________________ यत्पुनरभ्यधायि यथा-'तददृष्टमूलपर्यन्तं नगरमुच्चावचेषु गेहेषु त्रिकचतुष्कचत्वरादिषु नानारूपासु च रथ्यासु पर्यटताऽनवरतमश्रान्तचेतसाऽनेन रोरेणानन्तशः परावर्तितमिति' तदपि सर्वमत्र समान विज्ञेयं, यतोऽमुनापि जीवेनानादितया कालस्य भ्रमताऽनन्तपुद्गलपरावर्ताः पर्यन्तं नीताः / यथा च तस्य–'भ्रमतो द्रमकस्य तत्र नगरे न ज्ञायते कियान् कालो लक्षित इत्युक्तं' तथा जीवभवभ्रमणकालकलनमपि न प्रतीतिगोचरचारितामनुभवति, निरादितया तत्परिच्छेदस्य कर्तुमशक्तेरिति। तदेवमत्र संसारनगरोदरे “मदीयजीवरोरोऽयं कुविकल्पकुतर्ककुतीथिकलक्षणैर्दुर्दान्तडिम्भसंघातैस्तस्वाभिमुख्यरूपे शरीरे विपर्याससंपादनलक्षणया ताडनया प्रतिक्षणं ताड्यमानो महामोहादिरोगबातप्रस्तशरीरस्तद्वशेन नरकादियातनास्थानेषु महावेदनोदयदलितस्वरूपोऽत४१ एव विवेकविमलीभूतचेतसां कृपास्थानं पौर्वापर्यपर्यालोचनविकलान्तःकरणतया तत्त्वावबोधविप्रकृष्टोऽत एव प्रायः सर्वजीवेभ्यो जघन्यतमोऽत एव धनविषयादिरूपकदन्नदुराशापाशवशीकृतः कथञ्चित्तल्लेशलाभतुष्टोऽपि तेनातृप्तचेतास्तदुपार्जनवर्द्धनसंरक्षणप्रतिबद्धान्तःकरणस्तद्वारेण च गृहीतनिबिडगुरुतराष्टप्रकारकर्मभाररूपानिष्ठिताप-थ्यपाथेयस्तदुपभोगद्वारेण विवर्द्धमानरागादिरोगगणपीडितस्तथापि विपर्यस्तचित्ततया तदेवानवरतं भुञ्जानोऽप्राप्तसंचारित्ररूपपरमानाऽऽस्वादोऽरघट्टघटीयन्त्रन्यायेनानन्तपुद्गलपरावर्तान् समस्तयोनिस्थानास्कन्दनद्वारेण पर्यटित इति" / अधुना पुनरस्य यत्सम्पन्नं तदभिधीयते / इह च-त्रिकालविषयतयाऽस्य व्यतिकरस्य विवक्षया समस्तकालाभिधायिभिरपि प्रत्ययैरत्र सर्वत्रापि कथाप्रबन्ध निर्देशः सङ्गतो द्रष्टव्यः, यतो विवक्षया कारकवत्कालोऽपि वस्तुस्थित्यैकस्वरूपेऽपि वस्तुनि नानारूपः प्रयुक्तो दृष्टोऽभीष्टश्च शब्दविदां, यथा योऽयं मार्गो गन्तव्यः आ पाटलिपुत्रात् तत्र कूपोऽभूदभवञ्च, बभूव, भविष्यति, भवितेति वा, एते सर्वेऽपि कालनिर्देशा एकस्मिन्नपि कूपाख्ये वस्तुनि विवक्षावशेन साधवो भवन्तीत्यलमप्रस्तुतविस्तरेणेति / तत्र योऽसौ तत्स्वभावतया 'समस्तभूतसंघातात्यन्तवत्सलहृदयः प्रख्यातकीत्तिस्तस्मिन्नगरे सुस्थिताभिधानो महानरेन्द्रो दर्शितः,' स इह परमात्मा जिनेश्वरो भगवान सर्वज्ञो विज्ञेयः / स एव हि मलीनाशेषक्लेशराशितयाऽनन्तज्ञानदर्शनवीर्यतया निरुपचरितस्वाधीननिरतिशयानन्तानन्दसन्दोहस्वरूपतया च परमार्थेन सुस्थितो भवितुमर्हति, न शेषा अविद्यादिक्लेशराशिवशवर्तिनः, अतिदुःस्थितत्वात्तेषाम् , स एव च भगवान समस्तभूतसंघातस्यापि सूक्ष्मरक्षणोपदेशदायितयाऽक्षेपेण मोक्षप्रापणप्रवचनार्थप्रणेतृतया च स्वभावेनैवातिवत्सलहृदयः, स एव च प्रख्यातकीर्तिः निःशेषामरनरविसरनायकैः पुरुहूतचक्रवर्त्यादिभिः, यतः स एव प्रशस्तमनोवाक्कायव्यापारपरायणैरनवरतमभिष्ट्रयते, अत एव चासावेवाविकलं महाराजशब्दमुद्वोढुमर्हति / ___ यथा च स रोरः–'पर्यटंस्तस्य मन्दिरद्वारं कथञ्चित्प्राप्तः, तत्र च स्वकर्मविवरो नाम द्वारपालस्तिष्ठति, तेन च कृपालुतया तत्र राजभवने प्रवेशित इत्युक्तं' तदेवमिह योजनीयम्-तत्र यदा ऽस्य जीवस्यानादिमता यथाप्रवृत्तसंज्ञेन करणेन कथश्चिद् घर्षणघूर्णनन्यायेनायुष्कवर्जितानां सप्तानां कर्मप्रकृतीनां स्थितेः समस्ता अपि सागरोपमकोटीकोटयः पर्यन्तवर्तिनीमेकां सागरोपमकोटीकोटिं 41 दयादभिलिप्तरूपो प्र.