________________ 231 प्राये शिशिरे गतोऽयमासीत् तन्मूले, स्थितस्तेन सह सुखासिकया / अयं च वसन्तः कर्मपरिणाममहादेव्याः कालपरिणतेरनुचरः, ततस्तस्मै मकरध्वजाय प्रियसुहृदे निवेदितमनेन वसन्तेनात्मगुह्यं यदुरा स्वामिनीनिर्देशेन गन्तव्यमधुना मया भवचक्रनगरमध्यवर्तिनि मानवावासाभिधानेऽवान्तरपुरे, तेनाहं चिरविरहकातरतया भवतो दर्शनार्थमिहागत इति / ततः सह र्षण मकरध्वजेनोक्तं--सखे ! वसन्त ! किं विस्मृतं भवतोऽतीतसंवत्सरे यन्मया भवता च तत्र पुरे विलसितं येनैवं भाविविरहवेदनाविधुरचित्ततया खिद्यसे, तथाहि--यदा यदा भवतस्तत्र पुरे गमनाय स्वामिनीनिर्देशोऽभवत् तदा तदा मह्यमप्येष महामोहनरेन्द्रस्तत्रैव पुरे राज्यं वितरति स्म, तत्किमितीयमकारणे भवतो मया सह वियोगाशङ्का ? वसन्तेनोक्तं--वयस्य ! प्रत्युज्जीवितोऽहमधुनाऽनेन कमनीयवचनेन, इतरथा विस्मृत एवासीन्नूनं ममैष व्यतिकरः। तथाहि--प्राप्तचिन्तानांपन्नकार्याणां, सुहृद्विरहचिन्तया / विस्मरत्येव हस्तेऽपि गृहीतं निखिलं नृणाम् // 1 // तत्सुन्दरमेवेदं, गच्छाम्यहमधुना भवद्भिस्तूर्णमागन्तव्यम् मकरध्वजेनोक्तं-विजयस्ते, ततः समागतोऽत्र पुरे वसन्तः, दर्शितं काननादिषु निजविलसितं, मकरध्वजेनापि विज्ञापितो विषयाभिलापो, यथा-पाल्यतां ममानुग्रहेण सा चिरन्तनी सम्भावना, चित्तस्थ एव भवतामेष वसन्तवृत्तान्तः, ततो निवेदितं विषयाभिलाषेण रागकेसरिणे तदवस्थमेव तन्मकरध्वजवचनं, तेनापि कथितं महामोहराजाय / ततश्चिन्तितमनेन--अये कृतपूर्व एवास्य वसन्तगमनावसरे प्रतिसंवत्सरं मया मकरध्वजस्य मानवावासपुरे राज्यप्रसादः, तदधुनाऽपि दीयतामस्मै मकरध्वजाय राज्य यतो न लङ्घनीया कदाचिदप्युचितस्थितिरस्मादृशैः प्रभुभिः, पालनीया भृत्याश्चिरन्तनसम्भावनया / ततश्चैवमवधार्य महामोहरानामन्त्रितास्ते सर्वेऽपि निजास्थनस्थायिनो महीपाला यदुत--भो भोः समाकर्णयत यूयं--दातव्यं मया भवचक्रनगरान्तर्भूते मानवावासपुरे मकरध्वजाय राज्यं, तत्र युष्माभिः समस्तैः सन्निहितैर्भाव्यम् / अङ्गीकर्तव्योऽस्य पदातिभावो, विधातव्यो राज्याभिषेको भवितव्यमाज्ञानि देशकारिभिरनुशीलनीयानि यथार्ह राज्यकार्याणि सर्वथा कर्तव्यमक्षुण्ण समस्तस्थानेषु, मयाऽपि प्रतिपत्तव्यमस्य राज्ये स्वयमेव महत्तमत्वं, तस्मात्सजीभवत यूयं, गच्छामस्तत्रैव पुरे / ततस्तैभूपतिभिरवनितलविन्यस्तहस्तमस्तकैः समस्तैरभिहितं--यदाज्ञापयति देवः / ततोऽभिहितो महामोहराजेन मकरध्वजः यथा--भद्र ! भवताऽपि राज्ये स्थितेन तत्र पुरे न हरणीयमेतेषां नरपतीनां निजं निज यत्किमपि यथार्हमाभाव्यं, द्रष्टव्या सर्वेऽप्यमी पुरातनसम्भावनया / मकरध्वजेनोक्तं--यदादिशति मोहराजः। ततः समागतास्ते सर्वेऽप्यत्र नगरे, अभिषिक्तो मानवावासपुरे राज्ये मकरध्वजः, प्रतिपन्नः शेषेर्यथाई तन्नियोगः / इतश्च योऽयं गजस्कन्धारूढो दृश्यत एष मानवावासत्तिनि ललितपुरे लोलाक्षो नाम बहिरङ्गो राजा। ततस्तेन मकरध्वजेन ससैन्यपौरजनपद स्वमाहात्म्येन निर्जित्य निःसारितोऽयमित्थं बहिःकाननेषु, न चायमात्मानं तेन निर्जितं वराको लक्षयति, नाप्येते लोकास्तेनाभिभूतमात्मानमवबुध्यन्ते, ततो भद्रानेन व्यतिकरण तस्य मकरध्वजस्य महामोहादिपरिकरितस्य प्रतापादेते 'लोकाः खल्वेवं विचेष्टन्त इति / प्रकर्षणोक्तंसोऽघुना कुत्र मकरध्वजो वर्तते ? विमर्शः प्राह-नन्वेष सन्निहित एव सपरिकरः, सोऽमूने विनाटयति / प्रकर्षः प्राह--माम ! तर्हि स कस्मान्नोपलभ्यते / विमर्शेनोक्तं--ननु निवेदितमेव मया भवतः पूर्व जानन्त्येतेऽन्तरङ्गलोकाः कर्तुमन्तर्धानं, समाचरन्ति परपुरुषप्रवेशं, ' ततोऽमीषां जनानां शरीरेष्वनुप्रविष्टा निजविजयहृष्टास्ते भद्र ! प्रेक्षणकमिदं प्रेक्षन्ते / प्रकर्षः प्राह