SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ 26 संसारिजी- नुरक्ता अपरपराकरणपटवः परस्परमविभिन्नचेतसो न चात्यन्तसंहताः सङ्ख्यातीताः पदातिसङ्घाताः, स्य मनो रञ्जयिष्यन्ति में प्रतिदिनं प्रणतिलालसानि राजवृन्दानि किरीटमणिमरीचिजालैश्चरणारविन्दम् , रथमाला भविष्याम्यहं भूरिभूमिमण्डलाधिपतिः, तन्त्रयिष्यन्ति मे समस्तकार्याणि प्रज्ञाऽवज्ञातसुरमन्त्रिणोऽमात्यमहत्तमाः,२९ तदिदं सुसंस्कृतभिक्षालाभेच्छातुल्यं विज्ञेयम् / पुनश्च चिन्तयति-ततोऽहमतिसमृद्धतया निश्चिन्ततया च परिपूर्णसमग्रसामग्रीकः करिष्यामि विधिना कुटीप्रावेशिकं रसायनं, ततस्तदुपयोगात् संपत्स्यते मे वलीपलितखालित्यव्यङ्गादिविकलं जरामरणविकाररहितं देवकुमाराधिकतरद्युतिवितानं निःशेषविषयोपभोगभाजनं महाप्राणं शरीरम् / तदिदं लब्धभिक्षस्यैकान्तगमनमनोरथसममवगन्तव्यम् / भूयश्च मन्यते-ततोऽहमतिप्रमुदितचेता गम्भीररतिसागरावगाढस्तेन ललनाकलापेन साई ललमानः खल्वेवं करिष्ये यदुत क्वचिदनवरतप्रवृत्तमदनरसपरवशोऽनारतसुरतविनोदेन स्पर्शनेन्द्रियं प्रीणयिष्ये, क्वचिद्रसनेन्द्रियोत्सवद्वारेण स्वस्थीकृताशेषहृषीकवर्गान्मनोज्ञरसानास्वादयिष्ये, क्वचिदतिसुरभिकर्परानुविद्धमलयजकश्मीरजकुरङ्गमदादिविलेपनद्वारेण च पञ्चसुगन्धिकताम्बूलास्वादनव्याजेन चाहं घ्राणेन्द्रियं तर्पयिष्ये, क्वचिदनारतताडितमुरजध्वनिसनाथममरसुन्दरीविभ्रमललनालोकसम्पादितमनेकाकारकरणाङ्गहारमनोहरं प्रेक्षणकमीक्षमाणश्चक्षुरिन्द्रियानन्दं३० विधास्ये, क्वचित्कलकण्ठतत्प्रयोगविशारदजनप्रयुक्तं वेणुवीणामृदङ्गकाकलीगीतादिस्वनमाकर्णयन् श्रोत्रेन्द्रियमाहादयिष्ये, क्वचित्पुनरखिलकलापकौशलोपेतैः समानवयोभिः समर्पितहृदयसर्वस्वैः शौर्योदार्यवीर्यवय्यरपहसितमकरध्वजसौन्दर्यैमित्रवर्गः सार्द्ध नानाविधक्रीडाविलासै रममाणः समग्रेन्द्रियग्राममाहादातिरेकमास्कन्दयिष्यामीति / तदिदमेकान्ते भिक्षाभक्षणाकाङ्क्षासदृशमवसेयम् / चिन्तयति च-ततो ममैवं निरतिशयसुखानुभवद्वारेण तिष्ठतो भूयांसं कालं समुत्पत्स्यन्ते सुरकुमाराकारधारकाणि रिपुसुन्दरीहृदयदाहदायकानि च समाहादितसमस्तबन्धुवर्गप्रणयिजननानाप्रकृतीनि३१ मत्प्रतिबिम्बकसंकाशानि मुतशतानि, ततोऽहं सम्पूर्णाशेषमनोरथविस्तारः प्रत्यस्तमितप्रत्यूहसमूहोऽनन्तकालं यथेष्टचेष्टया विचरिष्यामि / सोऽयं भूरिदिनार्थ स्थापनमनोरथ इव वर्तते / यत् पुनरालोचयति यदुत---अथ कदाचित्तं तथाभूतं मामकीनं संपत्प्रकर्ष शेषनृपतयः श्रोष्यन्ति, ततस्ते मत्सराध्मातचेतसः सर्वेऽपि संभूय मद्विषयेषूपप्लवं विधास्यन्ति, ततोऽहं तेषामुपरि चतुरङ्गसेनयाऽविक्षेपेण यास्यामि, ततस्ते स्वबलावलेपवशेन मया सह सङ्ग्रामं करिष्यन्ति, ततो भविष्यति प्रभूतकालिको महारणविमर्दः, ततस्ते परस्परं संहततया भूरिसाधनतया च मनाग् मामाक्रमिष्यन्ति, ततोऽहमभिवर्द्धितक्रोधवन्धतया३२ प्रादुर्भूतप्रबलरणोत्साहस्तानेकैकं सबलं चूर्णयिष्ये, नास्ति समस्तानामपि पातालेऽपि प्रविष्टानां मया बद्धानां मोक्ष इति / तदिदं रोररणकाण्डविड्वरसमानमवबोद्धव्यम् / भूयश्च भावयति-ततोऽहमवजितसमस्तपृथिवीभाविराजवृन्दत्वाल्लप्स्ये चक्रवत्तिराज्यमहाभिषेकम् , ततो नास्ति वस्तु तत्रिभुवने यन्मे न सम्पत्स्यत इति / एवमेष जीवो राजपुत्राद्यवस्थायां वर्तमानो बहुशो निष्प्रयोजनविकल्पपरम्परयाऽऽत्मानमाकुलयति, ततश्च रौद्रध्यानमापूरयति, ततो बध्नाति निबिडं कर्म, ततः पतति महानरकेषु, न चेह तथाऽपि खिद्यमानोऽपि पूर्वोपार्जितपुण्यविकलः स्वहृदयतापं विमुच्यापरं कश्चनार्थमासादयति तदनेनैतल्लक्षणीयं-यदा खल्वेष जीवो नरपतिसुताद्यवस्थायामतिविशालचित्ततया किलापकर्णिततुच्छवस्तुगोचरमनोरथो बृहदर्थप्रार्थकतया स्वबुद्धयैव महाभिप्रायस्तदापि विदितप्रशमामृतास्वादनमुखरसानां विज्ञातविषयदारुणविपाकविषभावानां 29 महामात्य प्र. 3. प्रेक्षणीय 31 जनता प्र. 32 क्रोधाबन्ध प्र.
SR No.004358
Book TitleUpmitibhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy