________________ .246 ततस्तेनोदितं वत्स !, न सुखं परमार्थतः / नाप्यत्र सुन्दरं किश्चित्तत्त्वतो विबुधालये // 19 // केवलं मुग्धबुद्धीनां, विषयामिषवाञ्छिनाम् / अत्रास्था महती वत्स ! मयेदं तेन वर्णितम् // 10 // इतरथा-महामोहनरेन्द्रस्य, परिवारसमायुजः / क राज्यं ? क च लोकानां, सुखवार्तेति दुर्घटम् // 10 // तदिदं ते समासेन, कथितं विबुधालयम् / अधुना पशुसंस्थानं, कथ्यमानं निबोध मे // 102 // बुभुक्षारतिसन्तापपिपासावेदनातुराः / दाहशोकभयोद्वेगबन्धताडनपीडिताः // 103 // सततं दुःखिता लोका, धार्यन्तेऽत्र पुरेऽखिलाः। महामोहादिभिर्वत्स ! दीनाः शरणवर्जिताः॥१०४॥ धर्माधर्मविवेकेन, विकलाः कलुषात्मकाः / तिष्ठन्त्यनन्तजातीयाः, पुरेऽत्र पुरुषाः किल // 105 // तदिदं पशुसंस्थानं, वर्णितं ते महापुरम् / इदानीं वर्ण्यते वत्स ! तदिदं पापिपञ्जरम् // 106 // येऽत्र लोका महापापप्राग्भारभरपूरिताः / वसन्ति तेषां दुःखस्य, नास्ति विच्छेदसम्भवः // 107 // योऽसौ ते वेदनीयाख्यनृपतेः पुरुषो मया / असातनामकः पूर्व, वर्णितस्तत्र मण्डपे // 10 // तस्येदं भो ! महामोहराजेन निखिलं पुरम् / कचित्तोपितचित्तेन, भटभुक्त्या समर्पितम् // 109 // ततस्तेन पुरे सर्ने, परमाधार्मिनामकैः / अत्र लोकाः कदर्थ्यन्ते, पुरुषैः स्वनियोजितैः // 110 // कथम् ?-पाय्यन्ते तप्तताम्राणि, नीयन्ते क्षतचूर्णताम् / खाद्यन्ते निजमांसानि, दह्यन्ते तीव्रवहिना // 11 // शाल्मलीरभिरोह्यन्ते, वज्रकण्टकसंकुलाः / तार्यन्ते क्लेदबहुलां, वत्स ! वैतरणी नदीम् // 112 // छिद्यन्ते करुणाहीनरसिपत्रवनेरितैः / कुन्ततोमरनाराचकरवालगदाशतैः // 113 // पच्यन्ते कुम्भपाकेन, पाटयन्ते क्रकचादिभिः। कलम्बवालुकापृष्ठे, भ्रज्ज्यन्ते चणका इव // 11 // अन्यच्च-पाटकाः सन्ति सप्तात्र, तत्राद्ये पाटकत्रये / परमाधार्मिकैरित्थं, जन्यते दुःखपद्धतिः // 115 // परस्परं च कुर्वन्ति, दुःखमेते निरन्तरम् / षट्सु पाटेषु भिद्यन्ते, सप्तमे वज्रकण्टकैः // 116 // किं च-चुभुक्षया कदर्थ्यन्ते, प्रपीडयन्ते पिपासया / काष्ठीभवन्ति शीतेन, वेदनावेगविहलाः / 117 // क्षणेन द्रवतां यान्ति, क्षणेन स्थिररूपताम् / क्षणेन च विलीयन्ते, गृह्णन्ति च शरीरकम् // 118 // न शक्तः कोटिजिहोऽपि, दुःखं वर्णयितुं जनः / वसतामत्र लोकानां, यादृशं पापिपञ्जरे // 119 // एकान्तदुःखगर्भार्थ, तदिदं पापिपञ्जरम् / कथितं ते समासेन, पुरं वत्स ! मयाऽधुना // 120 // तस्मादेतानि चत्वारि, विज्ञातानि यदि त्वया / पुराणि विदितं वत्स ! भवचक्रं ततोऽधुना।१२१॥ अत्रान्तरे-आकर्ण्य मातुलीयां तां, भारती भगिनीसुतः। अदादादरतो दृष्टिं, भवचक्रे समन्ततः।१२२॥ ततो निःशेषतो वीक्ष्य, तारविस्फारितेक्षणः / त्वरयोद्विग्नचेतस्को, निजगांद ससंभ्रमः // 123 // कथम् ?-हा हा हा माम ! दृश्यन्ते, कष्टाः सप्त महेलिकाः। असूर्या नगरेऽमुष्मिन् , दारुणाकारधारिकाः॥१२४ आक्रान्ताशेषधामानः, कृष्णा बीभत्सदर्शनाः। वेताल्य इव नाम्नाऽपि, लोककम्पविधायिकाः // 1255 एताः काः किंप्रयुक्ता वा, किंवीर्याः किंपरिच्छदाः / चेष्टन्ते कस्य बाधायै ? तथैवंकृतनिश्चयाः॥१२६॥ इदं मे सर्बमाख्यातं, यावदद्यापि नो त्वया / तावत्प्रतारणं मन्ये, भवचक्रस्य वर्णनम् // 127 // अतः समस्तं मामोऽदो, मह्यमाख्यातुमर्हति / विमर्शेनोदितं वत्स !, निबोध त्वं निवेद्यते // 128 // जरास्वरूप ___ जरा रुजा मृतिश्चेति, खलता च कुरूपता / दरिद्रता दुर्भगता, नामतोऽमूः प्रकीर्तिताः // 129 // ... तत्र-सा कालपरिणत्याख्या, भार्या या मूलभूपतेः। तया प्रयोजिता तावज्जरेयं भुवनोदरे // 130 //