________________ 219 एष शोकः किलास्माकं, दुःखत्राणं करिष्यति / अयं तु वर्धयत्येव, तेषां दुःखं निषेवितः॥४०८ न साधयन्ति ते स्वार्थ, धर्माद् भ्रश्यन्ति मानवाः / प्राणैरपि वियुज्यन्ते, मूर्छासंमीलितेक्षणाः॥४०९ ताडनं शिरसोऽत्यर्थ, लुश्चनं कचसन्ततेः। कुट्टनं वक्षसो भूमौ, लोठनं गाढविक्लवम् // 410 // तथाऽऽत्मोल्लम्बनं रज्ज्वा, पतनं च जलाशये / दहनं वह्निना शैलशिखरादात्ममोचनम् // 411 // भक्षणं कालकूटादेः, शस्त्रेणात्मनिपातनम् / प्रलापनमुन्मादं च, वैक्लव्यं दैन्यभाषणम् // 412 अन्तस्तापं महाघोरं, शब्दादि मुखवञ्चनम् / लभन्ते पुरुषा भद्र, ये शोकवशवर्तिनः // 413 // इत्थं भूरितरं दुःखं, प्राप्नुवन्तीह ते भवे / कर्मबन्धं विधायोच्चैर्यान्त्यमुत्र च दुर्गतौ // 414 // तदेष बहिरङ्गानां, दुःखदो भद्र ! देहिनाम् / किचिल्लेशेन शोकस्ते, वर्णितः पुरतो मया // 415 // अस्यापि च शरीरस्था, भवस्था नाम दारुणा। विद्यते पत्निका वत्स ! शोकस्य गृहनायिका // 416 // साऽस्य संवधिका ज्ञेया, तां विना नैव जीवति / अत एव शरीरस्थां, धारयत्येष सर्वदा // 417 // या त्वेषा दृश्यते कृष्णा, भोः संकोचितनासिका / नारी सा सूरिभिर्भद्र ! जुगुप्सा परिकीर्तिता // 418 // इयं तु बहिरङ्गानां, लोकानां मनसोऽधिकम् / व्यलीकभावमाधत्ते, तत्त्वदर्शनवर्जिनाम् // 419 // कृमिजालोल्वणं देहं, पूयक्लिनं मलाविलम् / वस्तु दुर्गन्धि बीभत्सं, ते हि दृष्ट्वा कथंचन // 420 // कुर्वन्ति शिरसः कम्पं, नासिकाधननं जडाः / दूरतः प्रपलायन्ते, मीलयन्ति च लोचने // 421 // हुं हुं हुमिति जल्पन्ति, वक्रां कुर्वन्ति कन्धराम् / विशन्ति शौचवादेन, सचेलाः शीतले जले // 423 नासिकां कुश्चयन्त्युच्चैर्निष्ठीवन्ति मुहुर्मुहुः। आश्लेषे वर्मचेलादेः, क्रुद्धाः स्नान्ति पुनः पुनः॥४२३॥ छायामपि च नेच्छन्ति, परेषां स्पष्टुमात्मना। जायन्ते शौचवादेन, वेताला इव दुःखिताः॥४२४॥ चित्तशूकावशादेव, साक्षादुन्मत्तका अपि / केचिद्भद्र ! प्रजायन्ते, ये जुगुप्सावशं गताः // 425 // परलोके पुनर्यान्ति, तत्त्वदर्शनवर्जिताः / तमोऽभिभूतास्ते मूर्खा, घोरसंसारचारके // 426 // तदेवं बहिरङ्गानां, लोकानां बहुदुःखदा। किश्चित्तें वर्णिता भद्र !, जुगुप्साऽपि मयाऽधुना // 427 // प्रकर्षः प्राह दृश्यन्ते, यान्येतानि पुरो मया / निविष्टानि नरेन्द्राणामुत्सङ्गादिषु लीलया // 428 // गाढं दुर्दान्तचेष्टानि, चटुलानि विशेषतः / आरक्तकृष्णवर्णानि, डिम्भरूपाणि षोडश // 429 / / अमूनि नामभिर्माम ! गुणैश्च सुपरिस्फुटम् / अधुना वर्ण्यमानानि, श्रोतुमिच्छाम्यहं त्वया // 430 // विमर्शः प्राह सर्वेषामेतेषां सूरिभिः पुरा / सामान्यतः कषायाख्या, भद्र ! लोके प्रकाशिता // 431 // विशेषतः पुनर्भद्र ! यान्येतानीह वीक्षसे / महत्तमानि दुष्टानि, सर्वेषामग्रतस्तथा // 432 // चत्वारि गर्भरूपाणि, रौद्राकराणि भावतः / तान्यनन्तानुबन्धीनी, गीतानि किल संज्ञया // 433 // अमूनि च प्रकृत्यैव, मिथ्यादर्शननामकः / अयं महत्तमो भद्र ! स्वात्मभूतानि पश्यति // 434 // ततश्च बहिरङ्गानां, लोकानां निजवीर्यतः / एतान्यपि प्रकुर्वन्ति, मिथ्यादर्शनभक्तताम् // 435 // यतः-यावदेतानि जृम्भन्ते, डिम्भरूपाणि लीलया। चित्तवृत्तिमहाटव्यां, तावत्ते बाह्यमानुषाः // 436 // अनन्यचित्ताः सततमेनमेव महत्तमम् / लोकवाक्यनिराकाङ्क्षाः, सद्भक्त्या पर्युपासते // 437 // अत एव च-चित्तवृत्तिमहाटव्यामुल्लसत्स्वेषु ते जनाः / न तत्त्वमार्ग भावेन, प्रपद्यन्ते कदाचन // 438 // एवं स्थिते-ये दोषा वर्णिताः पूर्व, मिथ्यादर्शनसंश्रयाः। बहिर्जनानां सर्वेषां, तेषामेतानि कारणम् // 439 // एतेभ्यो लघुरूपाणि, यानि चत्वारि सुन्दर ! / अप्रत्याख्याननामानि, तानि गीतानि पण्डितैः // 440 // एतानि निजवीर्येण, बहिरङ्गमनुष्यकान् / प्रवर्तयन्ति पापेषु, वारयन्ति निवर्तनम् // 441 / / कषाय