________________ 238 घनिचेष्टा मया / ततोऽभिहितोऽनेन भुजङ्गः-भद्र ! किं ते क्रियतां ? भुजङ्गेनोक्तं--अस्योचितं मूल्यं दत्त्वा गृह्यतामिदं भवतेति / तुष्टो वाणिजकः, तोषितो मूल्येन भुजङ्गः, पलायितो वेगेन, गते च तस्मिंस्तत्पदानुसारेण समागतं बिभीषणराजबलं, लब्धा कुतश्चिद्विक्रयवार्ता, प्रातः सलोत्रो वाणिजकः गृहीतः पुरत एव लोकस्य / ततश्च क्षणमात्रेण लुप्तास्ते सरत्नराशयः / बद्धोऽसावारटन्नुच्चै, राजकेन महेश्वरः // 1 // इतस्ततो भयोभ्रान्ता, वणिकपुत्राः सकिङ्कराः / सर्वेऽपि बान्धवैः सार्ध, नष्टास्ते पाचवर्तिनः॥२॥ ततो विलुप्तसर्वस्वः, स्वजनैः परिवर्जितः / आबद्धो लोप्नकः कण्ठे, महारासभरोपितः // 3 // भूत्या विलिप्तसर्वाङ्गस्तस्कराकारधारकः / स राजापथ्यकारीति, निन्द्यमानः पृथग्जनैः // 4 // महाकलकलवानसंपूरितदिगन्तरैः / नीयमानो नृपेणोक्तैः, पुरुषैः कृतताडनैः // 5 // विद्राणवदनो दीनः, सर्वाशानाशविह्वलः / तस्मिन्नेव क्षणे दृष्टः, स ताभ्यामिभ्यवाणिजः // 6 // प्रकर्षेणोदितं माम ! किमिदं दृष्टमद्भुतम् ? किमिन्द्रजालं किं स्वमः, किं वा मे मतिविभ्रमः ? // 7 // यदस्य क्षणमात्रेण, न सा लीला न तद्धनम् / न ते लोका न तत्तेजो, न गर्यो न च पौरुषम् // 8 // विमर्शेनोदितं वत्स ! सत्यमेतन्न विभ्रमः / अत एव न कुर्वन्ति, धनगर्व महाधियः // 9 // धनं हि धर्मसंतप्तविहङ्गगलचञ्चलम् / ग्रीष्मोष्माक्रान्तशार्दूलजिह्वातरलमीरितम् // 10 // इन्द्रजालमिवानेकदर्शिताद्भुतविभ्रमम् / क्षणदृष्टविनष्टं च, नीरबुद्रुदसग्निभम् // 11 // युग्मम् / अस्य वाणिजकस्येदं, तात ! दुर्नयदोषतः / नष्टं महापदस्थानं, यातं च विविधं धनम् // 12 // .. इहान्येषां पुनर्भद्र !, दोषसंश्लेषवर्जिनाम् / अपि नश्येदिदं रिक्थं, भवेच्च भयकारणम् // 13 // तथाहि-येऽपि फूत्कृत्य फूत्कृत्य, पादं मुञ्चन्ति भूतले / तेषामपि क्षणार्धेन, नश्यतीदं न संशयः // 14 // प्राप्नुवन्ति च दुःखानि, धनिनो धनदोषतः / जलज्वलनलुण्टाकराजदायादतस्करैः // 15 // अन्यच्चेदं धनं वत्स ! मेघलाजमिवातुलम् / हतं प्रचण्डवातेन, यदा याति कथञ्चन // 16 // __ तदा नालोकयति रूपं न विगणयति परिचयं न निरूपयति कुलीनतां नानुवर्तयति कुलक्रम, नाकलयति शीलं नापेक्षते पाण्डित्यं, नालोचयति सौन्दर्य, नावरुध्यते धर्मपरतां, नाद्रियते दानव्यसनितां न विचारयति विशेषज्ञतां न लक्षयति सदाचारपरायणतां, न परिपालयति चिरस्नेहभावं, नोररीकरोति सत्त्वसारतां न प्रमाणयति शरीरलक्षणम् / किं तर्हि ?-गन्धर्बनगराकार, पश्तामेव देहिनाम् / तद्धनं क्षणमात्रेण, कापि न ज्ञायते गतम्॥१॥ अर्जितं बहुभिः क्लेशैः, पालितं जीवितं यथा। नष्टं तु यादृङ् नृत्यत्सु, नटेष्वपि तदीक्षितम् // 2 // तथाप्यमी महामोहनिहताः क्षुद्रजन्तवः / ईदृशेऽपि धने भद्र ! चिन्ताबद्धं(न्धं) वितन्वते // 3 // अलीकधनगण, विह्वलीभूतमानसाः / विकारकोटीः कुर्वन्ति, यथैवैष महेश्वरः // 4 // तदीदृशो धनस्येह, पर्यन्तस्तात ! जन्मनि / परलोके पुन?रा, धनादुःखपरम्परा // 5 // प्रकर्षणोदितं माम !, येन स्यानिश्चलं धनम् / तथा शुद्धविपाकं च, स्यात् कल्याणनिबन्धनम् // 6 // तत्तादृशं जगत्यत्र, किमस्ति बत कारणम् / किं वा न संभवत्येव, तदिदं मे निवेदय // 7 // विमर्शनोदितं तात ! संभवत्येव तादृशम् / कारणं विरलानां भोः, केवलं तेन मीलकः // 8 // करोति वर्धनस्थैर्ये, अजातं जनयेद्धनम् / अत्यन्तदुर्लभं भद्र ! पुण्यं पुण्यानुबन्धि यत् // 9 // यच्च-दया भूतेषु वैराग्यं, विधिवद्गुरुपूजनम् / विशुद्धा शीलवृत्तिश्च, पुण्यं पुण्यानुबन्ध्यदः // 10 // अथवा-परोपतापविरतिः, परानुग्रह एव च / स्वचित्तदमनं चैव, पुण्यं पुण्यानुबन्ध्यदः // 11 //