________________ 233 तत्र विचलनाशङ्का ? अन्यच्च तत्समस्तभुवनव्यापकं महामोहराज्यमिदं पुनरत्रैव मानवावासपुरे मकरध्वजराज्यं, केवलं चिरन्तनस्थितिपालनव्यसनितया निजपदातैरपि स्वयमेव राज्येऽभिषिक्तस्य पुरतोऽस्य मकरध्वजस्य महामोहनरेन्द्रोऽयमेवं भृत्यभावमाचरति, तस्मादविचलमेव भद्र ! तन्महामोहास्थानं, तत्र वर्तमाना एवामी नूनमत्र दृश्यन्ते / प्रकर्षणोक्तं--नष्टो मे संशयोऽधुना / ___ अत्रान्तरे करिवरादवतीर्णः स लोलाक्षो राजा प्रविष्टश्चण्डिकायतने तर्पिता मद्येन चण्डिका विहितपूजः . समुपविष्टस्तस्या एव चण्डिकायाः पुरोवर्तिनि महति परिसरे मद्यपानार्थ, ततः सहैव तावता जनसमाजेन बद्धमापानकं, प्रकटितानि नानारत्नविसंघटितानि विविधमद्यभाजनानि, समर्पिताः समस्तजनानां कनकचषकनिकराः, प्रवर्तिता मधुधाराः, ततो विशेषतः पीयते प्रसन्ना, गीयते हिन्दोलकः, उपरि परिधीयते नवरङ्गकः, दीयते वादनेभ्यः, विधीयते नर्तनं, अभिनीयते करकिसलयेन, विधीयते प्रियतमाधरबिम्बचुम्बनं, अवदीर्यते रदनकोटिविलसितेन, उपचीयते मदिरामदनिर्भरता, प्रहीयते लज्जाशङ्कादिकं, निर्मीयते दयितावदनेषु दृष्टिः, विलीयते गाम्भीर्य, स्थीयते जनै लविजृम्भितेन, व्यवसीयते सर्वमकार्यमिति / ___ इतश्च लोलाक्षनृपतेः कनिष्ठो भ्राता रिपुकम्पनो नाम युवराजः, तेन मदपरवशतया कार्याकार्यमविचार्याभिहिता निजा महादेवी रतिललिता यदुत प्रियतमे ! नृत्य नृत्येति / ततः सा गुरुसमक्षमतिलजाभरालसापि ज्येष्ठवचनं लक्षयितुमशक्नुवती भर्तुरादेशेन नर्तितुं प्रवृत्ता / तां च नृत्यन्तीमवलोकयमानो मनोहरतया तल्लावण्यस्य विकारकारितया मधुमदस्याक्षिप्तचित्तस्ताडितोऽमवतपातिना शरनिकरेण स लोलाक्षो नृपतिर्मकरध्वजेन तां प्रति गाढमध्युपपन्नश्चेतसा न च शक्नोत्यध्यवसातुं स्थितः कियतीमपि वेलाम् / इतश्च भूरिमद्यपानेन मदनिर्भरं निश्चेष्टीभूतमापानकं प्रलुठिताः सर्वे. लोकाः, प्रवृत्ताश्च्छर्दयः, संजातमशुचिकर्दमपिच्छलं, निपतिता वायसाः, समागताः सारमेयाः, अवलीढानि जनवदनानि, प्रसुप्तो रिपुकम्पनः जागति रतिललिता / ____ अत्रान्तरे वशीकृतो महामोहेन, क्रोडीकृतो रागकेसरिणा, प्रेरितो विषयाभिलाषेण, अभिभूतो रतिसामर्थेन, निर्भिन्नो हृदयमर्मणि शरनिकरप्रहारैर्मकरध्वजेन, म्रियमाण इवात्मानमचेतयमानः प्रचलितो लोलाक्षो रतिललिताग्रहणार्थ वेगेन प्राप्तस्तत्समीपं प्रसारितौ बाहुदण्डौ, ततः किमेतदिति चिन्तितं रतिललितया, लक्षितं तदाकूतमनया, समुत्पन्नं साध्वसं, संजातं भयं, विगलितो मदिरामदः पलायितुं प्रवृत्ता गृहीता लोलाक्षेण, विमोचितोऽनयाऽऽत्मा, धावन्ती पुनर्गृहीता लोलाक्षेण, ततः पुनर्विमोच्यात्मानं प्रविष्टा तत्र चण्डिकायतने, स्थिता चण्डिकाप्रतिमायाः पृष्ठतो भयेन कम्पमाना / अत्रान्तरे द्वेषगजेन्द्रस्य संपन्नो राजादेशः, आविर्भूतोऽसौ, दृष्टः प्रकर्षण / स प्राह-माम ! स एष द्वेषगजेन्द्रः सहितो निजडिम्भरूपैः / विमर्शेनोक्तं वत्स ! संपन्नोऽस्य नियोगावसरः, केवलमस्य विलसितमधुना विलोकयतु वत्सः / प्रकर्षणोक्तं-एवं करोमि, ततः प्रतिपन्नं द्वेषगजेन्द्रेण राजशासन, अधिष्ठितो लोलाक्षः चिन्तितमनेन-मारयाम्येनां पापां रतिललितां या मां विहायेत्थं नष्टेति / गृहीतोऽनेन खङ्गः, प्रविष्टश्चण्डिकायतने मदिरामदान्धतया तबुद्धया विदारिताऽनेन चण्डिका, नष्टा रतिललिता, बहिनिर्गत्य तयाऽऽर्यपुत्रार्यपुत्र ! त्रायस्व त्रायस्वेति कृतो हाहारवः, विबुद्धो रिपुकम्पनः सहितो लोकेन / अभिहितमनेन-प्रियतमे ! कुतस्ते भयं ?, कथितमनया लोलाक्षचेष्टितं, ततोऽधिष्ठितः सोऽपि द्वेषगजेन्द्रेण, सस्पर्ध सतिरस्कारमाइतोऽनेन रणाय लोलाक्षः, प्रक्षुभिताः सुभटाः, समुत्थितानि शेषवनपानकानि, समुल्लसितः कलकलः, सन्नद्धं चतुङ्गवलं, प्रादुर्भूतं गुन्दलम् / ततश्चाविज्ञात