SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ - श्रुतानां राजद्वारो पमा सर्वशासनं शासनस्य राज- मन्दिरता विहाय क्षयमुपगता भवन्ति, तस्य / अपि कियन्मात्रं क्षीणं, तदाऽयं जीवस्तस्यात्मनृपतेः सम्बन्धि यदेतदाचारादिदृष्टिवादपर्यन्तं द्वादशाङ्गं परमागमरूपं तदाधारभूतचतुर्वर्णश्रीश्रमणसङ्घलक्षणं वा मन्दिरं तस्य द्वारि प्राप्तोऽभिधीयते, तत्र च प्रवेशनप्रवणः-स्वस्य-आत्मीयस्य कर्मणो विवरो-विच्छेदः स्वकर्मविवरः स एव यथार्थाभिधानो द्वारपालो भवितुमर्हति, अन्येऽपि रागद्वेषमोहादयस्तत्र द्वारपाला विद्यन्ते, केवलं तेऽस्य जीवस्य प्रतिबन्धका न पुनस्तत्र प्रवेशकाः, तथाहि-अनन्तवारान् प्राप्तः प्राप्तोऽयं जीवस्तैर्निराक्रियते / यद्यपि क्वचिदवसरे तत्र तेऽपि प्रवेशयन्त्येनं तथापि तैः प्रवेशितो न परमार्थतः प्रवेशितो भवति, रागद्वेषमोहाद्याकुलितचित्ता यद्यपि यतिश्रावकादिचिह्नाः कचिद्भवन्ति तथापि ते सर्वज्ञशासनभवनाद् बहिर्भूता द्रष्टव्या इत्युक्तं भवति, ततश्चायं जीवस्तेन स्वकर्मविवरद्वारपालेन तावती भुवं प्राप्तो ग्रन्थिभेदद्वारेण सर्वज्ञशासनमन्दिरे प्रवेशित इति युक्तमभिधीयते / यथा च तेन कथानकोक्तेन 'तद्राजभवनमदृष्टपूर्वमनन्तविभूतिसंपन्नं राजामात्यमहायोधनियुक्तकतलवर्गिकैरधिष्ठितं स्थविराजनसनाथं सुभटसंघाताकीर्ण विलसद्विलासिनीसाथै निरुपचरितशब्दादिविषयोपभोगविमर्दसुन्दरं सततोत्सवं दृष्टं' तथाऽनेनापि जीवेन वज्रवदुर्भेदोऽभिन्नपूर्वश्च संसारे यः क्लिष्टकमंग्रन्थिस्तद्भेदद्वारेण स्वकर्मविवरप्रवेशितेनेदं सर्वज्ञशासनमन्दिरं तथाभूतविशेषणमेव सकलमवलोक्यते। दृश्यन्तेऽत्र मौनीन्द्रे प्रवचनेऽपास्ताज्ञानतमःपटलप्रसरा विविधरत्ननिकराकारधारका विलसदमलालोकप्रकाशितभुवनभवनोदरा ज्ञानविशेषाः, तथा विराजन्तेऽत्र भागवते प्रवचने सम्पादितमुनिपुङ्गवशरीरशोभतया मनोहरमणिखचितविभूषणविशदाकारतां दधानाः खल्वामर्शोषध्यादयो नानद्धिविशेषाः, तथा कुर्वन्ति सुजनहृदयाक्षेपमत्र जिनमतेऽतिसुन्दरतया विचित्रवस्त्रविस्ताराकारबहुविधतपोविशेषाः, तथा जनयन्ति चित्ताहादातिरेकमत्र पारमेश्वरे मते लोलोज्ज्वलांशुकोल्लोचावलम्बिमौक्तिकावचूलरूपतामाबिभ्राणा रचनासौन्दर्ययोगितया चरणकरणरूपा मूलोत्तरगुणाः, तथाविधेऽत्र जैनेन्द्रदर्शने वर्तमानानां धन्यानां वक्त्रसौष्ठवगन्धोत्कर्षचित्तानन्दातिरेकमुदारताम्बूलसनिभं सत्यवचनं, तथा व्यामुवन्ति स्वसौरभोत्कर्षेण दिक्चक्रवालमत्र भागवते मते मुनिमधुकरनिकरप्रमोदहेतुतया विचित्रभक्तिविन्यासग्रथिततया मनोहारिकुसुमप्रचयाकारधारकाण्यष्टादशशीलाङ्गसहस्राणि, तथा निर्वापयति मिथ्यात्वकषायसन्तापानुगतानि भव्यसत्त्वशरीराणि गोशीर्षचन्दनादिविलेपनसन्दोहदेश्यतां दधानमत्र पारमेश्वरदर्शने सम्यग्दर्शनम् / ___ यतश्चात्र सर्वज्ञोपत्रे सज्ज्ञानदर्शनचारित्रप्रधाने प्रवचने वर्तन्ते ये जीवास्तैर्महाभागधेयैः स्थगितो नरकान्धकूपः, भग्नस्तिर्यग्गतिचारकावासः, निर्दलितानि कुमानुषत्वदुःखानि, विमर्दिताः कुदेवत्वमानससन्तापाः, प्रलयं नीतो मिथ्यात्ववेतालः, निष्पन्दीकृता रागादिशत्रवः, जरितप्रायं कर्मनिचयाजीर्णम् , अपकर्णिता जराविकाराः, अपहस्तितं मृत्युभयं, करतलवर्तीनि संपादितानि स्वर्गापवर्गसुखानि, अथवाऽवधीरितानि तैर्भगवन्मतस्थैर्जीवैः सांसारिकसुखानि, गृहीतो हेयबुद्धया समस्तोऽपि भवप्रपञ्चः, कृतं मोक्षैकतानमन्तःकरणम् / न च तेषां परमपदप्राप्ति प्रति व्यभिचाराशङ्का, न ह्युपाय उपेयव्यभिचारी। उपायश्चाप्रतिहतशक्तिकः परमपदप्राप्तेः सज्ज्ञानदर्शनचारित्रात्मको मार्गः, स च प्राप्तोऽस्माभिरिति / सञ्जाते च तल्लाभे तेषामिति निश्चिता बुद्धिः–नास्त्यतः परं प्राप्तव्यम्, शासनप्रातिफलं
SR No.004358
Book TitleUpmitibhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy