________________ 22 अर्थकामसक्तानां चेष्टाः संकल्पमालाश्च सिद्धिवधूसम्बन्धबद्धाध्यवसायानां भगवतां सत्साधूनां क्षुद्रद्रमकप्रायः प्रतिभासते, किं पुनः शेषास्ववस्थास्विति। तथाहि-द्विजातिवणिजकाभीरान्त्यजादिभावेषु वर्तमानोऽयं जीवोऽदृष्टतत्त्वमागो वराकस्तुच्छा भिप्रायतया क्वचिद् द्वित्राणामपि क्षुद्रग्रामाणां लाभं चक्रवत्तित्वं मन्यते क्वचित् क्षेत्रखण्डमात्रप्रभुत्वमपि महामण्डलिकत्वमाकलयति क्वचिज्जारकुलटामप्यमरसुन्दरीं कल्पयति क्वचिद्देशविरूपमप्यात्मानं मकरध्वजं चिन्तयति, क्वचिन्मातङ्गपाटकाकारमप्यात्मपरिजनं शक्रपरिवारमिव पश्यति कचिद्रविणस्य त्रिचतुराणां सहस्राणां शतानां विंशतीनां रूपकाणामपि लाभं कोटीश्वरत्वमवगच्छति क्वचित्पञ्चषाणामपि धान्यद्रोणानामुत्पत्तिं धनदविभवतुल्यां लक्षयति, कचित्स्वकुटुम्बभरणमपि महाराज्यमवबुध्यते, क्वचिदुष्पूरोदरदरीपूरणमपि महोत्सवाकारं जानीते, क्वचिद्भिक्षावाप्तिमपि जीवितावाप्तिं निश्चिनोति, क्वचिदन्यं शब्दादिविषयोपभोगनिरतमुवीक्ष्य राजादिकं शक्रोऽयं देवोऽयं वन्द्योऽयं पुण्यभागयं महात्माऽयं पुरूषो यदि ममा प्येवं सम्पद्यन्ते विषयास्ततोऽहभप्येवं विलसामीति चिन्तयन्परिताम्यति / तथाविधाकूतविडम्बितच तदर्थ करोति भूभुजा सेवां पर्युपास्ते तान् सर्वदा दर्शयति विनयं, वदत्यनुकूलं शोकाक्रान्तोऽपि हसति तेषु हसत्सु सञ्जातजातस्वपत्रहर्षप्रकर्षोऽपि रोदिति तेष रुदत्स निजशत्रनपिस्तौति तद भिमतान् स्वपरमसुहृदोऽपि निन्दति तद्विषो धावति पुरतो रात्रिन्दिवं मर्दयति खिन्नदेहोऽपि तच्चरणान् क्षालयत्यशुचिस्थानानि विधत्ते तद्वचनात्सर्वजघन्यकर्माणि, प्रविशति कृतान्तवदनकुहर इव रणमुखे समर्पयति करवालादिघातानामात्महृदयं, म्रियते धनकामोऽपूर्णकाम एव वराकः, तथा प्रारभते कृषी खिद्यते सर्बमहोरात्रं वाहयति हलं अनुभवत्यटव्यां पशुभावं विमर्दयति नानाप्रकारान् प्राणिनः परितप्यते वृष्टयभावेन बाध्यते बीजनाशेन, तथा विधत्ते वाणिज्य, भाषतेऽलीकं मुष्णाति विश्रब्धमु ग्धलोकान् याति देशान्तरेषु सहते शीतवेदनां क्षमते तापसन्तापं तितिक्षते बुभुक्षां न गणयति पिपासां अनुभवति त्रासायासादीनि दुःखशतानि प्रविशति महारौद्रसमुद्रे प्रलीयते यानपात्रभङ्गेन भवति भक्ष्यं जलचराणां तथा भ्रमति गिरिकन्दरोदरेषु आस्कन्दत्यमुरविवराणि निभालयति रसकूपिकाः भक्ष्यते तदारक्षराक्षसैः, तथाऽवलम्बते महासाहसं याति रात्रौ शमशानेषु वहति मृतकलेवराणि विक्रीणाति महामांसं साधयति विकरालवेतालं निपात्यते तेन कुपितेन, तथाऽभ्यस्यति खन्यवादं निरीक्षते निधानलक्षणानि तुष्यति तदर्शनेन ददाति रात्रौ तद्ग्रहणार्थ भूतबलिं दूयते तदङ्गारभृतभाजनवीक्षणेन, तथाऽनुशीलयति धातुवादं समुपचरति नरेन्द्रवृन्दं गृह्णाति तदुपदेशं मीलयति मूलजातानि समाहरति धातुमृत्तिकाः समुपढौकयति पारदं ल्किश्यते तस्य जारणचारणमारणकरणेन धमते रात्रिन्दिवं पूत्करोति प्रतिक्षणं हृष्यति पीतश्वेतक्रिययोर्लेशसिद्धौ खादत्यहनिशमाशामोदकान् व्ययीकरोति तदर्थ शेषमपि धनलवं मार्यते दुःसाधितकर्मविभ्रमेण, तथा विषयोपभोगसम्पत्तये धनार्थमेव चायं जीवः कुरुते चौर्य रमते द्यूतमाराधयति यक्षिणीं परिजपति मन्त्रान् गणयति ज्योतिषीं प्रयुक्ते निमित्तं आवर्जति लोकहृदयं अभ्यस्यति सकलं कलाकलापं, किं बहुना ? तनास्ति यन्न करोति तन्न विद्यते यन वदति तन्न सम्भबति यन्न चिन्तयति, न च तथाप्ययमनवरतमितश्रेतश्च तदर्थ बंभ्रम्यमाणः प्राविहितपुण्यशून्यः समभिलषितार्थस्य तिलतुषत्रिभागमात्रमपि प्रामोति, केवलं स्वचित्तसन्तापमातरौद्रध्याने३३ गुरु 33 प्र० मार्तध्यानेन.