________________ जीवस्य ततो बध्नाति निबिडं भूरिकर्मजालं, पतत्येष जीवो नरकेषु, तत्र च पतितः पच्यते नरकवेदनाः कुम्भीपाकेन, विपाटयते क्रकचपाटनेन, आरोह्यते वज्रकण्टकाकुलासु शाल्मलीषु, पाय्यते सन्देशकैर्मुखं विवृत्य कलकलायमानं तप्तं त्रपु, भक्ष्यन्ते निजमांसानि, भृज्ज्यतेऽत्यन्तसन्तप्तभ्राष्ट्रेषु, तार्यते पूयवसारुधिरक्लेदमूत्रान्नकलुषां वैतरणी, छिद्यतेऽसिपत्रवनेषु स्वपापमरप्रेरितैः परमाधार्मिकसुरैरिति / तथा समस्तपुद्गलराशिभक्षणेऽपि नोपशाम्यति बुभुक्षा निःशेषजलधिपानेऽपि नापगच्छति तर्षः, अभिभूयते शीतवेदनया, कदर्थ्यते तापातिरेकेण; तथोदीरयन्ति च तदन्यनारका नानाकाराणि दुःखानि, ततश्चायं जीवो गाढतापानुगतो हा मातर्हा नाथाखायध्वं त्रायध्वमिति विक्लवमाक्रोशति, न चास्य तत्र गात्रत्रायकः कश्चिद्विद्यते / तिर्यगति- कथञ्चिदुत्तीर्णोऽपि नरकाद्विबाध्यते तिर्यक्षु वर्तमानः, कथम् ? वाह्यते भारं कुटयते दुःखवेदनाः लकुटादिभिः छिद्यन्तेऽस्य कर्णपुच्छादयः खाद्यते कृमिजालैः, सहते बुभुक्षां, म्रियते पिपासया, तुद्यते नानाकारयातनाभिरिति१५। मनुजगति- ततः कथश्चिदवाप्तमनुष्यभवोऽप्येष जीवः पीडयत एव दुःखैः / कथम् ?, तदुच्यते-क्लेशवेदनाः यन्त्यनन्तरोगवाताः,१६ जर्जरयन्ति जराविकाराः, दोयन्ते दुर्जनाः, विहलयन्तीष्टवियोगाः, परिदेवयन्त्यनिष्टसंप्रयोगाः, विसंस्थुलयन्ति धनहरणानि, आकुलयन्ति स्वजनमरणानि, विह्वलयन्ति 7 नानाऽध्य सनानीति / विबुधजन्म- ___ तथा कथञ्चिल्लब्धविबुधजन्माप्येष जीवो ग्रस्यत एव नानावेदनाभिः, तथाहि- आज्ञाप्यते निनाना- विवशः शक्रादिभिः, खिद्यते परोत्कर्षदर्शनेन, जीयते प्राग्भवकृतप्रमादस्मरणेन, दन्दद्यतेऽस्वावेदनाः धीनामरसुन्दरीप्रार्थनेन, शल्यते तन्निदानचिन्तनेन, निन्द्यते महर्दिकदेववृन्देन विलपत्यात्मनश्च्यवनदर्शनेन, आस्कन्दति गाढप्राप्तासम्ममृत्युः, पतति समस्ताशुचिनिदाने गर्भकलमल इति। एवं स्थिते यद्रमकं वर्णयताऽभ्यधायि यदुत सर्वाङ्गीणमहाघाततापानुगतचेतनः हा मातस्त्रायताल्पोपनयः मित्यं दैन्यविक्रोशविक्लव इति, तदस्यापि जीवस्य तुल्यमेव द्रष्टव्यम् , त(य)स्मादस्याः सर्वस्या महानर्थपरम्परायाश्चा(स्वा)त्मगताः कुविकल्पास्तत्सम्पादकाः कुदर्शनग्रन्थास्तत्प्रणेतारश्च कुतीथिकाः कारणमिति / 18 यत्तून्मादादयस्तस्य द्रमकस्य रोगा निर्दिष्टास्तेऽस्य जीवस्य महामोहादयो विज्ञेयाः। तत्र मोहो मिथ्यात्वं, तदुन्माद इव वर्त्तते समस्ताकार्यप्रवृत्तिहेतुतया, ज्वर इव रागः सर्वाङ्गीणमहातापनिमित्ततया, शूलमिव द्वेषो गाढहृदयवेदनाकारणतया, पामेव कामस्तीव्रविषयाभिलाषकण्डूकारितया, गलत्कुष्टमिव भयशोकारतिसम्पाद्यं दैन्यं जनजुगुप्साहेतुतया चित्तोद्वेगविधायितया च, नेत्ररोग इवाज्ञानं विवेकदृष्टिविघातनिमित्ततया, जलोदरमिव प्रमादः सदनुष्ठानोत्साहघातकतयेति / ततश्चायं जीवो मिथ्यात्वादिभिरेतैर्भावरोगैविहलीकृतो न किञ्चिच्चेतयते / ततश्च यदेतत् साम्प्रतमेव 'न जानीते भक्ष्याभक्ष्य इत्याधनध्यवसायरूपं महातमः प्रतिपादितं, ये च 'नास्ति परलोक,' इत्यादयो विपर्यासविकल्पाः प्रतिपादितास्तेऽस्य द्वयस्याप्युत्पत्तौ बाह्याः कुतर्कग्रन्थादयः सहकारिकारणभावनोत्पादकाः,१९ एते तु रागद्वेषमोहादय आन्तरा उपादानकारणभावेन जनकाः, तस्मात्पूर्वोक्ता सर्वानर्थपरम्परा परमार्थतो 15 तीनवेदनाभिः 16 पन प्र. 17 विधुरयन्ति प्र. 18 शरीरजर्जरकाः 19 त्पथ प्र. द्रमकवि