________________ सज्ज्ञानपरिपूतानां, मतिमोहो महात्मनाम् / बाधां न कुरुते ोष, केवलं शुभचेतसाम् // 13 // नापि शोको भवेत्तेषां बाधको भद्र ! भावतः / यैरादावेव निर्णीतं, समस्तं क्षणभङ्गुरम् // 14 // अत्र पुनः-पुत्रस्नेहवशेनैष, मतिमोहान्मृतो नृपः / शोकस्तु कारयत्येवं, प्रलापं करुणं जनैः // 15 // प्रकर्षेणोदितं माम ! किमत्र नृपमन्दिरे / क्षणमात्रेण संजातमीदृशं महदद्भुतम् ? // 16 // किं वाऽन्यत्रापि जायेत, विरुद्धमिदमीदृशम् ? / विमर्शेनोदितं नात्र, भवचक्रेऽतिदुर्लभम् // 17 // एतद्धि नगरं भद्र ! परस्परविरोधिभिः / अमुक्तमीदृशैः प्रायो, विविधैः संविधानकैः // 18 // यावच्च मुक्तफूत्कार, दारुणाक्रन्दभीषणम् / पताकाजालबीभत्सं, विषमाहतडिण्डिमम् // 19 // उद्वेगहेतुस्ते भद्र !, नितरां जनतापकम् / इदं हि मृतकं रौद्रं, न निर्गच्छति मन्दिरात् // 20 // तावदन्यत्र गच्छावो, न युक्तं द्रष्टुमीदृशम् / परदुःखं कृपावन्तः, सन्तो नोद्वीक्षितुं क्षमाः // 21 // त्रिभिर्विशेषकम् / एवं भवतु तेनोक्ते, निर्गतौ राजमन्दिरात् / संप्राप्तौ हट्टमार्गेषु, ततः स्वस्रीयमातुलौ // 22 // अत्रान्तरे कृतम्लानिर्विज्ञाय रिपुकम्पनम् / मृतं समुद्रस्नानार्थ, पश्चिमे याति भास्करः // 23 // अथादित्ये तिरोभते. तिमिरेण मलीमसे। जगत्यशेषे संजाते. बोधिते दीपमण्डले // 24 // गोधनेषु निवृत्तेषु, विलीनेषु शकुन्तिषु / वेतालेषु करालेषु, कौशिकेषु विचारिषु // 25 // मूकीभूतेषु काकेषु, निद्रिते नलिनीवने / निनावश्यकलग्नेषु मुनिषु ब्रह्मचारिषु // 26 // रटत्सु चक्रवाकेषु, रहितेषु स्वकान्तया / उल्लसत्सु भुजङ्गेषु, संतोषे कामिनीजने // 27 // इत्थं प्रदोषे संपन्ने, प्रहृष्टजनमानसे / कश्चिनिजापणद्वारे, दृष्टस्ताभ्यां महेश्वरः // 28 // उत्तुङ्गविष्टरे रम्ये, निविष्टः किल लीलया / विनीतैर्बहुभिर्दक्षैर्वणिकपुत्रैविवेष्टितः // 29 // वजेन्द्रनीलवैडूर्यपद्मरागादिराशिभिः / पुरतः स्थापितैस्तुङ्गै शिताशेषतामसः // 30 // . विकटैर्हाटकस्तोमै, राजतैश्च पुरःस्थितैः / दीनारादिमहाकूटर्गवितोऽग्रे विवर्तिभिः // 31 // प्रकर्षेणोदितं माम ! किमित्येष महेश्वरः / उन्नामितैकभूर्मन्दं, वीक्षते मन्थरेक्षणः ? // 32 // अर्थिनां वचनं किं वा, सादरं बहुभाषितम् / एष बाधिर्यहीनोऽपि, नाकर्णयति लीलया // 33 // कृतप्राञ्जलयो नम्रा, य एते चाटुकारिणः / एतान्नो वीक्षते कस्मात्तृणतुल्यांश्च मन्यते ? // 34 // दृष्ट्वा दृष्ट्वा स रत्नानि, किञ्चिद्धयात्वा मुहुर्मुहुः / स्तब्धाङ्गः स्मेरवदनः, किं भवत्येव वाणिजः // 35 // ____ विमर्शेनाभिहितं-भद्राकर्णय, अस्ति तस्यैव मिथ्याभिमानस्य स्वाङ्गभूतो धनगर्यो नाम वयस्यः, तेनाधिष्ठिऽतोयं वराकः तेनाधिष्ठितानामीदृशमेव स्वरूपं भवति / अयं हि मन्यते-ममेदं रत्नकनकादिकं धनं, अहमस्य स्वामी, ततः कृतकृत्योऽहं, संपन्नं जन्मनः फलं, मत्तो वराकं भुवनम् / ततश्चेत्यं विकारबाहुलः परिप्लवते, न लक्षयति धनस्वरूपं, न चिन्तयति परिणाम, नालोचयत्यायति, न विचारयति तत्त्वं, न गणयति क्षणनश्वरतामिति / प्रकर्षः प्राह-माम ! योऽसौ रागकेसरिडिम्भरूपाणां मध्ये दृष्टो मया पश्चमो डिम्भः सोऽस्य निकटवर्ती दृश्यते / विमर्शेनोक्तं सत्यमेतत्स एवायम् / अत्रान्तरे समायातः कश्चिद्भुजङ्गो, निविष्टो महेश्वरसमीपे, याचितोऽनेनोत्सारकं महेश्वरः, दत्तोऽनेन / ततो रहसि स्थितस्य प्रकाशितदिक्चक्रवालं बहुविधानधैयरत्नघटितं दर्शितं तेन भुजङ्गेन तस्य महेश्वरवाणिजकस्य मुकुटं, प्रत्यभिज्ञातश्चानेन भुजङ्गो यथैव हेमपुराधिपतेविभीषणनृपतेः पदातिर्दुष्टशीलश्च, ततो नूनं हृतमनेनेदं भविष्यति / अत्रान्तरे प्रविष्टोऽसौ रागकेसरितनयो वाणिजकशरीरे, ततस्तत्प्रतापाञ्चिन्तितमनेन-भवतु नाम हृतं, तथापि ग्रहीतव्यमेवेदं