________________ 221 दर्शनादेव निर्णीतो, बुद्धया च परिनिश्चितः। रसनाजनको भद्र !, स एवायं न संशयः // 476 / / रागकेसरिणो राज्यं तन्त्रयन्निखिलं सदा / परबुद्धिप्रयोगेण, नैवैष प्रतिहन्यते // 477 // पुरुषाः पण्डितास्तावद्धहिरङ्गा दृढव्रताः। यावदेष स्ववीर्येण, तानो क्षिपति कुत्रचित् // 478 // यदा पुनर्महाप्राज्ञस्तानेष सचिवः कचित् / आरभेत स्ववीर्येण, बहिरङ्गमनुष्यकान् // 479 // तदा ते निहरपाया, बालिशा इव किङ्कराः / व्रताग्रहं विमुच्यास्य, जायन्ते विगतत्रपाः // 480 // युग्मम् वर्धयत्येष साम्राज्यमेतेषामेव भूभुजाम् / बहिरङ्गजनस्यायममात्यो दुःखदः सदा // 481 // यतः-अस्यादेशेन कुर्वन्ति, पापं ते बाह्यमानुषाः। तच्च पापं कृतं तेषामिहामुत्र च दुःखदम् // 482 // निपुणो नीतिमार्गेषु, गाढं निर्व्याजपौरुषः / भेदकः परचित्तानामुपायकरणे पटुः // 483 // विदिताशेषवृत्तान्तः, सन्धिविग्रहकारकः / विकल्पबहुलो लोके, सचिवो नास्त्यमूदृशः।४८४। युग्मम् / किं चात्र बहुनोक्तेन ? तावदेते नरेश्वराः / यावदेष महामन्त्री, तन्त्रको राज्यसंहतेः // 485 // ततः स हर्ष प्रकर्षोऽब्रवीत्-साधु माम ! साधु सुन्दरं निर्णीतं मामेन, न तिलतुषत्रिभागमात्रयाऽपि चलतीदं, एवंविध एवायं विषयाभिलाषो महामन्त्री, नास्त्यत्र सन्देहः, तथाहिआकारदर्शनादेव, ते गुणा मम मानसे / आदावेव समारूढा, येऽस्य संवर्णितास्त्वया // 486 / / विमर्शः प्राह नाश्चर्य. लक्षयन्ति भवादृशाः / नराणां दृष्टमात्राणां, यदगुणागुणरूपताम् // 487 तथाहि-ज्ञायते रूपतोजातिर्जातेः शीलं शुभाशुभम् / शीलाद् गुणाः प्रकाशन्ते, गुणैः सत्त्वं महाधियाम् // 488 // न केवलं त्वयाऽस्यैव, दर्शनादेव लक्षिताः / गुणाः किं तर्हि ? सर्वेषां, नूनमेषां महीभुजाम् // 489 // बुद्धेर्जातस्य ते भद्र ! किं वा स्यादविनिश्चितम् ? / यत्तु मां प्रश्नयस्येवं, तात ! सा तेऽभिजातता // 490 // प्रकर्षः प्राह यद्येवं, ततो माम ! निवेद्यताम् / किंनामिकेयं भार्याऽस्य ? मन्त्रिणो मुग्धलोचना // 491 // विमर्शः प्राह भद्रेयं, भोगतृष्णाऽभिधीयते / गुणैस्तु तुल्या विज्ञेया, सर्वथाऽस्यैव मन्त्रिणः // 492 // ये त्वेते पुरतः केचित्पाव॑तः पृष्ठतोऽपरे / दृश्यन्ते भूभुजो भद्र ! मन्त्रिणोऽस्य नताननाः // 493 // दुष्टाभिसन्धिप्रमुखास्ते विज्ञेया महाभटाः। महामोहनरेन्द्रस्य, स्वागभूता पदातयः // 494 // युग्मम् अन्यच्च-महामोहनृपस्येष्टा, रागकेसररिणो मताः / भृत्या द्वेषगजेन्द्रस्य, सर्वेऽप्येते महीभुजः // 495 // अनेन मन्त्रिणाऽऽदिष्टा, राज्यकार्येषु सर्वदा / एते भद्र ! प्रवर्तन्ते, निवर्तन्ते च नान्यथा // 496 // ये केचिदबाह्यलोकानां, क्षुद्रोपद्रवकारिणः / अन्तरङ्गा महीपालास्तेऽमीषां मध्यवतिनः // 497 // नार्यों डिम्भाश्च ये केचिदन्येऽप्येवंविधा जने / अमीषां मध्यगाः सर्वे, द्रष्टव्यास्ते महीभुजाम् // 498 // तदेते परिमातीता, निवेद्यन्तां कथं मया ? / संक्षेपतः समाख्याताः, स्वाङ्गभूताः पदातयः // 499 // प्रकर्षः प्राह ये त्वेते, वेदिकाद्वारवर्तिनः / निविष्टा भूभुजः सप्त, माम ! मुत्कलमण्डपे // 500 // युक्ताः सत्परिवारेण, नानरूपविराजिनः। एते किनामका ज्ञेयाः ? किंगुणा वा महीभुजः ? // 501 // विमर्शः प्राह भट्टैते, सप्तापि वरभूभुजः। महामोहनृपस्यैव, बहिर्भूताः पदातयः // 502 // तत्र च-य एष दृश्यते भद्र ! संयुक्तः पञ्चभिनेरैः / ज्ञानसंवरणो नाम, प्रसिद्धः स महीपतिः // 503 // अत्रैव वर्तमानोऽयं, बहिःस्थं सकलं जनम् / करोत्यन्धं स्ववीर्येण, ज्ञानोद्योतविवर्जितम् // 504 // किं च-सान्द्राज्ञानान्धकारेण, यतो मोहयते जनम् / ततोऽयं शिष्टलोकेन, मोह इत्यपि कीर्तितः॥५०५ यस्त्वेष नवभिर्युक्तो, मानुषैः प्रविभाव्यते / दर्शनावरणो नाम, विख्यातः स महीतले // 506 // दृश्यन्ते पञ्च या नार्यस्ताः स्ववीर्येण सुन्दराः। करोत्येष जगत्सर्वः घूर्णमानगतिक्रियम् // 507 // ये त्वमी पुरुषा भद्र ! चत्वारोऽस्य पुरः स्थिताः। एतत्सामर्थ्ययोगेन, जगदन्धं करोत्ययम् // 508 // भोगतृष्णास्वरूपं शानावरणाधा