________________ 236 प्रकर्षः प्राह यद्येवं, ततो योऽस्य वशं गतः। स एष नृपतिर्माम ! कीदृशो रिपुकम्पनः ? // 26 // विमर्शेनोदितं वत्स !, न भावरिपुकम्पनः / किंतु-बहिर्वैरिषु शूरोऽयं, तेनेत्थमभिधीयते // 27 // इह च-यो बहिः कोटिकोटीनामरीणां जयनक्षमः / प्रभविष्णुर्विना ज्ञानं, सोऽपि नान्तरवैरिणाम् // 28 // तन्नास्य वत्स ! दोषोऽयं, नाप्येषां शेषदेहिनाम् / यतोऽत्र परमार्थेन, ज्ञानाभावोऽपराध्यति // 29 // यस्मादज्ञानकामान्धाः, किञ्चिदासाद्य कारणम् / यान्ति मिथ्याभिमानस्य, ध्रुवमस्य वशं नराः॥३०॥ तेनाभिभूतचित्तास्ते, बाला इव जनैः सह / विडम्बयन्ति चात्मानं, यथैष रिपुकम्पनः // 31 // ज्ञानावदातबुद्धीनां, पुत्रे राज्ये धनेऽपि वा / लोकाश्चर्यकरे जाते, महत्यप्यस्य कारणे // 32 // चित्ते न लभते ढोकं, धन्यानामान्तरो रिपुः / वत्स ! मिथ्याभिमानोऽयं, ते हि मध्यस्थबुद्धयः // 33 // युग्मम् / शोकमहिमा यावच्च कथयत्येवं, विमर्शस्तत्र कारणम् / तावद्राजकुलद्वारे, नरौ द्वौ समुपागतौ // 34 // प्रकर्षणोदितं माम ! दृश्यते काविमौ नरौ / स प्राह मतिमोहेन, युक्तः शोकोऽयमागतः // 35 // अत्रान्तरे सूतिकागृहे समुल्लसितः करुणाकोलाहलोन्मिश्रः पूत्काररावः, प्रधावन्ति स्म महाहाहारवं कुर्वाणा नरपतेरभिमुखं दासचेटयः प्रशान्तमानन्दगुन्दलं, किमेतदिति पुनः पुनः पृच्छन् कातरीभूतो राजा / ताभिरभिहितं-त्रायस्व देव ! त्रायस्व, कुमारो भग्नलोचनो जातः कण्ठगतप्राणैस्ततो धावत धावत / ततो वजाहत इव संजातो राजा, तथापि सत्त्वमवलम्ब्य सपरिकरो गतः सूतिकागृहे, दृष्टः स्वप्रभोद्भासितभवनभित्तिभागः संपूर्णलक्षणधरः किश्चिच्छेषजीवितव्यो दारकः, समाहूतं वैद्यमण्डलं, पृष्टो वैद्याधिपतिः किमेतदिति / स प्राह--देव ! समापतितोऽस्य कुमारस्य सद्योघाती बलवानातङ्कः, स च प्रचण्डपवन इव प्रदीपमेनमुपसंहरति( )लग्नः पश्यतामेवास्माकं मन्दभाग्यानाम् / नृपतिराह-भो भो लोकाः शीघ्रमुपक्रमध्वं यथाशक्त्या, कुमारं यो जीवयति तस्मै राज्यं प्रयच्छामि, स्वयं च पदातिभावं प्रतिपद्येऽहम् / तदाकर्ण्य सर्वादरेण लोकैः प्रयुक्तानि भेषजानि, वाहिता मन्त्राः, निबद्धानि कण्डकानि, लिखिता रक्षाः, कृतानि भूतिकर्माणि, नियोजिता विद्या, वर्तितानि मण्डलानि, संस्मृता देवता, विन्यासितानि तन्त्राणि / तथा कुर्वतामपि च गतः पञ्चत्वमसौ दारकः / अत्रान्तरे कामरूपितया शोकमतिमोहाभ्यां सपरिकरयोर्मतिकलितारिपुकम्पनयोः कृतः शरीरानुप्रवेशः / ततश्च-हा हताऽस्मि निराशाऽस्मि, मुषिताऽस्मीति भाषिणी / त्रायस्व देव ! देवेति, वदन्ती नष्टचेतना // 1 // क्षणाग्निपतिता भूमौ, मृतं वीक्ष्य कुमारकम् / सा देवी वज्रसङ्घातताडितेवातिविहला // 2 // हा पुत्र ! जात जातेति, ब्रुवाणो मूर्छया यथा / राजापि पतितो भूमौ, मुक्तः प्राणैस्तथैव सः॥३॥ ततो हाहारवो घोरो, महाक्रन्दश्च भैरवः / जनोरस्ताडशब्दश्च, क्षणेन समजायत // 4 // अथ मुक्तविलोलकेशकं, दलितविभूषणभग्नशङ्खकम् / रिपुकम्पनयोषितां शतैर्वृहदाक्रन्दनकं प्रवर्तितम् // 5 // लालाविलवक्त्रकोटरं, लुठितं भूमितले सुदीनकम् / उल्लश्चितकेशपाशकं, बृहदाराटिविमोचतत्परम् // 6 // हाहा हाहेति सर्वतः, करुणध्वानपरायणं जनम् / अथ वीक्ष्य स विस्मितेक्षणो, बुद्धेः सूनुरुवाच मातुलम् // 7 // यदुत-किमेतैःक्षणमात्रेण, हित्वा तत्पूर्वनर्तनम / प्रकारान्तरतो लोकैः, प्रारब्धं नर्तनान्तरम // 8 // विमर्शेनोदितं वत्स !, यौ तौ दृष्टौ त्वया नरौ / ताभ्यां निजप्रभावेण, प्रविश्येदं प्रवर्तितम् // 9 // निवेदितं मया तुभ्यं, यथैते नैव मुत्कलाः / कुर्वन्त्यत्र पुरे लोकाः स्वतन्त्राः कर्म किश्चन // 10 // किं तर्हि ?-यथा यथा स्ववीर्येण, कारयन्ति शुभेतरम् / अन्तरङ्गजनाः कर्म, कुर्वन्त्येते तथा तथा // 11 // ततो मिथ्याभिमानेन, तादृशं नाटिताः पुरा / एताभ्यां पुनरीदृक्षं, किं कुर्वन्तु वराककाः ? // 12 //