________________ 234 व्यतिकरतया मदिरामदपरवशतया च परस्परमेव कातरनराः कातरनरैः, खरैः खरा, वेगसरैवेंगसरास्तुरगैस्तुरगा, वरकरभैवरकरभा, रथवरै रथवराः, कुञ्जरै : कुञ्जरास्तदपरैर्वरकुञ्जरैर्वरकुञ्जरा, नरवरप्रेरितैचूर्णयितुमारब्धाः, संजातमकाण्डे बहुजनमर्दनम् / ___इतश्च तथा रिपुकम्पनेनाहूतो लोलाक्षश्चलितस्तदभिमुखं द्वेषगजेन्द्राधिष्ठितः, मदिरामदान्धतया लग्नौ तौ करवालयुद्धेन, ततो गाढामनिपातितो रिपुकम्पनेन लोलाक्षः, संजातो महाविप्लवः / तमवलोक्य प्रविष्टौ नगरे विमर्शप्रकर्षों, स्थितौ निराबाधस्थाने / विमर्शेनोक्तं--वत्स ! दृष्टं द्वेषगजेन्द्रमाहात्म्यम् ? स प्राह-मुष्ठु दृष्टं माम ! तावतां विलासानामीदृशं पर्यवसानम् / विमर्शनोक्तं-भद्र ! मद्यपायिनामेवंविधमेव पर्यवसानं भवति / मदिरामत्ता हि प्राणिनः कुर्वन्त्यगम्यगमनानि, न लक्षयन्ति पुरःस्थितं, मारयन्ति प्रियबान्धवान् , जनयन्त्यकाण्ड विश्वरं, समाचरन्ति समस्तपातकानि, भवन्ति सर्वजगत्सन्तापकाः, निपात्यन्ते निष्प्रयोजनं मृत्वा च गच्छन्ति दुर्गतौ किमत्राश्चर्यमिति / किं च-मद्ये च पारदार्ये च, ये रताः क्षुद्रजन्तवः / तेषामेवंविधानर्थान् , वत्स ! कः प्रष्टुमर्हति // 1 // मद्यं हि निन्दितं सद्भिर्मा कलहकारणम् / मद्यं सर्वापदां मूलं, मद्यं पापशताकुलम् // 2 // न त्यजेद्यसनं मद्ये, पारदार्ये च यो नरः / यथाऽयं वत्स ! लोलाक्षस्तथाऽसौ लभते क्षयम् // 3 // मद्यं च पारदार्य च, यः पुमांस्तात ! मुश्चति / स पण्डितः स पुण्यात्मा, स धन्यः स कृतार्थकः॥४॥ प्रकर्षणोक्तं--एवमेतनास्त्यत्र संशयः, ततस्तयोस्तत्र नगरे विचरतोगतानि कतिचिद्दिनानि / अन्यदा मानवावासपुरे राजकुलासने दृष्टस्ताभ्यां पुरुषः / प्रकर्षणोक्तं-माम ! स एष मिथ्याभिमानो दृश्यते / विमर्शेनोक्तं सत्यं, स एवायम् / प्रकर्षः प्राह-ननु राजसचित्तनगरे किलाविचलोऽयं, तत् कथमिहागतः ? विमर्शेनोक्तं-एवं नाम मकरध्वजस्योपरि सप्रसादो महामोहराजो येनास्य राज्ये यदचलं निजबलं सबालं तदप्यानीतं, केवलं कामरूपितयाऽयं मिथ्याभिमानो मतिमोहश्च यद्यपीहानीतौ दृश्येते तथापि तयोरेव राजसचित्ततामसचित्तपुरयोः परमार्थतस्तिष्ठन्तौ वेदितव्यौ / प्रकर्षणोक्तंमाम ! कुत्र पुनरेषोऽधुना गन्तुं प्रवृत्तः ? विमर्शेनोक्तं-भद्राकर्णय, योऽसौ दृष्टस्त्वया रिपुकम्पनः स निहते लोलाक्षेऽधुना राज्येऽभिषिक्तः, तस्य चेदं भवनं, अतोऽयं मिथ्याभिमानः केनचित कारणेनेदं राजसदनं प्रवेष्टुकाम इव लक्ष्यते / प्रकर्षः प्राह--ममापीदं नरपतिनिकेतनं दर्शयतु मामः / विमर्शेनोक्तं-एवं करोमि, ततः प्रविष्टौ तौ तत्र नृपतिगेहे / इतश्च तस्य रिपुकम्पनभूपतेरस्ति द्वितीया मतिकलिता नाम महादेवी, सा च तस्मिन्नेव समये दारकं प्रसूता / अथ तत्र जातमात्रे राजसूनौ भास्करोदये विकसितमिव तामरसं व्यपगततिमिरनिकरमिव गगनतलं विनिद्रमिव सुन्दरजननयनयुगलं, भुवनमिव स्वधर्मकर्मव्यापारपरायणं तद्राजभवनं राजितुं प्रवृत्तं, कथं ? विरचिता मणिप्रदीपनिवहा विस्तारिता मङ्गलदर्पणमालाः, संपादितानि भूतिरक्षाविधानानि, निर्वतिता गौरसिद्धार्थकैर्नन्दावर्तशतपत्रलेखाः, निवेशिताः सितचामरधारिण्यो विलासिन्यः / ततः प्रचलिता वेगेनास्थानस्थायिनो भूपतेः सुतजन्ममहोत्सवं निवेदयितुं प्रियंवदिका / कथ ?-रभसोदामविसंस्थुलगमनं, गमनस्खलितसुनूपुरचरणम् / चरणजलत्तोत्तालितहृदयं, हृदयविकम्पस्फुरितनितम्बम् // 1 // रिपुकम्पनगृहे पुत्रजन्ममिथ्याभिमानः