________________ चेष्टाः अर्थ कामः तरकर्मभारं तद्द्वारेण दुर्गतिं चात्मनोऽभिवर्द्धयतीति / यदि पुनः कथञ्चित्पूर्वविहितपुण्यलवः स्यात् सक्तानां ततोऽयं जीवस्तदुदयेन धनसहस्रादिकं वा अभिमतभार्या वा स्वशरीरसौन्दर्य३४ वा विनीतपरिजनं वा धासङ्कल्प न्यसञ्चयं वा कतिचिद्ग्रामप्रभुत्वं वा राज्यादिकं वा प्राप्नुयादपि / ततश्च यथाऽसौ द्रमकः कदनलेशमात्रमालाच लाभात्तुष्टः३५ तथाऽयमपि जीवो माद्यति हृदये मदसन्निपातग्रस्तहृदयश्च नाकर्णयति विज्ञापनानि३६ न पश्यति शेषलोकं न नामयति ग्रीवां न भाषते प्रगुणवचनैः अकाण्ड एव निमीलयति चक्षुषी अपमानयति गुरुसंहतिमपि, अतोऽयमेवंविधतुच्छाभिप्रायहतस्वरूपो जीवो ज्ञानादिरत्नभरपरिपूर्णतया परमेश्वराणां भगवतां मुनिपुङ्गवानां क्षुद्रद्रमकेभ्योऽप्यधमतमः कथं न प्रतिभासते ?, यदा पशुभावे नरकेषु वा वर्ततेऽयं जीवस्तदा विशेषतो द्रमकोपमामतिलङ्घयति,३७ यतो विवेकधनानां महर्षीणां य एते किल शक्रादयो देवा महर्द्धयो महाद्युतयो निरुपचरितशब्दादिविषयोपभोगभाजनं द्राधीयःस्थितिकास्तेऽपि यदि सम्यग्दर्शनरत्नविकलाः स्युस्तदा महादारिद्रयभराक्रान्तमूर्तयो विद्युल्लताविलसितचटुलजीविताश्च प्रतिभासन्ते, किं पुनः शेषाः संसारोदरविवरवर्त्तिनो जन्तव इति / यथा चासौ द्रमकः अवज्ञया जनैर्दत्त तत्कदन्नं भुञ्जानः शक्रादपि शङ्कते यदुत-अयं ममैतदुद्दालयिष्यति तथाऽयमपि जीवो महामोहोपहतः तद्रविणकलत्रादिकं कथञ्चित्तावता क्लेशजालेनोपार्जितं यदाऽनुभवति तदा बिभेति तस्करेभ्यः त्रस्यति नरपतिभ्यः कम्पते भयेन दायादेभ्यः उद्विजते याचकेभ्यः, किंबहुनाऽत्र जल्पितेन !, अत्यन्तनि:स्पृहमुनिपुङ्गवेभ्योऽपि शङ्कते यदुतैते महता वचनरचनाटोपेन मां प्रतार्य नूनमेतद् ग्रहीतुमिच्छन्ति तथाविधगाढमूर्छाविषाभिभूतचित्तश्चिन्तयत्येवं-हन्त धक्ष्यते ममैतद्रविणजातं चित्रभानुना प्लावयिष्यते वा सलिलप्रवाहेन हरिष्यते वा चौरादिभिः अतः सुरक्षितं करोमि, ततोऽसहायः शेषजनाविश्रम्भितया रात्रावुत्थाय खनत्यतिदूरं भूतलं, निधत्ते तत्तत्र निभृतसञ्चारः, पुनः पूरयित्वा गर्त कुरुते समं भूतलं, विकिरति तस्योपरि धूलिकचवरादिकं, सम्पादयति किलालक्ष्यं स्वाकूतेन, मा पुनर्न ज्ञास्यामि स्वदेशमिति विधत्ते विविधानि चिह्नानि, प्रयोजनान्तरेण तद्देशेन सञ्चरन्तमपरं मुहुमुहुर्निभालयति, कथश्चित्तद्देशे यान्ती तदृष्टिं शङ्कते-आ ज्ञातमेतेन, अतो मूर्छादन्दह्यमानमानसो न लभते रात्रौ निद्रां, पुनरुत्थाय तत्प्रदेशात्तदुत्खनति, निधत्ते च प्रदेशान्तरे, निरीक्षते पुनः पुनर्दिगन्तरेषु सभयं निक्षिपंश्चक्षुः यदुत-मां कश्चिद्रक्ष्यतीति, व्यापारान्तरमपि स केवलं कायेन करोति चेतस्तु तत्प्रतिबन्धनबद्धं ततः स्थानादन्यत्र पदमपि न चलतीति / अथ कथञ्चित्तथाविधयत्नशतैरपि तेन रक्ष्यमाणमपरो लक्षयेत् गृह्णीयाच्च ततो ऽसावकाण्डवज्रपातनिर्दलितशरीर इव हा ! तात! हा मातः भ्रातरिति विरुवमारा [र] टयमानः सकलविवेकिलोकं करुणापरीतचित्ततां प्रापयति, अतिमूर्छाव्याघाताघ्रातचेतनो३८ म्रियते वा। तदिदं धनलवप्रतिबद्धचेतोवृत्तीनां विलसितमुपदर्शितम् / तथा गृहिणीप्रतिवन्धग्रहगृहीतविग्रहः अपि ईर्ष्याशल्यवितुद्यमानमानसः खल्वेष जीवस्तस्याः परवीक्षणरक्षणाक्षणिकः सन्न निःसरति गेहात् न स्वपिति रजन्यां त्यजति मातापितरौ शिथिलयति बन्धुवर्गान् न ददाति परमसुहृदोऽपि स्वगृहे ढौकं अवधीरयति धर्मकार्याणि न यति लोकवचनीयतां. केवलं तस्या एव मखमनवरतमीक्षमाणस्तामेव च परमात्ममतिमिव योगी निवृत्ताशेषव्यापारो ध्यायन्नेवास्ते, तस्य च यदेव सा कुरुते तत्सुन्दरं यदेव सा भाषते तदेवानन्दकारि यत्सा विचिन्तयति तदेवेङ्गिताकारैर्विज्ञायासौ सम्पादनायाहं मन्यते। एवञ्चाकलयति मोहविडम्बितेन मनसा यदुतेयं ममानुरक्ता हितकारिणी, न चान्येदृशी सौन्दयौदार्यसौभाग्यादिगुणकलापकलिता जगति विद्यते। अथ कदाचित्तां मातेति भगिनीति देवतेत्यपि मन्यमानः परो वीक्षते ततोऽसौ मन्दः 34 नास्ति प्रत्यन्तरे 35 भातुष्ट पा. 36 न विक्षपयति प्र. 37 तिलवते प्र. 38 व्याघातचेतनः प्र.