्त्रसन्दर्भण रक्तभिक्षुरिव मां विसंवाद्य निश्चितमेष श्रमणो मदीयसर्वस्वं लातुमभिका क्षति / यद्वा क्रियतां संघभक्तिं भोज्यन्तामृषयो दीयन्तां सुन्दरस्वाद्यानि उपनीयन्तां मुखक्षेपणानि दानमेव गृहस्थस्य परमो धर्मः तत एव संपद्यते संसारोत्तारः इत्येवं मामुपप्रलोभ्य स्वशरीरपोषणपरो दिगम्बर इव मदीयधनमेष श्रमणो निर्वाहयिष्यति / अन्यथा कथमेवंविधोऽस्य ममोपरि प्रपश्वकथनरूपोऽत्यादरः स्यात? तदिदमिह तत्त्वं तावदेवते सुन्दराः श्रमणाः यावन्नोपलभ्यन्ते यावच्चै तेषां न वशवत्तिभिर्भूयते, वशवतिनं पुनर्मुग्धजनं श्रद्धालुमवगम्यते मायाविनो नानावचनरचनया विप्रतार्य मदीयसर्बस्वमपहरन्ति, नास्त्यत्र सन्देहः, ततो मयाऽधुनाऽनेन श्रमणेन प्रारब्धेन सता किं विधेयमित्यालोचयामि, किमदत्तप्रतिवचनः समुत्थाय गच्छामि ? उत नास्त्येव धर्मानुष्ठानकरणे मम शक्तिरिति दीपयामि ? आहोस्विच्चौरहरणादिभिः प्रलीनं मे द्रव्यजातं नास्त्येवाधुना किश्चिद्यत् दीयते पात्रेभ्य इत्येवं प्रत्युत्तरयामि ? उताहो न कार्य मे तावकधर्मानुष्ठानेन न पुनमा किश्चिद्भवता कथनीयमित्येवमेनं श्रमणं निराकरोमि ? किं वा अकाण्डकथनजनितक्रोधसूचिकां भृकुटीं जनयामीति ?,66 न जाने कथमेष श्रमणो मद्वञ्चनप्रवणमना निवास्मादुरध्यवसायान्मम मोक्षं दास्यतीति ? न पुनरसौ वराको गाढमूढात्मतया खल्वेतल्लक्षयति यथा-"एते भगवन्तः सद्धर्माचार्या विदिततुषमुष्टिनिःसारसंसारगर्भार्था अतुलसन्तोषामृततृप्तान्तःकरणा अवगतविषयविषविषमविपाका मोक्षकाङ्क्षकतानेन चेतसा सर्वत्र समवृत्ततयाऽत्यन्तनिःस्पृहतया च सन्मार्गीपदेशदाने प्रवर्तमानाः सन्तो न देवेन्द्रद्रमकयोविशेष लक्षयन्ति, न महर्द्धिविबुधनिर्द्धनपुरुषयोविभागं कल्ययन्ति न चक्रेश्वररोरयोरन्तरं दर्शयन्ति नोदारपरमेश्वरकृपणनरयोरादरानादराभ्यां विवर्तन्ते / समानमेषां चेतसि विवर्तते परमैश्वर्य दारिद्रयेण तुल्या महाहरत्नराशयो जरठपाषाणनिकरेण सदृशा उत्तप्तहाटककूटा लोष्टपूगेन सदृशा हिरण्यस्तोमा धूलिपुजेन सन्निभो धान्यनिचयः क्षारराशेः तुल्यं चतुष्प इकुप्यादिकं निःसारकचवरेण न विशेषो निर्जितरतिरूपाभिरपि ललितललनाभिः सह जरत्काष्ठस्तम्भानामिति"। एवंश्च स्थिते नैतेषां परहितकरणकव्यसनितां विमुच्यापरं स (म)दुपदेशदाने प्रवर्त्तमानानां कारणमुपलभ्यते यतः स्वार्थसम्पादनमपि परमार्थतः स्वाध्यायध्यानतपश्चरणकरणादिना द्वारान्तरेणैव सम्पद्यत एव, न तदर्थमप्येतेषामत्र प्रवृत्तिः, दुरापास्तावकाशा लाभादिका शेषाकाङ्क्षा, न चैतदेपकोऽऽ६७ न्ध्यान्धीकृतबुद्धिर्जानीते, ततोऽयं जीवोऽनवगतसद्गुरूदाराशयोऽत्यन्ततुच्छस्त्रचित्तदुष्टताऽनुमानेन तच्चित्तमपि तथारूपं परिकल्पयन् महामोहवशेन तानतत्त्वदर्शनैः शैवद्विजातिरिव रक्तभिक्षुदिगम्बरादिभिस्तुल्यान् कल्पयति, सम्भवन्ति च भिन्नकर्मग्रन्थेरपि दर्शनमोहनीयपुञ्जत्रयकरणेन यदा पुनर्मिथ्यात्वपुजे वर्ततेऽयं जीवस्तदैवंविधाः कुविकल्पा इति / देश स्वरुप 66 रपयामीति प्र. ६७०ष जीवोऽहितान्धी. ध्यान्धीभूत बु.प्र०