________________ गाढतरमेत जन्याऽपि विज्ञेया / किञ्च कुशास्त्रसंस्कारादयः कादाचित्का, एते तु रागादयस्तदुत्पादने सकलकालभाविनः। अन्यच्च कुदर्शनश्रवणादयो भवन्तोऽपि भवेयुर्वाऽनर्थपरम्पराकारणं न वेति व्यभिचारिणः, एते तु रागादयो भवन्तोऽवश्यंतया महानर्थगर्त्तपातं कुर्वन्त्येव, नास्त्यत्र व्यभिचारो, यतस्तैरभिभूतोऽयं जीवः प्रविशति महातमोऽज्ञानरूपं, विधत्ते नानाविधविपर्यासविकल्पान्, अनुतिष्ठति कदनुष्टानशतानि, सचिनोति गुरुतरकर्मभारं, ततस्तत्परिणत्या क्वचिजायते सुरेषु, क्वचिदुत्पद्यते मानुषेषु, क्वचिदासादयति पशुभावं, क्वचित्पतति महानरकेषु, ततश्च तदेव प्राक्प्रतिपादितस्वरूपं महादुःखसन्तानमनवरतमरघट्टघटीयन्त्रन्यायेनानन्तशोऽनुभवद्वारेण परावर्त्तयतीति / एवञ्च स्थिते यत्तद्रमक-२० वर्णने प्रत्यपादि यदुत शीतोष्णदंशमशकक्षुत्पिसापाद्युपद्रवैर्वाध्यमानो महाघोरनरकोपमवेदन इति तदत्र जीवरोरे समर्गलतरं मन्तव्यमिति / अत एव च यदुक्तं यदुतासौ द्रमकःकृपास्पदं सतां दृष्टो,हास्यस्थानं स मानिनाम् / बालानां क्रीडनावासो, दृष्टान्तः पापकर्मणाम् // 128 // तदत्रापि जीवे सकलं योजनीयम् / तथाहि सततमसातसंततिजम्बालास्तोऽयं२१ जीवो दृश्यमानोऽत्यन्तसात्मीभूतप्रशमसुखरसानां भगवतां सत्साधूनां भवत्येव कृपास्थानं, क्लिश्यमानेषु सकलकालं करुणाभावनाभावितचित्तत्वात्तेषां,२२ तथा मानिनामिव वीररसवशेन तपश्चरणकरणोद्यतमतीनां सरागसंयतानां भवत्येवायं जीवो हास्यस्थानं, धर्माख्यपुरुषार्थसाधनविकलस्य कीदृशी खल्वस्य पुरुषतेति तेषामनादरदृष्टेः। तथा बालानां मिथ्यात्वाध्मातचेतसां तथाविधलोकानां कथञ्चिदवाप्तविषयसुखलवानां भवत्येवायं पापिष्ठजीवः क्रीडनावासो। दृश्यन्ते हि धनगर्वोद्धरचित्तैस्तथाविधकर्मकरादयो नानाप्रकारं विडम्ब्यमानाः, तथा पापकर्मणां फलप्ररूपणावसरे भवत्ये(वै)वंविधो जीवो दृष्टान्तः, तथाहि-भगवन्तः पापकर्माणि२३ दर्शयन्तो भव्यजन्तूनां संवेगजननार्थमीदृशजीवानेव दृष्टान्तयन्तीति / यत्पुनरवाचि यदुत'अन्येऽपि बहवः सन्ति, रोरास्तत्र महापुरे / केवलं तादृशः प्रायो, नास्ति निर्भाग्यशेखरः॥१२९॥ इति / तदेतदात्मीयजीवस्यात्यन्तविपरीतचारितामनुभवताऽभिहित२४ मया।योऽयं मदीयजीवोऽधरितजात्यन्धभावोऽस्य महामोहोऽपहस्तितनरकतापोऽस्य रागः, उपमागोचरातीतोऽस्य परेषु द्वेषः, अपहसितवैश्वानरोऽस्य क्रोधो, लघूकृतमहाशैलराजोऽस्य मानो, विनिजितभुजगवनितागतिरस्य माया, दर्शितस्वयम्भूरमणसागरलघुभावोऽस्य लोभः, स्वमपिपासाकारमस्य विषयलाम्पटयं भगवद्धर्मप्राप्तेः प्रागासीत् , स्वसंवेदनसिद्धमेतत् / अहमेवं तर्कयामि-नैवमुल्वणदोषता प्रायोऽन्यजीवानां, यथा चैतत्सोपपत्तिकं भवति तथोत्तरत्र प्रतिबोधावसरे विस्तरेणाभिधास्यामः / यत्तुक्तं-'यथाऽसौ रोरस्तत्रादृष्टमूलपर्यन्ते नगरे प्रतिभवनं भिक्षामटनेवं चिन्तयति, यदुत अमुकस्य देवदत्तस्य बन्धुमित्रस्य जिनदत्तस्य च गृहेऽहं स्निग्धां मृष्टां२५ बढी सुसंस्कृतां भिक्षां लप्स्ये, तां चाहं तूर्णमादाय यथाऽन्ये द्रमका न पश्यन्ति तथैकान्ते यास्यामि, तत्र कियतीमपि भोक्ष्ये, शेषामन्यदिनार्थ स्थापयिष्यामि, ते तु द्रमकाः कदाचित्कुतश्चिनिमित्तान्मां लब्धलाभं ज्ञास्यन्ति, ततश्चागत्य याचमाना मामुपद्रवयिष्यन्ति, 20 वर्णके प्र. 21 संनिपात पा. 22 करुणाभावित पा. 23 कार्याणि प्र. 24 परीतता प्र. 25 मृद्वीप्र.