________________ 220 किं बहुना ?-यावदेतानि गाहन्ते, चित्तवृत्तिमहाटवीम् / तावद्भद्र ! निवर्तन्ते, न ते पापादणोरपि // 442 // तत्त्वमार्ग प्रपद्येरनेतेषु विलसत्स्वपि / लभन्ते तद्बलात्सौख्यं, विरतिं तु न कुर्वते // 443 // ततस्तेचात्र संतप्ता, निपतन्ति परत्र च / विधाय पापसंघातं, संसारगहने जनाः // 444 // यान्येतानि पुनर्भद्र ! लघीयांसि ततोऽपि च / प्रत्याख्यावारकाणीह, बुधास्तानि प्रचक्षते // 445 // अमूनि किल वल्गन्ते, यावदत्रैव मण्डपे / बहिरङ्गजनाः सर्व, तावन्मुञ्चन्त्यघं न वै // 446 // किश्चिन्मानं तु मुश्चेयुः, पापं बाह्यजनाः किल / चित्तवृत्तिमहाटव्यामेतेषु विलसत्सु भोः // 447 // एतान्यपि स्वरूपेण, तस्मात्सन्तापकारणम् / बहिर्जनानां कल्याणे, विरतिस्तत्र कारणम् // 448 // एतेभ्योऽपि लघीयांसि, यान्येतानीह सुन्दर ! वर्तन्ते गर्भरूपाणि, चत्वारि तव गोचरे // 449 // तानि संज्वलनाख्यानि, गीतानि मुनिपुङ्गवैः / लीलया चटुलानीत्थमुल्लसन्ति मुहुर्मुहुः // 450 // एतानि सर्वपापेभ्यो, विरतानामपि देहिनाम् / इहोल्लसन्ति कुर्वन्ति, बाह्यानां चित्तविप्लवम् / / 451 // दृषयन्ति ततो भूयः, सर्वपापनिबर्हणम् / ते सातिचारा जायन्ते, वीर्येणैषां बहिर्जनाः // 452 / / न सुन्दराणि सर्जेषां, तदेतान्यपि देहिनाम् / लघुरूपाणि दृश्यन्ते, तात ! यद्यपि जन्तुभिः // 453 // चतुष्टयानि चत्वारि, तदेतानि विशेषतः / एतेषां नामभिर्भद्र ! गुणैश्च कथितानि ते // 454 // प्रत्येकं यानि नामानि, ये गुणाश्च विशेषतः। एतेषां तत्पुनभद्र ! को वा वर्णयितुं क्षमः ? // 455 // तस्मात्ते कथयिष्यामि, विश्रब्धः कुत्रचित्पुनः / प्रस्तावागतमेवेह, वीर्यमेषां विशेषतः // 456 // अन्यच्च-एतेषां गर्भरूपाणां, मध्येऽष्टौ परया मुदा / यान्येतानि प्रनृत्यन्ति, रागकेसरिणोऽग्रतः // 457 // तान्यस्मादेव जातानि, रागकेसरिणः किल अत्यन्तवल्लभान्यस्य, मूढतानन्दनानि च // 458 // युग्मम् यानि त्वेतानि चेष्टन्ते, क्रीडयाऽष्टौ मुहुर्मुहुः / पुरो द्वेषगजेन्द्रस्य, गर्भरूपाणि सुन्दर ! // 459 // अस्मादेव प्रसूतानि, प्रियाणि द्वेषभूपतेः / माताऽविवेकिताऽमीषां, सर्वेषां भद्र ! गीयते // 460 // युग्मम् एवं च स्थिते-महामोहनरेन्द्रस्य, यानि पौत्राणि सुन्दर ! / तत्पुत्रयोरपत्यानि, तात ! विख्यातवीर्ययोः // 461 // तेषाममीषां लोकेऽत्र, दौर्लालित्यविराजितम् / वीर्य सहस्रजिह्वोऽपि, को निवेदयितुं क्षमः ? // 462 // युग्मम् पश्य पश्यात एवैपामेतानि निजचेष्टितैः / शीर्षे सिद्धार्थकायन्ते, सर्वेषामेव भूभुजाम् // 463 // तदिदं ते समासेन, मया तात ! निवेदितम् / महामोहनरेन्द्रस्य स्वाङ्गभूतं कुटुम्बकम् // 464 // ये त्वमी वेदिकाऽभ्यर्णे, विवर्तन्ते महीभुजः / ते महामोहराजस्य, स्वाङ्गभूताः पदातयः // 465 // विषया तत्र च-य एप दृश्यते भद्र ! रागकेसरिणोऽग्रतः / आश्लिष्टललनो मृष्टं, ताम्बूलं स्वादयन्नलम् // 466 // भिलाषा रणद्विरेफरिन्छोलिसूचितोत्कटगन्धकम् / लीलाकमलमत्यर्थमाजिघ्रश्च मुहुर्मुहुः // 467 // स्वभार्याऽमलवक्त्राब्जे, कुर्वाणो दृष्टिविभ्रमम् / वल्लकीनूपुरारावकाकलीगीतलम्पटः // 468 // यश्चैवं विषयानेष, पश्चापि किल लीलया। भुञ्जानो मन्यते सर्वमात्मनो मुष्टिमध्यगम् // 469 // भद्र ! सोऽयमिहायाता, वयं यस्य दिदृक्षया। रागकेसरिणो मन्त्री, लोके विख्यातपौरुषः॥४७०॥पञ्चभिः कुलकम् अस्यैव तानि वर्तन्ते, पुत्रभाण्डानि सुन्दर ! यानि मिथ्याभिमानेन, कथितानि पुराऽऽवयोः॥४७१॥ तद्वशेन जगत्सर्व, वशीकृत्य महाबलः / भद्र ! नूनं करोत्येव, चेष्टया तुल्यमात्मनः // 472 // तथाहि-एतत्प्रयुक्तय दृष्टा, मानुषैर्भद्र ! देहिनः। ते स्पर्शरससद्गन्धरूपशब्देषु लालसाः // 473 // कार्याकार्य न पश्यन्ति, बुध्यन्ते नो हिताहितम् / भक्ष्याभक्ष्यं न जानन्ति, धर्माचारबहिष्कृताः॥४७४॥ तन्मात्रलब्धसौहार्दा, वर्तन्ते सार्वकालिकम् / नान्यत्किञ्चन वीक्षन्ते, यथाऽसौ वर्तते जडः॥४७५॥त्रिभिर्विशेषकम्।