________________ 201 तस्मात्तिष्ठ त्वमति, बजामो वयमेककाः। तयोक्तं त्वां विना नाथ !, नात्र मे नगरे धृतिः // 22 // तच्छुत्वा देवपादैः सा, पुनः प्रोक्ता वरानना / तथापि नैव युक्तं ते, स्कन्धावारे प्रवर्तनम् // 23 // किं तु-रौद्रचित्तपुरे गत्वा, देवि ! दुष्टाभिसन्धिना। रक्षिता तिष्ठ निश्चिन्ता, पदातिः स हि मेऽनघः // 24 // ततोऽविवेकिता प्राह-किमत्रास्माभिरुच्यताम् ? / यदार्यपुत्रो जानीते, तदेव करणक्षमम् // 25 // ततो विनिर्गतो देवो, महामोहादिभिः सह / रौद्रचित्तपुरे देवी, देवादेशेन सा गता // 26 // ततोऽपि बहिरङ्गेषु, पुरेषु किल वर्तते / किश्चित्कारणमाश्रित्य, साऽधुना युक्तकारिणी // 27 // जातश्चासीत्तदा पुत्रस्तथाऽन्योऽप्यधुना किल / निजभर्तुः समायोगादेतदाकर्णितं मया // 28 // तदेवं नास्ति सा देवी, यत्पुनर्मम कारणम् / नगरागमने भद्र ! तदाकर्णय साम्प्रतम् // 29 // अत्रान्तरे प्रज्ञाविशालयाऽभिहिताऽगृहीतसङ्केता-प्रियसखि ? यदनेन संसारिजीवेन नन्दिवर्धनवैश्वानरवक्तव्यतायां हिंसापरिणयनावसरे वैश्वानरमलशुद्धिं निवेदयता पूर्वमभिहितमासीत यदत यादृशं तत्तामसचित्तनगरं यादृशश्वासौ द्वेषगजेन्द्रो राजा यादृशी च साऽविवेकिता यच्च तस्यास्तस्मात्तामसचित्तनगराद्रौद्रचित्तपुरं प्रत्यागमनप्रयोजनमेतत् सर्वमुत्तरत्र कथयिष्याम इति / तदिदमधुना तेन संसारिजीवेन समस्तं निवेदितमिति / अगृहीतसङ्केतयाऽभिहितं-साधु प्रियसखि ! साधु सुन्दरं मम स्मारितं भवत्या, ततः प्रज्ञाविशालया संसारिजीवं प्रत्यभिहितं-भद्र ! यदा विचक्षणाचार्येण नरवाहननरेन्द्राय विमर्शप्रकर्षवक्तव्यतां कथयता तव रिपुदारणस्य सतस्तस्यामेव परिषदि निषण्णस्य समाकर्णयतो निवेदितमेवमविवेकितापूर्वचरितं तदा किं विज्ञातमासीद्भवता ? यदुत याऽसौ वैश्वानरस्य माताऽभून्नन्दिवर्धनकाले मम च धात्री सैवेयमविवेकिता साम्प्रतं शैलराजस्य जननी वर्तते मम च पुनर्धात्रीति ? किं वा न विज्ञातमिति ? संसारिजीवेनोक्त-भद्रे ! न किश्चित्तदा मया विज्ञातं, अज्ञानजनित पत्र मे समस्तोऽपि निवेदयिष्यमाणोऽनर्थपरम्पराप्रबन्धः, केवलं तदाऽहं चिन्तयामि यथा कथानिकां काञ्चिदेष प्रबजितकस्ताताय कय पति, न पुनस्तद्भवार्थमहं लक्षयामि स्म यथेयं साम्प्रतमगृहीतसङ्केता न लक्षयति / अगृहीतसङ्केतयाऽभिहितं-भद्र ! किमन्यः कश्चिद्भावार्थों भवति ? संसारिजीवः प्राहबाढं, भद्रे ! नास्ति प्रायेण मदीयचरिते भावार्थरहितमेकमपि वचनं, ततो न भवत्या कथानकमात्रेण सन्तोषो विधातव्यः, किं तर्हि ? भावार्थोऽपि बोद्धव्यः, स च परिस्फुट एव भावार्थः, तथाप्यगृहीतसङ्केते ! यत्र कचिन्न बुध्यते भवती तत्र प्रज्ञाविशाला प्रष्टव्या यतो बुध्यते सभावार्थमेषा मदीयवचनम् / अगृहीतसङ्केतयोक्तं-एवं करिष्यामि, प्रस्तुतमभिधीयताम् / . ततो विचक्षणमूरिवचनमनुसंदधानः संसारिजीवः कथानकशेषमिदमाह यदुत ततो विमर्शेनाभिहितं-भद्र ! वर्णय यदिहागमनकारण भद्रस्य / शोकेनाभिहितम् आस्तेऽत्र नगरेऽद्यापि, वयस्योऽत्यन्तवल्लभः / मम जीवितसर्वस्वं, मतिमोहो महाबलः // 1 // तदर्शनार्थमायातस्ततोऽहं भद्र ! साम्प्रतम् / आवासितं महाटव्यां, मुक्त्वा देवस्य साधनम् // 2 // विमर्शेनोक्तम्-स कस्मात्स्वामिना साध, न गतस्तत्र साधने / शोकः प्राह स देवेन, धारितोऽत्रैव पत्तने // 3 // उक्तश्चासौ यथा नित्यं, न मोक्तव्यं त्वया पुरम् / मतिमोह ! त्वमेवास्य, यतः संरक्षणक्षमः // 4 // ततः प्रपद्य देवाज्ञां, संस्थितोऽत्र पुरे पुरा / एतनिवेदितं तुभ्यं, प्रविशामोऽधुना वयम् // 5 // विमर्शः प्राह सिद्धिस्ते, तुष्टः शोको गतः पुरे / विमर्शश्च ततश्चेदं, प्रकर्ष प्रत्यभाषत // 6 // भद्र ! या साधनाधारा, प्रोक्ताऽनेन महाटवी / गत्वा तस्यां प्रपश्यावो, रागकेसरिमन्त्रिणम् // 7 //