________________ जीवोऽनादौ भवभ्रमणे केवलो जायते, केवलो म्रियते, केवलश्च स्वकर्मपरिणतिढौकितं सुखदुःखमनुभवति इत्यतो नास्य परमार्थतः कश्चिद्धन्धुरस्ति / यथाऽसौ रोरो दुष्टबुद्धिस्तथाऽयमपि जीवोऽतिविपर्यस्तो, यतोऽनन्तदुःखहेतून् विषयानासाद्य परितुष्यति, परमार्थशत्रून् कषायान् बन्धूनिव सेवते, परमार्थतोऽन्धत्वमपिद मिथ्यात्वं पटुदृष्टिरूपतया गृह्णाति, नरकपातहेतुभूतामप्यविरतिं प्रमोदकारणमाकलयति, अनेकानर्थसार्थप्रवत्तकमपि प्रमादकदम्बकमत्यन्तस्निग्धमित्रवृन्दमिव पश्यति, धर्मधनहारितया चरटकल्पानपि दुष्टमनोवाकाययोगान् पुत्रानिव बहुधनार्जनशीलान् मन्यते, निबिडबन्धनोपमानमपि पुत्रकलत्रधनकनकादीनाहादातिरेकहेतून् पर्यालोचयतीति / यथाऽसौ द्रमको दारिद्योपहतस्तथाऽयमपि जीवः सद्धर्मवराटिकामात्रेणापि शून्यत्वाद्दारिद्र्याक्रान्तमूर्तिः। यथाऽसौ रोरः पौरुषविकलस्तथाऽयमपि जीवः स्वकर्महेतूच्छेदवीर्यविकलतया पुरुषकाररहितो विज्ञेयः। यथाऽसौ द्रमकः क्षुत्क्षामशरीरस्तथाऽयमपि जीवः सकलकालं विषयबुभुक्षाऽनिवृत्तेरत्यन्तकर्षितशरीरो ज्ञातव्यः। यथाऽसौ रोरोऽनाथः कथितस्तथाऽयमपि८ जीवः सर्वज्ञरूपनाथाप्रतिपत्तेरनाथो द्रष्टव्यः। यथाऽसौ द्रमको भूमिशयनेन गाढं घृष्टपार्श्वत्रिकः प्रतिपादितस्तथाऽयमपि जीवः सदाऽतिपरुषपापभूमिविलोठनेन नितरां दलितसमस्ताङ्गोपाङ्गो द्रष्टव्यः। यथाऽसौ द्रमको धूलिधूसरसर्वाङ्गो दर्शितस्तथाऽयमपि जीवो बध्यमानपापपरमाणुधूसरसमस्तशरीरो विज्ञेयः। यथाऽसौ रोरश्वीरिकाजालमालितो गदितस्तथाऽयमपि जीवो महामोहकलालक्षणाभिलघुचेलपताकाभिः समन्तात्परिकरितमूतिरतीव बीभत्सदर्शनो वर्त्तते / यथाऽसौ द्रमको निन्द्यमानो दीनश्वाख्यातस्तथाऽयमपि जीवोऽवाप्तविवेकैनिन्द्यते सद्भिः, भयशोकादिक्लिष्टकर्मपरिपूर्णतया चात्यन्तदीनो विज्ञेयः। यथा चासौ१० तत्र नगरेऽनवरतं गृहे गृहे भिक्षां पर्यटतीत्युक्तस्तथाऽयमपि जीवः११ संसारनगरेऽपरापरजन्मलक्षणेषु उच्चावचेषु गेहेषु विषयकदनाशापाशवशीकृतोऽनवरतं१२ भ्रमतीति। यत्पुनस्तस्य भिक्षाधारं घटकपरमाख्यातं तदस्य जीवद्रमकस्यायुष्कं विज्ञेयं, यतस्तदेव तदुपभोग्यस्य विषयकदनादेश्चारित्रमहाकल्याणकादेश्वाश्रयो वर्त्तते, यतश्च तदेव गृहीत्वा भूयो भूयोऽस्मिन् संसारनगरेऽयं जीवः पर्यटतीति। ये तु तस्य द्रमकस्य दुर्दान्तडिम्भसंघाता यष्टिमुष्टिमहालोष्टप्रहारैः क्षणे क्षणे ताडयन्तः शरीरं जर्जरयन्तीति निदर्शितास्तेऽस्य१३ जीवस्य कुविकल्पास्तत्संपादकाः कुतर्कग्रन्थास्तत्प्रणेतारो वा कुतीथिका विज्ञेयाः, ते हि यदा यदाऽमुं जीवं वराकं पश्यन्ति तदा तदा कुहेतुशतमुद्रघातपातैरस्य तत्त्वाभिमुख्यरूपं शरीरं जर्जरयन्ति / ततश्च तैनर्जरितशरीरोऽयं जीवो-न जानीते कार्याकार्यविचारं, न लक्षयति भक्ष्याभक्ष्यविशेष, न कलयति पेयापेयस्वरूपं, नावबुध्यते हेयोपादेयविभागं, नावगच्छति स्वपरयोर्गुणदोष निमित्तमपीति / ततोऽसौ कुतर्कश्रान्तचित्तश्चिन्तयति–नास्ति परलोको, न विद्यते कुशलकर्मणां फलं, न संभवति खल्वयमात्मा, नोपपद्यते सर्वज्ञः, न घटते तदुपदिष्टो मोक्षमार्ग इति, ततोऽसावतत्त्वाभिनिविष्टचित्तो हिनस्ति प्राणिनो, भाषतेऽलीकमादत्ते परधनं, रमते मैथुने, परदारेषु वा, गृह्णाति परिग्रहं न करोति चेच्छापरिमाणं, भक्षयति मांसमास्वादयति मद्य, न गृह्णाति सदुपदेशं, प्रकाशयति कुमार्ग, निन्दति वन्दनीयान् , वन्दतेऽवन्दनीयान्, गच्छति स्वपरयोर्गुणदोषनिमितं, वदति परावर्णवादमाचरति समस्तपातकानीति / 6 महान्धकारान्धत्वमपि प्र. 7 नरकहेतु प्र. 8 कलितः प्र. 9 सदा परुष प्र. 10 यथाऽसौ प्र. 11 जीवोऽत्र प्र. 12 अनारत पा. 13 दर्शिताः प्र.