________________ 232 मामक तर्हि कथं तानेवंस्थितानपि भवान् साक्षात्कुरुते ? विमर्शेनोक्तं--अस्ति मे योगाजन विमलालोकं नाम, तद्भलेनेति / प्रकर्षणोक्तं--ममापि क्रियतां तस्याञ्जनस्य दानेनानुग्रहो येनाहमपि तानवलोकयामि / ततो विमर्शेनाग्जितं प्रकर्षस्य तेन योगाजनेन लोचनयुगलं, अभिहितश्चवत्स ! निरूपयेदानीं निजहृदयानि, निरूपितानि प्रकर्षेण / ततः सहर्षेणाभिहितमनेन-माम ! दृश्यते मयाप्यधुना कृतराज्याभिषेको महामोहादिपरिकरितो मकरध्वजः। तथाहि--एष सिंहासनस्थोऽपि, जनमेनं धनुर्धरः / आकृष्याकृष्य निर्भिन्ते, आकर्णान्तं शिलीमुखैः // 1 // तैर्विद्धं विहलं दृष्ट्वा, ततो लोकं सराजकम् / प्रहारजर्जरं चेत्थं, विकारकरणाकुलम् // 2 // महाकहकहध्वानः, सह रत्या प्रमोदितः / हस्ते तालान्विधायोच्चैर्हसत्येष नराधिपः // 3 // सुहृतं सुहृतं देव ! वदन्त इति किङ्कराः / मदामोहादयोऽप्यस्य, हसन्तीमे पुरः स्थिताः // 4 // तत्किमत्र बहना जल्पितेन ?-महाप्रसादो मे माम ! कृत एवातुलस्त्वया / यद्राज्यलीला भुञ्जानो दर्शितो मकरध्वजः // 5 // विमर्शेनोक्तं--वत्स ! कियदद्यापीदं ? बहुतरमत्र भवचक्रनगरे भवताऽन्यदपि द्रष्टव्यं, संभवन्त्यत्र भूरिप्रकाराणि प्रेक्षणकानि / प्रकर्षः प्राह-माम ! त्वयि सप्रसादे दर्शके किं वा मम दर्शनकुतूहलं न परिपूर्येत ? केवल मकरध्वजस्य समीपे महामोहरागकेसरिविषयाभिलाषहासादयः सपत्नीकाः समुपलभ्यन्ते / अधुना मया ते तु द्वेषगजेन्द्रारतिशोकादयो नोपलभ्यन्ते तत् किमत्र कारणं ? किं नागतास्तेऽत्र मकरध्वजराज्ये ? विमर्शेनोक्तं-वत्स / समागता एव तेऽत्र भवचक्रनगरे न संदेहो विधेयः किंतु निवेदितमेव मया यथाऽऽविर्भावतिरोभावधर्मकाः खल्वेतेऽन्तरङ्गलोकाः, ततस्ते द्वेषगजेन्द्रशोकादयोऽत्रैव तिरोभूतास्तिष्ठन्ति, राज्ञः सेवावसरमपेक्षन्ते / एते तु महामोहादयो लब्धावसरतया राज्ञः सभायामाविर्भूताः स्वनियोगमनुशीलयन्ति, किं तु प्रचण्डशासनः स्वल्वेष मकरध्वजनरेन्द्रः ततोऽस्य राज्ये यस्य यावाग्नियोगस्तेन तावाननुष्ठेयः, यस्य यावन्माहात्म्यं तेन तावदर्शनीयं, यस्य यावद्यदाभाव्यं तेन तावत्तदेव ग्राह्यं नाधिकमूनं वा, तथाहि--यदयं लोलाक्षो राजा सहाशेषराजवृन्देन निखिललोकाश्च जिता अप्यनेन मकरध्वजेन न जानन्ति, सपरिकरमेनं बन्धुभूतं मन्यन्ते, तदिदं महामोहेन विहितमयमेवास्य नियोगोऽत्रैव माहात्म्यमिदमेवास्याभाव्यमिति / यत्पुनरेते लोकाः प्रीतिमुद्वहन्तो वल्गन्ते कृतकृत्यमात्मानमवगच्छन्ति तदिदं रागकेसरिणा जनितं, अस्यैव च नियोगमाहात्म्याभाव्यगोचरभूतम् / यत्पुनरेते लुभ्यन्ति शब्दादिषु कुर्वन्ति विकारशतानि तदिदं विषयाभिलाषस्य विजृम्भितं नियोगादिकं च / यत्पुनरट्टाट्टहासैहसन्ति / दर्शयन्ति विब्बोकान् इदं हास्यस्य विलसितं, एवं तत्पत्नीनामपि यथार्ह शेषाणामपि नरपतीनां च डिम्भरूपाणां च नियोगमाहात्म्याभाव्यग्रहणव्यापाराः प्रतिनियता एव द्रष्टव्याः। यत्पुनरमी जनाः शब्दादिकं भोगजातमुपभुञ्जते, सहर्षमनुकूलयन्ति कलत्राणि, चुम्बन्ति तेषां वाणि, समाश्लिष्यन्ति गात्राणि, सेवन्ते मैथुनानि, तत्रैवमादिके कर्मणि नैष मकरध्वजराजोऽन्यस्य नियोगं ददाति, किं तर्हि ? रत्या सह स्वयमेव कुरुते, यतोऽस्यैव तत्र कर्मणि सामर्थ्य नान्यस्येति / तदेवं वत्स ! विद्यन्ते तत्र द्वेषगजेन्द्रशोकादयः, केवलं स्वकीयं नियोगावसरं प्रतीक्षन्ते, तेन नाविर्भवन्ति / प्रकर्षणोक्तं--यद्येवं ततः किं शून्यीभूतोऽधुना चित्तवृत्तौ स महामोहास्थानमण्डपः ? विमर्शेनोक्तं--नैतदेवं, निवेदितमेव तुभ्यं, कामरूपिणः खल्वमी अन्तरङ्गजनाः, ततः समागताः सर्वेऽप्यत्र मकरध्वजराज्ये तथापि तन्महामोहास्थानं तदवस्थमेवास्ते, इदं हि कतिचिदिनभावि मुहूर्तसुन्दरं मकरध्वजराज्यं, तत्तु महामोहराज्यमाकालप्रतिष्टमनन्तकल्पविमर्दसुन्दरं अतः का