________________ मोहात् क्रुध्यतीव विह्वलीभवतीव मूर्च्छतीव म्रियत इव किं करोमीति न जानीते / अथ सा वियुज्यते म्रियते वा, ततोऽसावप्याक्रन्दति परिदेवते म्रियते वा, अथ सा कथश्चिदुःशीलतया परपुरुषचारिणी स्यात् परपुरुषा वा बलात्तां समाक्रम्य गृह्णीयुः ततोऽसौ महामोहविहलो यावजीवं हृदयदाहेन जीर्यते प्राणैर्वा वियुज्यते दुःखासिकातिरेकेणेति / तदेवमेकैकवस्तुप्रतिबन्धबद्धहृदयोऽयं जीवो दुःखपरम्परामासादयति, तथापि विपर्यस्ततया तद्रक्षणप्रवणमनाः सर्वथा शङ्कते ममेदमयं हरिष्यतीति / जीवस्या- . यथा च तस्य रोरस्य तेन कदनेनोदरपूरं पूरितस्यापि न तृप्तिः संपद्यते प्रत्युत प्रतिक्षणं तृप्ति- सुतरां बुभुक्षाऽभिवर्धते इत्युक्तं, तथाऽस्यापि जीवस्यानेन धनविषयकलत्रादिना कदन्नप्रायेण मत्वं पूर्यमाणस्यापि नाभिलाषविच्छेदः, किन्तर्हि ?, गाढतरमभिवर्द्धते तत्तषः / तथाहि-यदि कथञ्चिद्रविणशतं सम्पद्यते ततः सहस्रमभिवाञ्छति, अथ तदपि सञ्जायते ततो लक्षमाकाङ्क्षति तत्सम्पत्तावपि कोटीमभिलपति, तल्लाभे राज्यं प्रार्थयति, अथ राजा जायते ततश्चक्रवर्तित्वं मृगयते तत्संभवेऽपि विबुधत्वमन्विच्छन्ति, अथ देवत्वमप्यास्कन्देत्ततः शक्रत्वमन्वेषयते अथेन्द्रतामपि लभते ततोऽप्यत्तरोत्तर कल्पाधिपतित्वपिपासापर्यासितचेतसो नास्त्येवास्य जीवस्य मनोरथपरिपूर्तिः। यथा हि गाढग्रीष्मे समन्तादवदाहतापितशरीरस्य पिपासाभिभूतचेतनस्य मूर्च्छया पतितस्य कस्यचित्पथिकस्य तत्रैव स्वमदर्शने सुबहन्यपि प्रबलकल्लोलमालाकुलानि महाजलाशयकदम्बकानि पीयमानान्यपि न तपकर्षक मनागपि सम्पादयन्ति तथाऽस्यापि जीवस्य धनविषयादीनि। तथाहि--अनादौ संसारे विपरिवर्तमानेनानन्तशः प्राप्तपूर्वा देवभवेषु निरुपचरितशब्दाधुपभोगाः, आसादितान्यनन्तान्यनर्धेयरत्नकूटानि, विलसितं खण्डितरतिविभ्रमैः सह विलासिनीसाथैः, क्रीडितं त्रिभुवनातिशायिनीभिर्नानाक्रीडाभिः तथाऽप्ययं जीवो महाबुभुक्षाक्षामोदर इव शेषदिनभुक्तवृत्तान्तं न किञ्चिजानाति, केवलं तदभिलाषण शुष्यतीति / अर्थकाम यत्तुक्तं-तत्कदन्नं तेन द्रमकेन लौल्येन भुक्तं जीर्यति, जीर्यमाणं पुनर्वातविसूचिकां विधाय विकाराः तं रोरं पीडयतीति / तदेवं योजनीयम्-यदा रागादिपरीतचित्तोऽयं जीवो धनविषयकलत्रादिकं कदमकल्पं स्वीकरोति तदाऽस्य कर्मसञ्चयलक्षणमजीणे सम्पद्यते, ततश्च यदा तददयद्वारेण जीयति तदा नारकतिर्यङ्नरामरभवभ्रमणलक्षणां वातविसूचिकां विधायैनं जीवं नितरां कदर्थयति, यथा च तत्कदन्नं तस्य सर्वरोगाणां निदानं पूर्वोत्पनरोगाणां चाभिवृद्धिकारणमत्यर्थमभिहितं तथेदमपि रागग्रस्तचित्तेनानेन जीवेनोपभुज्यमानं विषयादिकं महामोहादिलक्षणानां प्रागुपवर्णितानां समस्तरोगाणां भविष्यतां कारणं पूर्वनिर्वणितानां पुनरभिवृद्धिहेमुभूतं३९ वर्त्तते / . ___यथा च स रोरः–तदेव कुभोजनं चारु मन्यते, सुस्वादुभोजनास्वादं तु स्वमान्तेऽपि विपर्यासः वराको नोपलभत इत्युक्तं तथाऽयमपि जीवो महामोहग्रस्तचेतोवृत्तितया यदिदमशेषदोषराशिदूषित मुपवर्णितस्थित्या विषयधनादिकं तदेवातिसुन्दरमात्महितं च चेतसि कल्पयति, यत्पुनः पारमार्थिक स्वाधीननिरतिशयानन्दसन्दोहदायकं महाकल्याणभूतसञ्चारित्ररूपं परमान्नं, तदयं वराको महामोहनिद्रातिरोहितसद्विवेकलोचनयुगलो४० न कदाचिदासादयति / तथा हि-यद्ययमनादौ भवभ्रमणे पूर्वमेव तत क्वचिदलप्स्यत ततोऽशेषक्लेशराशिच्छेदलक्षणमोक्षावाप्तिः, नेयन्तं कालं यावत्संसारगहने पर्यटिष्यत. यतश्चायमद्यापि बंभ्रमीति ततो नानेन मदीयजीवेन सच्चरणरूपं सद्भोजनं प्रागवाप्तमिति निश्चीयते / 39 ०पूर्व निर्वत्तितानां प्र. 40 लोचनात्कदचिदा प्र०