________________ लोलाक्ष नृपागमः वसन्तकाले नगरस्यास्य सौन्दर्यसारमुपलभ्यते, तदेते विलोकिता भद्र ! भवता तावद्धहिनाभोगाः, साम्प्रतं प्रविशावो नगरं विलोकयावस्तदीयश्रियं येन तव कौतुकमनोरथः परिपूर्णों भवति / प्रकर्षेणोक्तं-अतिदर्शनीयमिदं बहिर्लोकविलसितं रमणीयतरोऽयं प्रदेशः, पथि श्रान्तश्चाहं अतः प्रसाद करोतु मे मामः, तिष्ठतु तावदत्रैव क्षणमेकं स्तोकवेलायां नगरे प्रवेक्ष्याव इति / विमर्शनाभिहितंएवं भवतु / ततो यावदेष जल्पस्तयोः संपद्यते तावत् किं संवृत्तम्रथघणघणरावगर्जितः, करिसङ्घातमहाभ्रविभ्रमः / निशितास्त्रवितानवैद्युतश्चलशुक्लाश्वमहाबलाहकः // 1 // निपतन्मदवारिसुन्दरः, प्रमदभरोद्धरलोकसेवितः / जनिताखिलसुन्दरीमनोबृहदुन्माथकरूपधारकः // 2 // मधुमासदिदृक्षया पुरादथ वरराजकपौरवेष्टितः / नृपतिनिरगात्समं बलैक्रतुरिव बन्धुधिया घनागमः॥३॥ स च वादितमर्दलैसद्वरकंसालकवेणुराजितै / कृतनृत्तविलासचारुभिर्न न भाति स्म सुचच्चरीशतैः॥४॥ ततो दृष्टस्ताभ्यां विमर्षप्रकर्षाभ्यां नगरानिर्गतो महासामन्तवृन्दपरिकरितो वरवारणस्कन्धारूढो विकसितोद्दण्डपुण्डरीकपरिमण्डलपाण्डुरेण महता छत्रण वारितातपो मघवानिवाधिष्ठितैरावतो विबुधसमूहमध्यगतश्च स नरेन्द्रः / विलोकितश्च तस्य पुरतो हृष्टः कलकलायमानो भूरिसितातपत्रफेनपिण्डः क्षुभित इव महासागरश्चलत्कदलिकासहस्रकरैः स्पर्द्धया त्रिभुवनमिवाधिक्षिपन्नतिभूरितयाऽसौ जनसमु-- दायः, प्राप्तचोद्यानपरिसरे राजा / ___ अत्रान्तरे विशेषतः समुल्लसिताश्चच्चर्यः, प्रहता मृदङ्गा, वादिता वेणवः, समुल्लसितानि कंसालकानि, रणरणायितानि मञ्जीरकाणि, प्रवर्धितस्तालारवो, विजृम्भितः पिङ्गकोलाहलः, प्रवृत्तो जयजयरवः, समर्गलीभूतो बन्दिवृन्दशब्दः, प्रवृत्ता गणिकागणाः, क्षुभितः प्रेक्षकजनः, संजाताः केलयः / ततस्ते लोकाः केचिन्नृत्यन्ति, केचिद्वल्गन्ति, केचिद्धावन्ति, केचित्कलकलायन्ते, केचित्कटाक्षयन्ति, केचिल्लुठन्ति, केचिदुपहसन्ति, केचिद्गायन्ति, केचिद्वादयन्ति, केचिदुल्लसन्ते, केचिदुत्कष्टिशब्दान् मुश्चन्ति, केचिद्वाहुमूलमास्फोटयन्ति, केचित्परस्परं मलयजकश्मीरजक्षोदरसेन कनकशृङ्गकैः सिञ्चन्ति / ततश्चैवं सति लसदुद्भटभूरिविलासकरे, मदनानलदीपितसर्वजने / अथ तादृशलोचनगोचरतां, किमचिन्ति गते तु महामतिना ? // 1 // इदं हि तदा मधुमासरसवशमत्तजनजनितं तत्तादृशं गुन्दलमवलोक्य विमर्शेन चिन्तितं यदत अहो महामोहसामर्थ्य, अहो रागकेसरिविलसितं, अहो विषयाभिलाषप्रतापः, अहो मकरध्वजमाहात्म्यं, अहो रतिविम्भितं, अहो हासमहाभटोल्लासः, अहो अमीषां लोकानामकार्यकरणधीरता, अहो प्रमत्तता, अहो स्रोतोगामिता, अहो अदीर्घदर्शिता, अहो विक्षिप्तचित्तता, अहो अनालोचकत्वं, अहो विपर्यासातिरेका, अहो अशुभभावनापरता, अहो भोगतृष्णादौालित्यं, अहो अविद्यापहृतचित्ततेति / ततः प्रकर्षों विस्फारिताक्षो निरीक्षमाणस्तल्लोकविलसितमभिहितो विमर्शेन-भद्र ! एते बहिरङ्गजना, यद्विषयो मया वर्णितस्तेषां महामोहादिमहीभुजां प्रतापः। प्रकर्षः प्राह-माम ! केन पुनर्वृत्तान्तेन कतमस्य वा अभजः प्रतापेन खल्वेते लोका एवं चेष्टन्ते ? विमर्शेनोक्तं-निरूप्य कथयामि / ततः प्रविश्य ध्यानं निश्चित्य परमार्थमभिहितमनेन–भद्र ! समाकर्णय, असौ चित्तवृत्तिमहाटव्यां प्रमत्ततानदीपुलिनवर्तिनि चित्तविक्षेपमहामण्डपे महामोहराजसम्बन्धिन्यां तृष्णावेदिकायां महाविष्टरे निविष्टो दृष्टस्त्वया मकरध्वजः / तस्यायं वसन्तः प्रियवयस्यको भवति, ततो लडित वसन्त मकरध्वज यीः सख्यं