________________ तलवगिका सामान्यभिवः तलवर्गिकाः पुनरत्र५ जैनेन्द्रशासनभवने सामान्यभिक्षवो ज्ञातव्याः, यतस्ते दत्तावधानाः संपादयन्त्याचार्यादेशं कुर्वन्त्युपाध्यायाज्ञां विदधति गीतार्थवृषभविनयं न लवयन्ति गणचिन्तकप्रयुक्तमर्यादांनियोजयन्त्यात्मान गच्छकुलगणसङ्घप्रयोजनेषु स्वजीवितव्यव्ययेनापि निर्वहन्ति तेषामेव गच्छादीनामशिवाद्यपायव्यतिकरेषु, अत एव ते शूरताभक्तताविनीततास्वभावादलं तलवर्गिकशब्दवाच्याः / यतश्चेदं मौनीन्द्रशासनभवनमनुज्ञात सूरीणां चिन्त्यते सदुपाध्यायै रक्ष्यते गीतार्थवृषभैः परिपुष्टि नीयते गण चिन्तकैर्विहितनिश्चिन्तसमस्तव्यापारं सामान्यसाधुभिरतस्तैरधिष्ठितमित्युच्यते / स्थाविराः आर्याः ___ साम्प्रतं यदुक्तं-स्थविराजनसनाथमिति' तदत्रापि जिनसङ्घसदने योजनीयम्, तत्रेह स्थविरा जनाः खल्वार्यालोका मन्तव्याः, तथाहि-ते तत्र [राजमन्दिरे] प्रमत्तप्रमदालोकनिवारणपरायणा निवृत्तविषयासङ्गाश्च व्यावर्णिताः, एतच्चोभयमपि निरुपचरितमार्यालोकानामेव घटामाटीकते, यतस्त एव धर्मकार्येषु प्रमादपरतन्त्रतया सीदन्तं श्रमणापासकललनालोकमात्मीयशिष्यकावर्ग च परोपकारकरणव्यसनितया भगवदागमाभिहितं महानिर्जराकारणं साधमिकवात्सल्य चानुपालयन्तः स्मारणवारणचोदनादानद्वारेण कापथप्रस्थितमनवरतं निवारयन्ति सन्मार्गे चावतारयन्ति, त एव च विदितविषयविषविषमविपाकतया विषयेभ्यो निवृत्तचित्ताः सन्तो रमन्ते संयमे क्रीडन्ति तपोविशेषविधानः५७ रज्यन्तेऽनारतस्वाध्यायकरणे न सेवन्ते प्रमादवृन्दं समाचरन्ति निर्विचारमाचार्यादेशमिति / सुभटाः श्रमणो पासका यच्चोक्तम्-'सुभटसंघाताकीर्ण तद्राजभवनमिति' तेऽत्र भगवच्छासने सुभटसंघाटाः श्रमणोपासकसमूहा द्रष्टव्याः, यतस्त एव समस्तमपीदं व्याप्नुवन्त्यतिप्रचुरतया, तथाहि-असंख्येया विद्यन्ते देवेषु, संख्येयाः सन्ति मनुजेषु, भूरिप्रकाराः सङ्गीतास्ते तिर्यक्षु, बहवः सन्ति नरकेष्विति, त एव च शौयौदार्यगाम्भीर्ययोगितया भगवच्छासनप्रत्यनीकानां मिथ्यात्वाध्मातसत्त्वरूपाणां योधसंघातानामुच्चाटनचातुर्य बिभ्राणा निरुपचरितप्रवृत्तिनिमित्तं सुभटशब्दं स्वीकुर्वते, यतश्चैते सदा ध्यायन्ति सर्वज्ञमहाराज समाराधयन्ति सूरिराजवृन्दानि समाचरन्त्युपाध्यायामात्योपदेशं प्रवर्तन्ते गीतार्थवृषभमहायोधवचनेन सर्वधर्मकार्येषु वितरन्ति विधिना सदात्माऽनुग्रहधिया नियुक्तस्थानीयेभ्यः साधुवर्गोंपग्रहनिरतेभ्यो गणचिन्तकेभ्यो वस्त्रपात्रभक्तपानभेषजासनसंस्तारकवसत्यादिकं, नमस्कुर्वन्ति विशुद्धमनोवाकायैस्तलवर्गिककल्पमद्यदीक्षितादिभेदभिन्नं सकलपि सामान्यसाधुजनं, वन्दन्ते भक्तिभरनिर्भरहृदयाः स्थविराजनस्थानीयमार्यालोकं प्रोत्साहयन्ति समस्तधर्मकार्येषु विलासिनीसार्थस्थानीय श्राविकाजनं अनुशीलयन्ति सकलकालं जिनजन्माभिषेकनन्दीश्वरवरद्वीपजिनयात्रामर्त्यलोकपर्वस्नात्रादिलक्षणानि तत्र जिनशासनसदने नित्यनैमित्तिकानि, किं बहुनोक्तेन ?, ते हि भावतः सर्वज्ञशासनं विमुच्य नान्यत्किञ्चित्पश्यन्ति, नाकर्णयन्ति, न जानन्ति, न श्रद्दधते, न रोचयन्ति, नानुपालयन्ति, किन्तर्हि ?, तदेव सकलकल्याणकारणं मन्यन्ते इति, अतोऽतिभक्ततया सर्वज्ञमहाराजादीनामभिप्रेता इति कृत्वा तस्यैव मन्दिरस्य मध्यवासिनो विनीतमहर्टिकमहाकुटुम्बिककल्पास्ते द्रष्टव्याः, अन्यादृशां कुतस्तत्र भवने वास इति / 45 जिनेन्द्र 46 सूरिणा प्र.४७ तपोविधानविशेषैः प्र.