________________ इत्याकलय्य विहितं प्रतिपूर्णमनोरथं चेतः, अत एव तेषां पारमेश्वरमतवर्त्तिनां जन्तूनां नास्त्येव शोको न विद्यते दैन्यं प्रलीनमौत्सुक्यं व्यपगतो रतिविकारः जुगुप्सनीया जुगुप्सा असम्भवी चित्तोद्वेगः अतिदूरवर्तिनी तृष्णा समूलकापंकषितः सन्त्रासः। किन्तर्हि ?, तेषां मनसि वर्तते धीरता कृतास्पदा गम्भीरता अतिप्रवलमौदार्य निरतिशयोऽवष्टम्भः स्वाभाविकप्रशमसुखामृतानवरतास्वादनजनितचित्तोत्सवानां च तेषां प्रबलरागकलाविकलानामपि प्रवर्द्धते रतिप्रकर्षः विनिहतमदगदानामपि विवर्त्तते चेतसि हर्षः समवासीचन्दनकल्पानामपि न सम्भवत्यानन्दविच्छेदः, ततश्च जैनेन्द्रशासनस्थायिनो भव्यसत्त्वाः स्वाभाविकहर्षप्रकर्षामोदितहृदयतया गायन्ति प्रतिक्षणं पञ्चप्रकारस्वाध्यायकरणव्याजेन नृत्यन्त्याचार्यादिदशविधवैयावृत्त्यानुष्ठानद्वारेण वल्गन्ति जिनजन्माभिषेकसमवसरणपूजनयात्रादिसम्पादनव्यापारपरतया उत्कृष्टसिंहनादादीनि चित्तानन्दकार्याणि दर्शयन्ति परप्रवादिनिराकरणचातुर्यमाविभ्राणाः क्वचिदवसरे आनन्दमईलसन्दोहान् वादयन्त्येव भगवतामवतरणजन्मदीक्षाज्ञाननिर्वाणलक्षणेषु पञ्चसु महाकल्याणककालेषु, तस्मादिदं मौनीन्द्रं प्रवचनं सततानन्दं प्रलीनाशेषचित्तसन्तापम्, न चानेन जीवेन क्वचिदपीदं प्राप्तपूर्व भावसारतया, भवभ्रमणसद्भावादेवेदं निश्चीयते, भावसारमेतल्लाभे हि प्रागेव मोक्षप्राप्तिः संपद्येत, तदनेन यत्तद्राजभवनस्य कथानकोक्तस्य विशेषणद्वयमकारि यदुत-'अदृष्टपूर्वमनन्तविभूतिसम्पन्नमिति', तदस्यापि सर्वज्ञशासनमन्दिरस्य दर्शितम् / साम्प्रतं यदुक्तं 'राजामात्यमहायोधनियुक्तकतलवर्गिकैरधिष्ठितमिति' तदस्यापि विशेषणं निदर्श्यतेतत्रेह भगवच्छासनमन्दिरे राजानः सूरयो विज्ञेयाः, त एव हि यतोऽन्तर्बलता महातपस्तेजसा प्रलयीभूतरागादिशत्रुवर्गा बहिश्च प्रशान्तव्यापारतया जगदानन्दहेतवः, त एव च गुणरत्नपरिपूर्णलोकमध्ये प्रभुत्वयोगितया निरुपचरितराजशब्दवाच्याः। तथा मन्त्रिणोऽत्रोपाध्याया द्रष्टव्याः, यतस्ते विदितवीतरागागमसारतया साक्षाद्भूतसमस्तभुवनव्यापाराः प्रज्ञयाऽवज्ञातरागादिवैरिकसङ्घा राहस्यिकग्रन्थेषु कौशलशालितया समस्तनीतिशास्त्रज्ञा इत्युच्यन्ते, त एव च सुबुद्धिविभवपरितुलितभुवनतया अविकलममात्यशब्दमुद्वहन्तो राजन्ते / तथा महायोधाः खल्वत्र गीतार्थवृषभा दृश्याः, यतस्ते सत्त्वभावनाभावितचित्ततया न क्षुभ्यन्ति दैविका युपसर्गेषु न बिभ्यति घोरपरीषहेभ्यः, किम्बहुना ? वैवस्वतसङ्काशमपि परमुपद्रवकारिणं पुरोऽभिवीक्ष्य न त्रासमुपगच्छन्ति, अत एव ते गच्छकुलगणसङ्घानां द्रव्यक्षेत्रकालोपपत्तिमन्नानां८२ परंपराकरणद्वारेण४३ निस्तारकारिण इति हेतोर्महायोधाः प्रोच्यन्ते / नियुक्तकाः पुनरत्र गणचिन्तका ग्राह्याः, त एव यतो बालवृद्धग्लानप्राघूर्णकाद्यनेकाकारासहिष्णुपरिपाल्यपुरुषसमाकुलाः कुलगणसङ्घरुपाः पुरकोटीकोटीगच्छरूपांश्चासङ्ख्यग्रामाकरान्४४ गीतार्थतयोत्स पिवादयोः स्थानविनियोगनिपुणाः प्रासुकैषणीयभक्तपानभैषज्योपकरणोपाश्रयसंपादनद्वारेण सकलकालं निराकुलाः पालयितुं क्षमाः, त एव चाविपरीतस्थित्या आचार्यनियोगकारितया नियुक्तकध्वनिनाऽभिधेया भवितुमर्हन्ति / 42 लापत्ति पा. 43 परंपरा 44 असंख्यात. प्र.